श्रीआनन्दभैरव उवाच
वद कामिनि कौमारि सुरानन्दे कुलेश्वरि ।
ह्रदयाम्भोजविन्यासमुधुना वक्तुमर्हसि ॥१॥

यस्य विज्ञानमात्रेण नरो योगेश्वरो भवेत् ।
सर्वसिद्धिक्रियास्थानं योगिनामतिदुर्लभम् ॥२॥

सर्वतत्त्वस्वरुपं च सिद्धिमार्गप्रकाशकम् ।
ह्रदयाम्भोज विज्ञानान्मार्तण्डभैरवी भवेत् ॥३॥

श्रोतुमिच्छामि तत्सर्वं षट्‌चक्रसारमङुलम् ।
स्नेहाद् दृष्टिक्रमेणैव भक्तियोगिद्भवेन च ॥४॥

भेदनं भावनं ज्ञानं चित्तदर्शनमेव च ।
मन्त्रोद्धारञ्च सङ्केतं सर्वज्ञादिगुणोदयम् ॥५॥

यजनं काकिनीदेव्या ईश्वरस्य गुणात्मनः ।
स्तवनं कवचं सर्वं सहस्त्रनाममङुलम् ॥६॥

वायूनां मण्डलज्ञानं समासेन वदस्व मे ।
त्वमेव शरणं देवि त्राहि मां दुःखसङ्कात् ॥७॥

महाकाल भयाभाव भक्तिभावपरायण ।
ममानन्दभैरवेश श्रृणु वक्ष्यामि तत्त्वतः ॥८॥

यदुक्तं भवता चात्र चाश्रुत चाद्भुतं मतम् ।
नोक्तं कुत्रापि सर्वेश तव स्नेहात् प्रकाशितम् ॥९॥

अप्रकाश्यमिंद रत्नं दुःखजालनिवारण्‍ ।
सावधानेन सर्वेश कुरु त्वं योगसाधनम् ॥१०॥

मयि योगं महादेव कृत्वा कालवशं नय ।
मयो योगं न करोति सिद्धिभक्तिक्रियादिकम् ॥११॥

अकस्मान्मरणं तस्य कालभक्षो न संशयः ।
केवलं मां ह्रदम्भोजे परिपूर्णफलोदये ॥१२॥

सर्वाकारे मनोराज्ये नानाकौतुकसङ्‌कुले ।
पूजयित्वा सदा ध्यायेत् काकिनीं मां न संशयः ॥१३॥

स योगी जायते नाथ ह्रदम्बुजप्रसादतः ।
ह्रत्पङ्केमध्यस्थाः सर्वे देवाः सवासवाः ॥१४॥

मामर्चयन्ति ते नित्यं भक्तिभावपरायणाः ।
ये ध्यायन्ति महावीर ते पश्यन्ति सवासवान् ॥१५॥

क्रमेण प्राणसंयोगान् मां पश्यन्ति न संशयः ।
मामेक काकिनीध्यानं स्थिरवायुं प्रचण्डकम् ॥१६॥

पश्यन्ति योगिनः काये अष्टैश्वर्यं महाप्रभम् ।
केवलं भक्तियोगेन नित्ययोगे स्युरुत्तमाः ॥१७॥

पद्मध्यानं प्रथमतः कृत्वा सिद्धो भवेन्नरः ।
तद्धयानं श्रृणु वीरेश योगिनामिह दुर्लभम् ॥१८॥

ह्रत्पद्मं कुलपालितं सुललितं हंसेन संशोधित
बन्धू कामलदीप्तिकोटिजडित सम्भावितं साधकैः ।
अत्युत्कृष्टमयूखपुञ्जमिलितं सिन्दूरपूरारुणं
ध्यात्वा पश्यति यो नरः प्रतिदिनं काद्यारुणैरावृतम् ॥१९॥

स स्यात्कोटिधनेश्वरो नरवरो भूयात्त्वभावार्णवे
यो नित्यं लिपिभावनं प्रकुरुते नित्येश्वरालोकनात् ।
तद्धयानं क्रमतो वदामि सकलं येन प्रसिद्धो भवे
दानन्दार्णवमध्यपद्मकलितं काद्यर्कवर्णोज्ज्वलम् ॥२०॥

दले पूर्वे ध्यायेदतिविमलवर्णं कमिति वा
प्रभातार्कच्छायारुणीकिरणयोगं युगमयम् ।
चतुर्बाहुं नित्यं त्रिनयनमनन्तं रविगतं
भवाद्याशक्तिस्थं स्वभवघटाशोभिततनुम‌ ॥२१कँ॥

द्वितीये पत्रेऽस्मिन् खमरुणसमूहाश्रयपदं
पदं श्रीतारिण्या अनिलगगनयोः प्रियकरम् ।
मुदा ध्यायेदेवं परममनिलं देवभुजगं
सुवर्णालङ्कार त्रिनयनममौल्य् सुखमयम् ॥२२खँ॥

तृतीये पत्रेऽस्मिन् विधुयुतकपालं त्रिनयनं
स्वसिन्दूराकार द्वियुगभुजशोभाभवमहम् ।
सदा ध्यायेदेवं परमपुरुषं श्रीगणपति
स्फुरद्रक्ताकारं तरुणमणिमालं जितमदम् ॥२३गँ॥

चतुःपत्रे ध्यायेद्यमरुणशतं घोरनिनदं
क्रियादक्षं मूर्तिं त्रिनयनसरोजं युगभुजम् ।
वराभीतिप्रोच्छत्स्फटिकजपमालादिसहितं
फणालङ्कराङु शिव शिव मुखेशोत्तममहम‍ ॥२४घँ॥

ङंबीजं सिन्दुरारुणममखिलनाथं त्रिनयनं
महामोक्षस्थानं मणिकनकरत्नाद्यभरणम् ।
चतुर्बाहुं रुद्रं जगति भवमेकं गुणविभुं
कपालं श्रीमाल वरमभयकं बिभ्रतमहम् ॥२५ङँ॥

चतुर्बाहूल्लासं कमलवरमालासिसहितं
विभुं तं ध्यायेऽहं विधुशतमुखं तं त्रिनयनम् ।
प्रभातार्कप्रायं सकलमणिरत्नाभरणकं
महाज्योत्स्नाजालं परमरसबिन्दुद्भवतनुम् ॥२६चँ॥

तमेकं नेत्रस्थं छममलकरं नूतनरविं
चतुर्बाहुं ध्याये वरतनुकपालेषु सहितम् ।
सुधाधारापानं कनकपमालाऽवृततनुं
त्रिनेत्रं योगेन्द्र वसुदलगतं चारुवदनम् ॥२७॥छँ॥

चतुर्वक्त्रं ध्याये जमजममरं सारुणतनुं
विशालाक्षं सूक्ष्मं समरसमय ब्रह्मपुषम् ।
चतुर्बाहुं देवं त्रिभुवनपदं सारघटितं
महाशङ्कं रुद्र वरमभयकं विभ्रतबलम् ॥२८जँ॥

महाकायं तेजोमयमपि चरुं बीजमखिलं
मुदा ध्याये कमापहमतिमुखं चाष्टमदले ।
महासिन्दूराद्रिं दिनकरकलाकोटिविमलं
त्रिनेत्रं पञ्चास्यं दशभुजयुतं सर्वपुषम् ॥२९झँ॥

ञबीजं सार्धेन्दूद्भव शिखमखेशं त्रिनयनं
चतुर्बाहुं ध्याये सुकमलगदाचक्रनियुतम् ।
महामालाव्याप्तं सुकनकशुभाऽलङ्‌कृतगुरुं
प्रभातार्कं विश्वार्चितजडिलरुपं रविदले ॥३०ञँ॥

मनोरुपाच्छन्नं त्रिनयनमधीशारुणदले
टबीजं बिन्द्विन्द्वं जपवटिवराभीत्यासिधरम् ।
तमेकं सोमेशं मणिमयचलत्कुण्डलधरं
मुदा ध्याये शम्भुं ह्रदि शिवदले सिद्धकमले ॥३१टँ॥

त्रिनेत्रं कामाख्यं शिशुकरुणया सिद्धिफलदं
सुरत्नाऽलङ्कारच्छविरुचितनूनां समनघम् ।
ठकारं बिन्द्विन्द्वं नवरविघटाकोटिकिरणं
दले चार्के ध्याये कमलवरमालशिशुधरम् ॥३२ठँ॥

एतच्छुद्धमनोलयस्य भवनं चैतन्यसंसिद्धये
वर्णाना जपभावनं यदि सदा चिन्तामणेर्मण्डलम् ।
योगीन्द्रः कुरुते वशिष्ठसदृशो वा चां पतिर्भूतले
वाक्सिद्धिं चिरकालवासमखिले देवो हि नो मानुषः ॥३३॥

वाञ्छाचिन्तामणिगृहं ह्रदयाम्भोजमण्डलम् ।
तन्मध्ये पवनस्थानं मण्डलाकारमुल्बणम् ॥३४॥

बुद्धिप्रतिभया व्याप्तं तन्मध्ये पवनाक्षरम् ।
आच्छन्नधूमसङ्काशं प्रसिद्धस्थानमुत्तमम् ॥३५॥

तन्मध्ये देवतापीठं षट्‌कोणं मण्डलं परम् ।
तन्मध्ये भावयेदिष्टं स्वस्वकल्पोक्तसाधितम् ॥३६॥

वायोर्ध्यानं तत्र कुर्यादत्यन्तसूक्ष्मरुपिणम् ।
निराकारं परं ब्रह्म साकारं शब्दरुपिणम् ॥३७॥

निरक्षरं स्वाक्षराढ्यं महोग्रं स्थिररुपिणम् ।
चतुर्बाहुं जगद्व्याप्तं कृष्णसारासनं यवम् ॥३८॥

लोकत्रयाणां वरदं करुणासिन्धुरुपिणम् ।
पञ्चभूतात्मकं रौद्रं प्राणसञ्ज्ञं किरीटिनम् ॥३९॥

संबिभ्रतं वराभीतिघण्टामरुसेवकान् ।
ईशनाम्ना परिचितं परहंसं कुलेश्वरम् ॥४०॥

सर्वाऽलङ्कारशोभाङुं विवेकोदयकारणम् ।
विचिन्तयेत् साधककेन्द्रः परिवारगणावृतम् ॥४१॥

तत्र पङ्केरुहे ध्यायेदीश्वरं वर्णरुपिणम् ।
त्रैलोक्यमङुलं नाथ चतुर्बाहुं किरीटिनम् ॥४२॥

रत्नमालाशोभिताङु शुक्लवर्णं महाप्रभम् ।
ईश्वरं योगिनामीशं वरदं परमेश्वराम् ॥४३॥

वराभीतिशङ्कपद्मश्रिया जुष्टं पुरातनम् ।
रत्नाभरणभूशाङुं ह्रदयाम्भोजवासिनम् ॥४४॥

वाञ्चातिरिक्तफलदं भावसिद्धिप्रकाशकम् ।
परमहसमीशानं ध्यायेद् ह्रत्पद्ममण्डले ॥४५॥

तत्पार्श्व ध्यानकुर्यात् काकिनीं परमेश्वरीम् ।
त्रैलोक्यपूजिता देवीं काकचञ्चुप्रकाशिनीम् ॥४६॥

चतुर्भुजां पीतवर्णां पीतवस्त्रोपशोभिताम् ।
नवविद्युत्कोटिरुपां विलोलनेत्रपङ्कजाम् ॥४७॥

N/A

References : N/A
Last Updated : April 30, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP