पञ्चत्रिंशः पटलः - पञ्चकर्मनिरूपनम
पञ्चस्वरयोगसाधनम्
आनन्दभैरवी उवाच
अथ वक्ष्ये महाकाल रहस्यं चातिदुर्लभम ।
यस्य विज्ञानमात्रेण नरो ब्रह्मपदं लभेत् ॥१॥
आकाशे तस्य राज्यञ्च खेचरेशो भवेद् ध्रुवम् ।
धनएशो भवति क्षिप्रं ब्रह्मज्ञानी भवेन्नरः ॥२॥
योगानामधिपो राजा वीरभद्रो यथाकविः ।
विरिञ्चिगणनाथस्य कृपा भवति सर्वदा ॥३॥
यः करोति पञ्चयोगं स स्यादमरविग्रहः ।
धौतीयोगं प्रवक्ष्यामि यत्कृत्वा निर्मलो भवेत् ॥४॥
अत्यन्तगुह्यं योगं समाधिकरणं नृणाम् ।
यदि न कुरुते योगं तदा मरणमाप्नुयात् ॥५॥
धौतीयोगं विना नाथ कः सिद्धयति महीतले ।
सूक्ष्मात्सूक्ष्मतरं वस्त्रं द्वात्रिंशद्धस्तमानतः ॥६॥
एकहस्तक्रमेणैव यः करोति शनैः शनै ।
यावद् द्वात्रिंशद्धस्तञ्च तावत्कालं क्रियाञ्चरेत् ॥७॥
एतत्क्रिया प्रयोगेण योगी भवति तत्क्षणात् ।
क्रमेण मन्त्रसिद्धिः स्यात् कालजालवशं नयेत् ॥८॥
एतन्मध्ये चासनानि शरीरस्थानि चाचरेत् ।
दृढासने योगसिद्धिरिति तन्त्रार्थनिर्णयः ॥९॥
सिद्धे मनौ परावाप्तिः पञ्चयोगासनेन च ।
पार्श्वे चाष्टाङ्गुलं वस्त्रं दीर्घ द्वात्रिंशदीश्वर ॥१०॥
एतत् सूक्ष्मं सुवसनं गृहीत्वा कारयेद् यतिः ।
जितेन्द्रियः सदा कुर्याद् ज्ञानध्याननिषेवणः ॥११॥
कुलीनः पण्डितो मानी विवेकी सुस्थिराशयः ।
धौतीयोगं सदा सदा कुर्यात्तदैव शुचिगो भवेत् ॥१२॥
अनाचारेण हानिः स्यादिन्द्रियाणां बलेन च ।
महापातकमुख्यानां सङुदोषेण हानयः ॥१३॥
सम्भवन्ति महादेव कालयोगं सुकर्म च ।
वृद्धो वा यौवनस्थो वा बालो वा जड एव च ॥१४॥
करणाद्दीर्घजीवी स्यादमरो लोकवल्लभः ।
मन्त्रसिद्धिरष्टसिद्धिः स सिद्धीनामधीश्वरः ॥१५॥
शनैः शनैः सदा कुर्यात् कालदोषविनाशनात् ।
ह्रदयग्रन्थिभेदन सर्वावयववर्धनम् ॥१६॥
तदा महाबलो ज्ञानी चारुवर्णो महाशयः ।
धौतीयोगोद्भवं कामं महामरणकारणम् ॥१७॥
तस्य त्यागं यः करोति स नरो देवविक्रमः ।
श्वासं त्यक्त्वा स्तम्भनञ्च मनो दद्यान्महानिले ॥१८॥
श्वासादीनाञ्च गणनवश्यं भावयेद् गृहे ।
प्राणायामविधानेन सर्वकालं सुखी भवेत् ॥१९॥
वायुपानं सदा कुर्यात् ध्यानं कुर्यात्सदैव हि ।
प्रत्याहारं सदा कुर्यात् मनोनिवेशनं सदा ॥२०॥
मानसादिप्रजाप्यञ्च् सदा कुर्यान्मनोलयम् ।
धौतीयोगान्तरं हि नेउलीलीङ्कर्म चाचरेत् ॥२१॥
नेउलीयोगमात्रेण आसने नेउलोपमः ।
नेउलीसाधनादेव चिरजीवी निरामयः ॥२२॥
अन्तरात्मा सदा मौनी निर्मलात्मा सदा सुखी ।
सर्वदा समयानन्दः कारणानन्दविग्रहः ॥२३॥
योगाभ्यासं सदा कुर्यात् कुण्डली साधनादिकम् ।
कृत्वा मन्त्री खेचरत्वं प्राप्नोति नात्र संशयः ॥२४॥
तत्प्रकारं प्रवक्ष्यामि सावधानावधारय ।
भुक्त्वा मुद्गान्नपक्वञ्च बारैकं प्रतिपालयेत् ॥२५॥
प्रपालयेत्सोदरञ्च कटिनासाविवर्जितः ।
पुनः पुनश्चालनञ्च कुर्यात् स्वोदरमद्यकम् ॥२६॥
कुलालचक्रवत कुर्यात् भ्रामणञ्चोदरस्य च ।
सर्वाङचालनादेव कुण्डलीचालनं भवेत् ॥२७॥
चालनात् कुण्डलीदेव्याश्चैतन्या सा भवेत् प्रभो ।
एतस्यानन्तरं नाथ क्षालनं परिकीर्तितम् ॥२८॥
नाडीनां क्षालनादेव सर्वविद्यानिधिर्भवेत् ।
सर्वत्र जयमाप्नोति कालिकादर्शनं भवेत् ॥२९॥
वायुसिद्धिर्भवेत्तस्य पञ्चभूतस्य सिद्धिभाक् ।
तस्य कीर्तिस्त्रिभुवने कामदेवबलोपमः ॥३०॥
सर्वत्रगामी स भवेदिन्दियाणां पतिर्भवेत् ।
मुण्डासनं हि सर्वत्र सर्वद कारयेद् बुधः ॥३१॥
ऊद्र्ध्वे मुण्डासनं कृत्वा अधोहस्ते जपं चरेत् ।
यदि त्रिदिनमाकर्तुं समर्थो मुण्डिकासनम् ॥३२॥
तदा हि सर्वनाड्यश्च वशीभूता न संशयः ।
नाडीक्षालनयोगेन मोक्षदाता स्वयं भवेत् ॥३३॥
नाडीयोगेन सर्वार्थसिद्धिः स्यान्मुण्डिकासनात् ।
मुण्डासन यः करोति नेऊलि-सिद्धोगो यदि ॥३४॥
नेऊलीसाधनगतो नेऊलीसाधनोत्तमः ।
तदा क्षालनयोगेन सिद्धिमाप्नोति साधकः ॥३५॥
नेऊलीं यो न जानाति स कथ कर्त्तुमुत्तमः ।
स धीरो मानसचरो मतिमान् स जितेन्द्रियः ॥३६॥
यो नेऊली योगसारं कर्त्तुमत्तमपारगः ।
स चावश्य क्षालनञ्च कुर्यात् नाड्यादिशोधनात् ॥३७॥
नेऊलीयोगमार्गेण नाडीक्षालनपारगः ।
भवत्येव महाकाल राजराजेश्वरो यथा ॥३८॥
पृथिवीपालनरतो विग्रहस्ते प्रपालनम् ।
केवलं प्राणवायोश्च धारणात् क्षालनं भवेत् ॥३९॥
विना क्षालनयोगेन देहशुद्धिर्नजायते ।
क्षालनं नाडिकादीनां कफपित्तमलादिकम् ॥४०॥
करोति यत्नतो योगी मुण्डासननिषेवणात् ।
वायुग्रहणमेवं हि नेऊलीवशकालके ॥४१॥
न कुर्यात् केवलं नाथ अन्यकाले सदा चरेत् ।
यावन्नेऊलीं न जानति तावत् वायुं न संपिबेत् ॥४२॥
बहुतरं न सङ्ग्राह्यं वायोरागमनादिकम् ।
केवलं श्वासगणनं यावन्नेऊलीं न सिद्ध्यति ॥४३॥
पञ्चस्वरा प्रकथिता योगिनी सिद्धिदायिका ।
पञ्चस्वरसाधनादेव पञ्चवायुर्वशो भवेत् ॥४४॥
प्रतापे सूर्यतुल्यः स्यात् शोकदोषापहारकः ।
सर्वयोगस्थिरतरं संप्राप्य योगिराड् भवेत् ॥४५॥
॥ इति श्रीरुद्रयामले उत्तरमतन्त्रे महातन्त्रोद्दीपने षट्चक्रप्रकाशे भैरवभैरवी संवादे पञ्चस्वयोगसाधनं नाम पञ्चत्रिंशः पटलः ॥३५॥
N/A
References : N/A
Last Updated : April 26, 2011
TOP