आनन्दभैरवी उवाच
अथ नाथ प्रवक्ष्येऽहं संसारसाधनोत्तमम् ।
येन साधनमात्रेण योगी भवति तत्क्षणात् ॥१॥

अनायासेन सिद्धिः स्याद्‍ यद्‍यन्मनसि वर्त्तते ।
त्रैलोक्यं मोहयोत्क्षिप्रं त्रैलोक्यं वशमानयेत् ॥२॥

रामेण सहितं नित्यं जगतां साक्षिणं वरम् ।
जामदग्न्यकराम्भोजसेवितं सर्वसेवितम् ॥३॥

अनन्तसत्त्वनिलयं वासुकी सङुमाकुलम् ।
अष्टहस्ताग्रसुश्रीदं नानालङ्कारशोभितम् ॥४॥

स्वाधिष्ठानगतं ध्यात्वा शीतलो जायते वशी ।
तत्स्तोत्रं श्रृणु मे नाथ यत्पाठात् सिद्धिमाप्नुयात् ॥५॥

श्रीकृष्णस्त्रोत्रम्
ब्रह्मादयः सुराधीशा मुनयः क्रतुरक्षकाः ।
एतत् स्तोत्रं पुरा कृत्वा जीवन्मुक्तो महीतले ॥६॥

अतः श्रीकालिकानाथ स्तोत्रं श्रॄणु महत्फलम् ॥७॥

श्रीविष्णोरद्‌भुतकर्मणो ब्रह्मर्षिस्त्रिष्टुपछन्दः श्रीविष्णुः श्रीकृष्णः श्रीनारायणो देवता
सर्वस्तोत्रसारकवचमन्त्रसिद्धयर्थे विनियोगः ॥

श्री कृष्णं जगतामधीशमनघं ध्यानत्सिद्धिप्रदं
गोविन्दं भवसिन्धुपारकरणं सन्तारणं कारणम् ।
श्री विष्णु वनमालिन नरहरिं नारायणं गोकुलं
योगेन्द्रं नरनाथमादिपुरुंष वृन्दावने भावयेत् ॥८॥

मोक्षश्रीसहितं कृतान्तविकृतं धर्माणीव सुन्दरं
श्रीरांम बलरामभावविमलं नित्याकुलं सत्कुलम् ।
श्रीश्याम कनकादिहार विलसत्लम्बोदरं श्रीधरं
तं वन्दे हरिमीश्वरं गुणवतीमायाश्रयं स्वाश्रयम् ॥९॥

वैकुण्ठेशमशेषदोषरहितं सायुज्यमोक्षात्मकं
नानात्नविनिर्मिता मम पूजा राजेन्द्र्चूडामणिम् ।
शोभामण्डलमण्डितं सुरतरुच्छायाकरं योगिनं
विद्यागोपसुतावृतं गुणमय्म वाक्सिद्धये भावयेत् ॥१०॥

स्वाधिष्ठाननिकेतनं परजनं विद्याधनं मायिनं
श्रीनाथं कुलयोगिनं त्रिभुवनोल्लासैकबीजं प्रभुम्।
संसारोत्सवभावलाभनिरंत सर्वदिदेशं सुखं
वन्देऽहं वरसर्पशत्रुसफले पृष्ठे स्थिरानन्ददम् ॥११॥

भावाष्ट भवभाव्योगजडितं जाड्यापहं भास्वरं
नित्यं शुद्धगुणं गभीरधिषणामोदैकहेतुं पतिम् ।
कीर्तिक्षेमकरं महाभयहरं कामाधिदैवं शिवं
तत्तत्षड्‌दलमध्यगेहरुचिरानन्दैकदेशास्पदम् ॥१२॥

वन्दे श्रीपतिमच्युतं नरहरिं दैत्यारिशिक्ष्याकुलं
गन्धर्वप्रभृतेः सुगायनरतं वंशीधरं भावदम् ।
रत्नानामधिपें गतिस्थमचलं गोवर्धनाधारणं
विश्वामित्रतपोधनादि मुनिभिः संसेवितः तैजसम् ॥१३॥

वन्दे गोविन्दपादाम्बुजमजमजितं राजित भक्तिमार्गे
सत्त्वोत्पन्नं प्रभुत्वं परगणनमितं चारुमञ्जीरहारम् ।
हंसाकारं धवलगरुडानन्दपृष्ठे निमग्नं
बन्धूकारक्तसारान्विचरनतलं सर्वदाशान्तलम् ॥१४॥

राकिण्याः प्रेमसिद्धं नववयसिगत गीतवाद्यादिरागं
रागोत्पन्नं सुफलगुणदं गोकुलानन्दचन्द्रम् ।
वाणी-लक्ष्मी-प्रियं तं त्रिभुवनसुजनाहलादकर्तारमाद्यं
वन्दे सिद्धान्तसारं गतिनतिरहितं सारसङ्केतितात्पम् ॥१५॥

कामं कामात्मकं तं विधुगतशिरसं कृष्णसम्बोधनातं
बीजं कामं पुनस्तत् पुरुषसुरतरुं भावयित्वा भजेऽहम् ।
श्रीकृष्ण कृष्णकृष्णं निरवधिसुखदं सुप्रकाशं प्रसन्नं
स्वाधिष्ठानाख्यपद्मे मनसि गतो भवे सिद्धिस्थलस्थम् ॥१६॥

आकाशे चारुपद्मे रसभयवलगं रक्तवर्णं प्रकाण्डं
आत्मारामं नरेन्द्रं सकलरतिकरं कंसहन्तारमादिम् ।
आद्यन्तशानहीनं विधिहरगमनं सेन्द्रनीलामलाभं
भावोत्साहं त्रिसर्गस्थितिपरममरं भावये भावसिद्धयै ॥१७॥

सर्वेषां ज्ञानदानं रसदलकमले सर्वदा त्वं करोषि
आत्मानन्दं सुधादिप्रियधनगुणिनामेकयोगप्रधानम् ।
मायापूर्णः प्रचयनवरसः प्रीतिदेशः प्रभेकः
श्रीराजाख्यः प्रपूर्णः मयि धनरहिते दृष्टिपातं भवादौ ॥१८॥

काली श्री कुण्डलिन्याः परगृहनिरतं भावकब्रह्मरुपं।
मुक्तिअच्छत्रं पुरेशं निजधनसुखं भार्यया क्रीडायन्तम् ।
सभाक्षेत्रं नेत्रं नयमानमय्मत्पुरसंस्थाभिषेकम् ॥१९॥

ध्यात्वाऽहं प्रणमामि सूक्ष्मकमले लोकधिप्म व्याधिपं
वैकुण्ठं कृष्णमीडे कुरुभवविभवक्षेमहन्तारमन्तम् ।
शान्तानां ज्ञानगम्य़ं स्वनयनकमले पालयन्तं त्रिमार्गं
वज्रारिं पूतनारिं द्वयवकनरकध्वान्तसंहारसूरम् ॥२०॥

मान्यं लोकेषु सर्वेष्वतिशयमनसं केवलं निर्मलञ्च
ओङ्कारं कारणाख्य सुगतिमतिमतां मातृकामन्त्रसिद्धम् ।
सिद्धानामादिसिद्धं सुररिपुशमनं कालरुपं रिपूणां
मूलोर्ध्व षड्‌दलान्ते मनसि सुविमले पूरयित्वा मुकुन्दम् ॥२१॥

नित्यं सम्भावयेऽहं निजतनुसमता सिद्धये पूजयामि ।
त्वं साक्षादखिलेश्वरः प्रियकरः श्रीलोकहस्तार्चितः ।
क्षोणीशः प्रलयात्मकः प्रतिगुणी ज्ञानी त्वमेको महान् ॥२२॥

यद्येवं मम पामरस्य कलुषं श्रीधर्महीनान्दितं
कृत्वा पादतले यदीह नियतं व्यारक्ष रक्षात्मगम् ।
राधा कृष्णपदामलाम्बुजतलं चैतन्यमुक्त्याकुलं
सर्वत्रादिगमागमं त्रिगमनं निर्वाणमोक्षाश्रयम् ॥२३॥

बालं वैरिविनाशनं सुखमयं कैवल्यमोक्षास्पदं
दैवं देवगणार्चितं रसदले चारोपयामि प्रभो ।
निर्दि‌द्ष्टं भुवनाश्रयं यतिपतिं निर्वाणमोक्षस्थितं
निर्वाणादिकमोदने प्रचपलं श्रीचञ्चलासङ्‌कुलम् ॥२४॥

वन्देऽहं परमेश्वरं सकलदैत्यानां बलप्राणाहं।
हंसारुढनिरक्षणं क्षणगतं वाणीपतिं भूपतिम् ।
वाञ्छाकल्पलतापतिं कुलपतिं विद्यापतिं गोपतिम् ॥२५॥

श्री विद्यापतिमादिदेवपुरुषं विश्वेश्वप्रेमगं ।
श्री कुम्भोद्‌भवकालसत्वनिकरं त्वां भास्करं भावये ।
सिद्धानाम भिचिन्हयोगनिरतं रक्ष त्वमादौ हि माम् ॥२६॥

प्रभो निःसङ्केतं गुणमणिमतं श्रेयसि मतं ।
मतामन्तः सुस्थं विगलितमहाप्रेमसुरसम् ।
मुदा वन्दे कृष्णं हरकरतलाम्भोजयजितम् ॥२७॥

प्रभापुञ्जं रामश्रयपदमदं कामकुशलं
महामन्त्रच्छायां रजनिमिलितं ध्वान्तजदितम् ।
त्रिकोणस्थं कुस्थं कुगतिसुगतिं कारणगतिं
प्रलीन संस्थान जगति जगतां धर्ममुदयम् ॥२८॥

रमेशं वाणीशं विधिगतपदं शम्भुनिगतं
त्रिकालं योगानां नयनकमलं शब्दनिरतम् ।
कुलानन्दं गोपीनह्रदयगं गोपियजितं
विधानं त्वामिन्द्रं गुरुतरमुपेन्द्रं हरिरिपुम ॥२९॥

मुदा त्वां वन्देऽहं चपलं तां मे नवहवे ।
कुलालापश्रद्धामय मखिलसिद्धिप्रदमनम् ।
मलातीतं नीतं सुरनरसतां शास्त्रभवनम् ॥३०॥

विनोदं नारीणां ह्रदयसिकं शोकहितम् ।
विराजं यज्ञानां हितमतिगुणं यामि शरणम् ॥३१॥  

एतत्सम्बन्धमात्री मम कुलशिरसि स्थायिनं पातु नित्यं
गोपीनां प्रानानाथः प्रतिदिनमनिशं भालदेशं प्रपायात् ।
भालाधोदेशसंस्थं समवतु सहसा राजराजेश्वरेशः
(गोपान्वन्वो                       सुरेशः?)
स्थित्यन्तेशास्त्रिनेत्रं सुखमखिलभवः कण्ठच्छ्त्राभिसंस्थम् ॥३२॥

पृष्ठस्थं पातु शौरिः प्रतिदिनममरो लिङुबाह्यं कटिस्थं
शम्भुप्रेमाभिलाषी मम तु कुलपदं गुह्यदेशं प्रपायात् ।
आनन्दोद्रेककारी सकलतनुगतं पातु नित्यं मुरारिः
दैत्याअरिश्चोरुमूलं नृहरिरवतु मे जङ्कया पादपद्मम् ॥३३॥

एतत्स्तोत्रं पठेद्व्द्वान् नियतो भक्तिमान् शुचिः ।  
स्थिरो भवति मासेन षड्‌दले सर्वासिद्धिभाक् ॥३४॥  

॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्‌दीपने सिद्धमन्त्रप्रकरणे षट्‌चक्रप्रकाश भैरवभैरवीसंवादे श्रीकृष्णस्तवनकवचं नामैकोनचत्वारिंशत्तमः पटलः ॥३९॥

N/A

References : N/A
Last Updated : April 26, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP