आनन्दभैरवी उवाच
अथ नाथ प्रवक्ष्यामि श्रृणुष्वावहितो मम ।
येन क्रमेण लोकानां योगकार्यं दृढं भवेत् ॥१॥

सर्वत्र भावग्रस्तः सः सिद्धो भवति भैरव ।
यो भवेद्भैरवो देवो भुवने सर्वगो हि सः ॥२॥

क्रियादक्षो महावीरो वीरवल्लभभावकः ।
भावयित्वा वर्णमालां मध्ये जप्त्वा दिवानिशम् ॥३॥

हविष्याशी प्राणवायुरतो वेदान्तपारगः ।
सिद्धान्तवेत्ता सर्वेषां शास्त्राणां निर्णयप्रियः ॥४॥

गाथाज्ञानी परानन्दो विवेकी भावतत्परः ।
भाववेत्ता रहस्तार्थज्ञानी कोविदवेदवित् ॥५॥

वाक्यसिद्धिज्ञानपरः सत्यवादी दृढासनः ।
भावयेत् षड्‌गतं वर्णं ध्यानं कुर्यात् पृथक् पृथक् ॥६॥

षट्पद्मस्थो भावयेद्वै षड्‌वर्णं ध्यानपूर्वकम् ।
वादिलान्ताक्षरं ध्यायेन्महाविद्यानिषेवकः ॥७॥

बकारं सौन्दर्यं स्वकिरणमयं भाव्यमतुलं
मुकुन्दश्रीभक्तिप्रियरमणंक  पूर्वदलगम् ।
विशिष्टज्ञानान्तं सुखरनतं कोटिकिरणं
विभाव्य श्रीलक्ष्मी गमयति झटित् कालपुरुषम् ॥८॥

द्विवर्णं श्रीनाथं सुखयति भकारं रसदले
त्रिकोणापार्श्वस्थां चपलशकलं शम्भुनिलयम् ।
महारक्ताकारं तरुणविगतं भीममकुलं
कुलागारस्थानं कुलरमणीरक्तायुतमिति ॥९॥

यदा ध्यायेत्‌‌‌‍ ज्ञानी निरवधि मुदा शोकविषहं
त्रिलोकानां स्थानं भुवनशरणं प्रातविसुखी ।
महामोक्षद्वारे भवति स महान् सर्वजडितो
विलासी सर्वेषां नवनववधूनां प्रियपतिः ॥१०॥

महाकालस्थानं स जयति सकारं यदि भजे
दरीणां व्याहस्ता रुधिरकिरणं कोट्यरुणकम् ।
महाकालस्थानं(.....)शरणं प्रागपि सुखी
त्रिकोणां दक्षाङे निगमनयनो योगययजितः ॥११॥

विनोदी सौख्यानां सुरतरुसमानो भुवि दिवि
यकारं यो ध्यायेदमरपदवीव्याधिरहितः ।
महावाणीनाथं प्रणयजडितं त्वक् सुरतरुं
मुकुन्दानन्दान्तः पवनमिलितं कामकरणम् ॥१२॥

तदा लोकोऽकामी भवति नितरां काकपवनी
महाग्नेः संस्थानं परजलधरं सूर्यशतकम् ।
यदानन्दैर्ध्यायेत् परमधनदं यज्ञसुधया
सुधापानज्ञानी हवनकरणं काम्यफलदम् ।
प्रियं तद्वेरत्याः कमलगभुजङेश्वरनुतं
त्रिकोणा पृष्ठस्थं विधिहरिहरस्य प्रियमिति ॥१३॥

विधानं हवनीनां कुल विमलबीजं सकरुणं
असृङ्‌ मायाखण्डं खगगनमनोरञ्जनवरम् ।
यदि ध्यायेदेको विभवविविधं याति सहसा
महेन्द्रः स्थानाङ कमलसुखदं कृष्णनिलयम् ॥१४॥

प्रियं सिद्धक्षेत्रं यदि सुखमयं भावयति यः
लकारं चन्द्रस्थं विधुशतकरं बिन्दुनिलयम् ।
विशालाक्षी राधा मधुरवचनालापकलितं
रमामोदे पत्रे तरणकरणं सापहरणम् ॥१५॥

सुवामे राकिण्या नवरसमयं मोहहरणं ।
विभाव्य श्रीनाथं भजति स नरो ध्याननिपुणो ।
महामोक्षं प्राप्य प्रथम रजसं सङुमयति ॥१६॥

ततो ध्येया महाविद्या राकिणीशक्तिरुत्तमा ।
श्रीविष्णुसहिता नित्यं योगैर्भोगविवर्जितः ॥१७॥

अकलङी कुलानन्दो मन्दहास्यावृतो महान् ।
स योगी परमं राज्यं प्राप्नोति नात्र संशयः ॥१८॥

यावन्मूलाधारयोगं तावद् यमादिकं प्रभो ।
यमनियमासने काले योगं पञ्चामरान्वितम् ॥१९॥

तावन्कुर्यान्महादेव यावत्तत् सिद्धिमाप्नुयात् ।
यदि पञ्चामरा सिद्धिस्तदा मायादिसिद्धिभाक् ॥२०॥

पञ्चासवा सिद्धिकाले प्राणादिवायुपञ्चमम् ।
धृत्वा धृत्वा पुनर्धृत्वा कुम्भयेदनिशं शनैः ॥२१॥

शरीरे निर्मले याते वायुनिर्मलता भवेत् ।
सर्वरुपी महावायुर्निर्मलात्मानमात्मनि ॥२२॥

सिद्धिं ददाति योगेश यदि स्वकार्यमाश्रयेत् ॥२३॥

॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सिद्धिमन्त्रप्रकरणे आनन्दभैरवी भैरवसंवादे षड्‌दलवर्णप्रकाशो नाम चत्वारिंशत्तमः पटलः ॥४०॥

N/A

References : N/A
Last Updated : April 26, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP