द्विचत्वारिंशः पटलः - षड्चक्रभेदाः
राकिणीसाधनम्
आनन्दभैरव उवाच
वद कान्ते रहस्यं मे मया सर्वञ्च विस्मृतम् ।
महविषं कालकूटं पीत्त्वा देवादिरक्षणात् ॥१४४॥
कण्ठस्थाः देवताः सर्वा भस्मीभूताः सुसम्भृताः ।
महाविषज्वालया च मम देहस्थदेवताः ॥१४५॥
कैवल्यनिरता सर्वे प्रार्थयन्ति निरन्तरम् ।
षट्चक्रं कथयित्वा तु सन्तोषं मे कुरु प्रभो ।
षट्चक्रभेदकथनममृतश्रवनादिकम् ॥१४६॥
कथित्वा मम सन्तोषं कुरु कल्याणि वल्लभे ।
अमृतानन्दजलधौ सुधाभिः सिक्तविग्रहम् ॥१४७॥
कृत्त्वा कथय शीघ्रं मे चायुषं परिवर्धय ।
आनन्दभैरवी उवाच
निगूढार्थ महाकाल कालेश जगदीश्वर ॥१४८॥
भैरवानन्दनिलय कालकूटनिषेवण ।
इदानीं श्रृणु योगार्थ मयि संयोग एव च ॥१४९॥
श्रुत्वा चैतत्क्रियाकार्यं नरो योगीश्वरो भवेत् ।
ममोद्धवः खेऽमले च सर्वाकारविवर्जिते ॥१५०॥
भ्रूमध्ये सर्वदेहे च स्थापयित्वा च मां नरः ।
भाव्यते चापरिच्छन्नं ब्रह्मविष्णुशिवात्मकम् ॥१५१॥
मम रुपं महाकालं सत्त्वरजस्तमः प्रियम् ।
केवलं रजोयोगेन शरीरं नापि तिष्ठति ॥१५२॥
तथा केवलयोगेन तमसा नापि तिष्ठति ।
तथा केवलसत्त्वेन कुतो देही प्रतिष्ठति ।
अतस्त्रिगुनयोगेन धारयामि नवाङुकम् ॥१५३॥
शनैः शनैः विजेतव्याः सत्त्वरजस्तमोगुणाः ।
आदौ जित्वा रजोधर्मं पश्चात्तामसमेव च ॥१५४॥
सर्वशेषे सत्त्वगुण्म नरो योगीश्वरो भवेत् ।
गुणवान् ज्ञानवान् वाग्मी सुश्रीर्धर्मी जितेन्दियः ॥१५५॥
शुद्धनिर्मलसत्वं तु गुणमाश्रित्य मोक्षभाक् ।
सदा सत्त्वगुनाच्छन्नं पुरुषं काल एव च ॥१५६॥
पश्यतीह न कदाचिज्जरामृत्युविवर्जितम् ।
तं जनं शान्तं निर्मलं द्वैतवर्जितम् ॥१५७॥
सर्वत्यागिनमात्मानं कालः सर्वत्र रक्षति ।
जले वा पर्वते वापि महारण्ये रणस्थले ॥१५८॥
भूगर्त्तनिलये भीते संहारे दुष्टविग्रहे ।
सन्तिष्ठति महायोगी सत्यं सत्यं कुलेश्वर ॥१५९॥
महायोगं श्रृणु प्राणवल्लभ श्रीनिकेतन ।
योगार्थं परमं ब्रह्मयोगार्थ परन्तपः ॥१६०॥
ये जानन्ति महायोगं म्रियन्ते न ते नराः ।
कृत्वा कृत्वा षड्दलस्य साधनं कृत्स्नसाधनम् ॥१६१॥
ततः कुर्यान्मूलपदमे कुण्डलीपरिचालनम् ।
मुहुर्मुहुश्चालनेन नरो योगीश्वरो भवेत् ॥१६२॥
एकान्तनिर्मले देशे दुर्भिक्षादिविवर्जिते ।
वर्षमेकासने योगी योगमार्गपरो भवेत् ॥१६३॥
पद्मासनं सदा कुर्याद् बद्धपद्मासनं तथा ।
महापद्मासनं कृत्वा तथा चासनमञ्जनम् ॥१६४॥
तत्पश्चात् स्वस्तिकाख्यञ्च बद्धस्वस्तिकमेव च ।
योगाभ्यासे सदा कुर्यात मन्त्रसिद्धयदिकर्मणि ॥१६५॥
चक्रासनं सदा योगी योगसाधनकर्मणि ।
बद्धचक्रासनं नाम महाचक्रासनं तथा ॥१६६॥
कृत्वा पुनः प्रकर्तव्य बद्धयोगेश्वरासनम् ।
योगेश्वरासनं कृत्वा महायोगेश्वरासनम् ॥१६७॥
वीरासनं ततः कुर्यात् महावीरासनं तथा ।
बद्धवीरासनं कृत्वा नरो योगेश्वरो भवेत् ॥१६८॥
ततः कुर्यान्महाकाल बद्धकुक्कुटासनम् ।
महाकुक्कुटमाकृत्य केवलं कुक्कुटासनम् ॥१६९॥
मयूरासनमेवं हि महामयूरमेव च ।
बद्धमयूरमाकृत्य नरो योगेश्वरो भवेत् ॥१७०॥
एतत् सर्वं प्रवक्तव्यं विचार्य सुमनः प्रिय ।
अभिषेकप्रकरणे आसनादिप्रकशकम् ॥१७१॥
कथितव्यं विशेषेण इदानीं श्रृणु षट्क्रमम् ।
ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः ॥१७२॥
ततः परशिवो देवः षट्शिवाः षट्प्रकाशकाः ।
एतेषां षड्गुणानन्दाः शक्तयः परदेवताः ॥१७३॥
षट्चक्रभेदनरता महाविद्याधिदेवताः ।
एतेषां स्तवनं कुर्यात् परदेवसमन्वितम् ॥१७४॥
एतत्प्रकारकरणे यश्च प्रत्यहमादरात् ।
क्रियानिविष्टः सर्वत्र भावनाग्रहरुपधृक् ॥१७५॥
स पश्यति जगन्नाथ कमलोपगतं हरिम् ।
आदौ हरेर्दर्शनञ्च कारयेद्येन कुण्डली ॥१७६॥
ततो रुद्रस्य सञ्ज्ञायां लाकिन्याः शुभदर्शनम् ।
सर्वशः क्रमशो नाथ दर्शनं प्राप्यते नरः ॥१७७॥
शनैः शनैर्महाकाल कैलासदर्शनं भवेत् ।
क्रमेण सर्वसिद्धिः स्यात् अष्टाङुयोगसाधनात् ॥१७८॥
अष्टाङुसाधने काले यद्यत् कर्मं करोति हि ।
तत्सर्वं परियत्नेन श्रृणु सादरपूर्वकम् ।
तत्क्रियादिकमाकृत्य शीध्रं योगी भविष्यति ॥१७९॥
॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सिद्धमन्त्रप्रकरणे षट्चक्रप्रकाशे भैरवीभैरवसंवादे द्विचत्वारिंशत्तमः पटलः ॥४२॥
N/A
References : N/A
Last Updated : April 26, 2011
TOP