आनन्दभैरव उवाच
अथ षट्‌क्रयोगं च प्रवक्ष्यामीह तत्त्वतः ।
कुण्डलीयोगविविधं कृत्वा योगी भवेन्नरः ॥१॥

मूलादिब्रह्मरन्ध्रान्तं षट्‌क्रभेदनं मतम् ।
षट्‌चक्रे योगशास्त्राणि विविधानि वसन्ति हि ॥२॥

यो जानातीह षट्‌चक्रं सर्वशास्त्रार्थविद्‍भवेत् ।
चतुद्‌र्दलं मूलपद्मं वादिसान्तार्णसम्भवम् ॥३॥

हिरण्यवर्नममलं ध्यायेद्योगी पुनः पुनः ।
निर्जने विपिने शून्ये पशुपक्षिगनावृते ॥४॥

निर्भये सुन्दरे देशे दुर्भिक्षादिविवर्जिते ।
कृत्वा दृढासनं मन्त्री योगमार्गपरो भवेत् ॥५॥

तदा योगी भवेत् क्षिप्रं मम शास्त्रानुसारतः ।
पूर्वदले वकारं च ध्यायेद्योगी सदा सुखी ॥६॥

सुर्वणवर्णं हितकारिणं नृणां सत्वोद्‌भवं पूर्वदलस्थितं सुखम् ।
मत्तप्रियं वारणमत्तमन्दिरं मन्त्रार्थक शीतलरुपधारिणम् ॥७॥

योगानुभावाश्रयकालमन्दिरं तेजोमयं सिद्धिसमृद्धिदं गुरुम् ।
आद्याक्षरं वं वरभावसाधनं नारायणं भावनपञ्चमच्युतम् ॥८॥

ध्यायेत् शकारं कनकाचलप्रभं गौरीपतेः श्रीकरणं पुराणम् ।
लक्ष्मीप्रियं सर्वसुवर्णवेष्टितं सदा मुदा दक्षिणपत्रमुत्तमम् ॥९॥

शमीश्वरीषष्ठगुणावतांस षट्‌पद्मसम्भेदनकारकं परम् ।
परापरस्थाननिवासिनं गुणं हेमाचलं पत्रमहं भजामि ॥१०॥

सकारमानन्दरसं प्रियं प्रियं ध्याये महाहाटकपर्वताग्रकम् ।
ध्याये मुदाहं घननाथमन्दिरे मायामहामोहविनाशन जयम् ॥११॥

चतुर्भुजं भुजयुगं अष्टादशभुजं तथा ।
अष्टहस्तं सदा ध्यायेन्मन्त्री भावविशुद्वये ॥१२॥

ततो ध्यायेत कर्णिकाया मध्यदेशे मनोरमम् ।
स्वयम्भूलिङुपरमं योगिनां योगसिद्धिदम् ॥१३॥

प्रातः सूर्यसमप्रख्य्म तडित्कोटिसमप्रभम् ।
तं संवेष्ट्य महादेवी कुण्डली योगदायिनी ॥१४॥

सार्धत्रिवेष्टनग्रन्थियुता सा मुक्तिदायिनी ।
निद्रिता सा सदा भद्रा महापातकघातिनी ॥१५॥

निरन्तरं तस्य शीर्षे विभाति शशधारिणी ।
तच्छ्‌वासधारिणी नित्या जगतां प्राणधारिणी ॥१६॥

सुप्ता सर्पसमा भ्रान्तिः यथार्कशतकोट्यः ।
यदा लिङुं सा विहाय प्राक्‌तिष्ठति महापथे ॥१७॥

तदा सिद्धो भवेद्योगी ध्यानधारणकृत शुचिः ।
सदानन्दमयो नित्यश्चैतन्यकुण्डली यदा ॥१८॥

सुषुम्ना नाडिकामध्ये महासूक्ष्मविले स्थितः ।
मनो निधाय यो योगी श्वासमार्गपरो भवेत् ॥१९॥

तदा सा द्रवति क्षिप्रं चैतन्या कुण्डली परा ।
पृष्ठदेशे महादण्डे मेरुमूले महाप्रभे ॥२०॥

मूलादिब्रह्मरन्ध्राधः सदास्थिरुपधारकः ।
कनकाचलनाम्ना च प्रतिभाति जगत्त्रये ॥२१॥

तन्मध्ये परमा सूक्ष्मा सुषुम्ना बहुरुपिणी ।
मनोमुनिस्वरुपा च मनश्चैतन्यकारिणी ॥२२॥

तन्मध्ये भाति वज्राख्या घोरपातकनाशिनी ।
सिद्धिदाभावविज्ञानाम मोक्षदा कुलरुपिणाम् ॥२३॥

तन्मध्ये चित्रिणी देवी देवताप्रीतिवर्द्धिनी ।
हितैषिणी महामाया कालजालविनाशिनी ॥२४॥

सा पाति सकलान् चक्रान् पद्मरुपधरान् परान् ।
त्रैलोक्यमण्डलगतान् साक्षादमृतविग्रहान् ॥२५॥

स्वयं दधार सा देवी चित्राख्या चारुतेजसी ।
तले पृष्ठे ऊद्‌र्ध्वदेशे शीर्षे वक्षसि नाभिषु ॥२६॥

कण्ठकूपे चक्रमध्ये ब्रह्माण्ड पाति सर्वदा ।
शरीरात्मकमीशार्थं त्रैलोक्यं सचराचरम् ॥२७॥

चित्रासुग्रथनं पद्मं योऽवभाव्यति भावकः ।
भावेन लभ्यते योगं भावेन भाव्यते शिवः ॥२८॥

भावेन शक्तिमाप्नोति तस्मद्‌भावं समाश्रयेत् ।
षट्‌चक्रभावनां कृत्वा महायोगी भवेन्नरः ॥२९॥

सर्वधर्मान्वितो भूत्वा राजते क्षितिमण्डले।
सर्वत्रगामी स भवेत् यदि पद्मे मनोलयम् ॥३०॥

पद्मभावनमात्रेण आकाशसदृशो भवेत् ।
महापद्मे मनो दत्वा महाभक्तो भवेदध्रुवम् ॥३१॥

N/A

References : N/A
Last Updated : April 26, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP