अथैकषष्टितमः पटलः - काकिनीश्वरसहस्त्रनामस्तोत्रम्
काकिण्यष्टोत्तरसहस्त्रनामस्तोत्रचिन्यासः
अस्य श्रीकाकिनीश्वरसहस्त्रनामस्तोत्रस्य ब्रह्मऋषिर्गायत्रीच्छन्दो जगदीश्वर
काकिनी देवता निर्वाणयोगार्थ सिद्धयर्थे जपे विनियोगः
ॐ ईश्वरः काकिनीशान ईशान कमलेश्वरी ।
ईशः काकेश्वरीशानी ईश्वरीशः कुलेश्वरी ॥२४॥
ईशमोक्षः कामधेनुः कपर्दीशः कपर्दिनी ।
कौलः कुलीनान्तरगा कविः काव्यप्रकाशिनी ॥२५॥
कलादेशः सुकविता कारणः करुणामयी ।
कञ्जपत्रेक्षणः काली कामः कोलावलीश्वरी ॥२६॥
किरातरुपी कैवल्या किरणः कामनाशना ।
कार्णाटेशः सकर्णाटी कलिकः कालिकापुटा ॥२७॥
किशोरः कीशुनमिता केशवेशः कुलेश्वरी ।
केशकिञ्जल्ककुटिलः कामराजकुतूहला ॥२८॥
करकोटिधरः कूटा क्रियाक्रूरः क्रियावती ।
कुम्भहा कुम्भहन्त्री च कटकच्छकलावती ॥२९॥
कञ्जवक्त्रः कालमुखी कोटिसूर्यकरानना ।
कम्रः कलपः समृद्धिस्था कुपोऽन्तस्थः कुलाचला ॥३०॥
कुणपः कौलपाकाशा स्वकान्तः कामवासिनी ।
सुकृतिः शाङ्करी विद्या कलकः कलनाश्रया ॥३१॥
कर्कन्धुस्थः कौलकन्या कुलीनः कन्यकाकुला ।
कुमारः केशरी विद्या कामहा कुलपण्डिता ॥३२॥
कल्कीशः कमनीयाङी कुशलः कुशलवती ।
केतकीपुष्पमालाढ्यः केतकीकुसुमान्विता ॥३३॥
कुसुमानन्दमालाढ्यः कुसुमामलमालिका ।
कवीन्द्रः काव्यसम्भूतः काममञ्जीरञ्जिनी ॥३४॥
कुशासनस्थः कौशल्याकुलपः कल्पपादपा ।
कल्पवृक्षः कल्पलता विकल्पः कल्पगामिनी ॥३५॥
कठोरस्थः काचनिभा करालः कालवासिनी ।
कालकूटाश्रयानन्दः कर्कशाकाशवाहिनी ॥३६॥
कटधूमाकृतिच्छायो विकटासनसंस्थिता ।
कायधारी कूपकरी करवीरागतः कृषी ॥३७॥
कालगम्भीरनादान्ता विकलालामानसा ।
प्रकृतीशः सत्प्रकृतिः प्रकृष्टः कर्षिणीश्वरी ॥३८॥
भगवान् वारुणीवर्णा विवर्णो वर्णरुपिणी ।
सुवर्णवर्णो हेमाभो महान् महेन्द्रपूजिता ॥३९॥
महात्मा महतीशानी महेशो मत्तगामिनी ।
महावीरो महावेगा महालक्ष्मीश्वरो मतिः ॥४०॥
महादेवो महादेवी महानन्दो महाकला ।
महाकालो महाकाली महाबलो महाबला ॥४१॥
महामान्यो महामान्या महाधन्यो महाधनी ।
महामालो महामाला महाकाशो महाकाशा ॥४२॥
महायशो महायज्ञा महाराजो महारजा ।
महाविद्यो महाविद्या महामुख्यो महामखी ॥४३॥
महारात्रो महारात्रिर्महाधीरो महाशया ।
महाक्षेत्रो महाक्षेत्रो कुरुक्षेत्रः कुरुप्रिया ॥४४॥
महाचण्डो महोग्रा च महामत्तो महामतिः ।
महावेदो महावेदा महोत्साही महोत्सवा ॥४५॥
महाकल्पो महकल्पा महायोगो महागतिः ।
महाभद्रो महाभद्रा महासूक्ष्मो महाचला ॥४६॥
महावाक्यो महावाणी महायज्वा महाजवा ।
महामूर्तिमहाकान्ता महाधर्मो महाधना ॥४७॥
महामहोग्रो महिषी महाभोग्यो महाप्रभा ।
महाक्षेमो महामाया महामाया महारमा ॥४८॥
महेन्द्रपूजिता माता विकला मण्डलेश्वरी ।
महाविकालो विकला प्रतलस्थललामगा ॥४९॥
कैवल्यदाता कैवल्या कौतुकस्थो विकर्षिणी ।
वालप्रतिर्वालपत्नी बलरामो वलाङुजा ॥५०॥
अवलेशः कामवीरा प्राणेशः प्राणरक्षिणी ।
पञ्चमाचारगः पञ्चापञ्चमः पञ्चमीश्वरी ॥५१॥
प्रपञ्चः पञ्चरस्गा निष्प्रपञ्चः कृपामयी ।
कामरुपी कामरुपा कामक्रोधविवर्जिता ॥५२॥
कामात्मा कामनिलया कामाख्या कामचञ्चला ।
कामपुष्पधरः कामा कामेशः कामपुष्पिणी ॥५३॥
महामुद्राधरो मुद्रा समुद्रः काममुद्रिका ।
चन्द्रार्धकृतभालाभो विधुकोटिमुखाम्बुजा ॥५४॥
चन्द्रकोटिप्रभाधारी चन्द्रज्योतिःस्वरुपिणी ।
सूर्याभो वीरकिरणा सूर्यकोटिविभाविता ॥५५॥
मिहिरेशो मानवका अन्तर्ग्गामी निराश्रया ।
प्रजापतीशं कल्याणी दक्षेशः कुलरोहिणी ॥५६॥
अप्रचेताः प्रचेतस्था व्यासेशो व्यासपूजिता ।
काश्यपेशः काश्यपेशी भृग्वीशो भार्गश्वरी ॥५७॥
वशिष्ठः प्रियभावस्थो वशिष्ठबाधितापरा ।
पुलस्त्यपूजितो देवः पुलस्त्यचित्तसंस्थिता ॥५८॥
अगस्त्यार्च्योगस्त्यमाता प्रहलादेशो वलीश्वरी ।
कर्दमेशः कर्दमाद्या बालको बालपूजिता ॥५९॥
मनस्थश्चान्तरिक्षस्था शब्दज्ञानी सरस्वती ।
रुपातीता रुपशून्या विरुपो रुपमोहिनी ॥६०॥
विद्याधरेशो विद्येशी वृषस्थो वृषवाहिनी ।
रसज्ञो रसिकानन्दा विरसो रसवर्जिता ॥६१॥
सौनः सनत्कुमारेशी योगचर्येश्वरः प्रिया ।
दुर्वाशाः प्राणनिलयः साड्ख्ययोगसमुद्भवा ॥६२॥
असड्ख्येयो मांसभक्षा सुमांसाशी मनोरमा ।
नरमांसविभोक्ता च नरमांसविनोदिनी ॥६३॥
मीनवक्त्रप्रियो मीना मीनभुङ्मीनभक्षिणी ।
रोहिताशी मत्स्यगन्धा मत्स्यनाथो रसापहा ॥६४॥
पार्वतीप्रेमनिकरो विधिदेवाधिपूजिता ।
विधातृवरदो वेद्या वेदो वेदकुमारिका ॥६५॥
श्यामेको सितवर्णा च चासितोऽसितरुपिणी ।
महामत्ताऽऽसवाशी च महामत्ताऽऽसवप्रिया ॥६६॥
आसवा ढ्योऽमनादेवी निर्मलासवपामरा ।
विसत्तो मदिरामत्ता मत्तकुञ्जरगामिनी ॥६७॥
मणिमालाधरो मालामातृकेशः प्रसन्नधीः ।
जरामृत्युहरो गौरी गायनस्थो जरामरा ॥६८॥
सुचञ्चलोऽतिदुर्धर्षा कण्ठस्थो ह्रद्गता सती ।
अशोकः शोकरहिता मन्दरस्थो हि मन्त्रिणी ॥६९॥
मन्त्रमालाधरानन्दो मन्त्रयन्त्रप्रकाशिनी ।
मन्त्रार्थचैतन्यकरो मन्त्रसिद्धप्रकाशिनी ॥७०॥
मन्त्रज्ञो मन्त्रनिलया मन्त्रार्था मन्त्रमन्त्रिणी ।
बीजध्यानसमन्तस्था मन्त्रमालेऽतिसिद्धिदा ॥७१॥
मन्त्रवेत्ता मन्त्रसिद्धिर्मन्त्रस्थो मान्त्रिकान्तरा ।
बीजस्वरुपो बीजेशी बीजमालेऽति बीजिका ॥७२॥
बीजात्मा बीजनिलया बीजाढ्या बीजमालिनी ।
बीजध्यानो बीजयज्ञा बीजाढ्या बीजमालिनी ॥७३॥
महाबीजधरो बीजा बीजाढ्या बीजवल्लभा ।
मेघमाला मेघमालो वनमाली हलायुधा ॥७४॥
कृष्णाजिनधरो रौद्रा रौद्रा रौद्रगणाश्रया ।
रौद्रप्रियो रौद्रकर्त्री रौद्रलोकप्रदः प्रभा ॥७५॥
विनाशी सर्वगानां च सर्वाणी सर्वसम्पदा ।
नारदेशः प्रधानेशी वारणेशो वनेश्वरी ॥७६॥
कृष्णश्वरः केशवेशी कृष्णवर्णस्त्रिलोचना ।
कामेश्वरो राघवेशी बालेशी वा बाणपूजितः ॥७७॥
भवानीशो भवानी च भवेन्द्रो भवल्लभा ।
भवानन्दोऽतिसूक्श्माख्या भवमूर्तिर्भवेश्वरी ॥७८॥
भवच्छाया भवानन्दो भवभीतिहरो वला ।
भाषाज्ञानीभाषामाला महाजीवोऽतिवासना ॥७९॥
लोभापम्दो लोभकर्त्री प्रलोभो लोभवर्धिनी ।
मोहातीतो मोहमाता मोहजालो महावती ॥८०॥
मोहमुद्गरधारी च मोहमुद्गरधारिणी ।
मोहान्वितो मोहमुग्धा कामेशः कामिनीश्वरी ॥८१॥
कामलापकरोऽकामा सत्कामो कामनाशिनी ।
बृहन्मुखो बृहन्नेत्रा पद्माभोऽम्बुजलोचन ॥८२॥
पद्ममालः पद्ममाला श्रीदेवी देवरक्षिणी ।
असितोऽप्यसिता चैव आहलादो देवमातृका ॥८३॥
नागेश्वरः शैलमाता नागेन्द्रो वै नगात्मजा ।
नारायणेश्वरः कीर्तिः सत्कीर्तिः कीर्तिवर्धिनी ॥८४॥
कार्तिकेशः कार्तिका च विकर्ता गहनाश्रया ।
विरक्तो गरुडरुढा गरुडस्थो हि गारुडी ॥८५॥
गरुडेशो गुरुमयी गुरुदेवो गुरुप्रदा ।
गौराङेशो गौरकन्या गङेश प्राङुणेश्वरी ॥८६॥
प्रतिकेशो विशाला च निरालोको निरीन्द्रिया ।
प्रेतबीजस्वरुपश्च प्रेताऽलङ्कारभूषिता ॥८७॥
प्रेमगेहः प्रेमहन्त्री हरीन्दो हरिणेक्षणा ।
कालेशः कालिकेशानी कौलिकेशश्च काकिनी ॥८८॥
कालमञ्जीरधारी च कालमञ्जीरमोहिनी ।
करालवदनः काली कैवल्यदानदः कथा ॥८९॥
कमलापालकः कुन्ती कैकेयीशः सुतः कला ।
कालानलः कुलज्ञा च कुलगामी कुलाश्रया ॥९०॥
कुलधर्मस्थितः कौला कुलमार्गः कुलातुरा ।
कुलजिहवः कुलानन्दा कृष्णः कृष्णसमुद्भवा ॥९१॥
कृष्णेश कृष्णमहिषी काकस्थः काकचञ्चुका ।
कालधर्मः कालरुपा कालः कालप्रकाशिनी ॥९२॥
कालजः कालकन्या च कालेशः कालसुन्दरी ।
खड्गहस्तः खर्पराढ्या खरगः खरखडिगनी ॥९३॥
खलबुद्धिहरः खेला खञ्जनेशः सुखाञ्जनी ।
गीतप्रियो गायनस्था गणपालो गृहाश्रया ॥९४॥
गर्गप्रियो गयाप्राप्तिर्गर्गस्थो हि गभीरिणा ।
गारुडीशो हि गान्धर्वी गतीशो गार्हवहिनजा ॥९५॥
गणगन्धर्वगोपालो गणगण्धर्वगो गता ।
गभीरमानी सम्भेदो गभीरकोतिसागरा ॥९६॥
गतिस्थो गाणपत्यस्था गणनाद्यो गवा तनूः ।
गन्धद्वारो गन्धमाला गन्धाढ्यो गन्धनिर्गमा ॥९७॥
गन्धमोहितसर्वाङो गन्धचञ्चलमोहिनी ।
गन्धपुष्पधूपदीपनैवेद्यादिप्रपूजिता ॥९८॥
गन्धागुरुसुकस्तूरी कुङ्कुमादिविमण्डिता ।
गोकुला मधुरानन्दा पुष्पगन्धान्तरस्थिता ॥९९॥
गन्धमादनसम्भूतपुष्पमाल्यविभूषितः
रत्ना द्यशेषालङ्कारमालामण्डितविग्रहः ॥१००॥
स्वर्णद्यशेषालङ्कारहारमालाविमण्डिता ।
करवीरा युतप्रख्यरक्तलोचनपङ्कजः ॥१०१॥
जवाकोटिकोटिशत चारुलोचनपङ्कजा ।
घनकोटिमहानास्य पङ्कजालोलविग्रहा ॥१०२॥
घर्घरध्वनिमानन्दकाव्यम्बुधिमुखाम्बुजा ।
घोरचित्रसर्पराज मालकोटिशताङ्कभृत् ॥१०३॥
घनघोरमहानाग चित्रमालविभूषिता ।
घण्टाकोटिमहानादमानन्दलोलविग्रहः ॥१०४॥
घण्टाडमरुमन्त्रादि ध्यानानन्दकराम्बुजा ।
घटकोटिकोटिशतसहस्त्रमङुलासना ॥१०५॥
घण्टाशङ्खपद्मचक्रवराभयकराम्बुजा ।
घातको रिपुकोटीनां शुम्भादीनां तथा सताम् ॥१०६॥
घातिनीदैत्यघोराश्च शङ्खानां सततं तथा ।
चार्वाकमतसङ्वातचतुराननङ्कजः ॥१०७॥
चञ्चलानन्दसर्वार्थसारवाग्वादिनीश्वरी ।
चन्द्रकोटिसुनिर्माल मालालम्बितकण्ठभृत् ॥१०८॥
चन्द्रकोटिसमानस्य पङ्केरुहमनोहरा ।
चन्द्रज्योत्स्नायुप्रख्यहारभूषितमस्तकः ॥१०९॥
चन्द्र बिम्बसहस्त्राभायुतभूषितमस्तकः ।
चारुचन्द्रकान्तमणिमणिहारयुताङुभृत् ॥११०॥
चन्दनागुरुकस्तूरी - कुङ्कुमासक्तमालिनी ।
चन्डमुण्डमहामुण्डायुतनिर्मलमाल्य भृत् ॥१११॥
चण्डमुण्डघोरमुण्डनिर्माणकुलमालिनी ।
चण्डाट्टहासघोरढ्यवदनाम्भोजचञ्चलः ॥११२॥
चलत्खञ्जननेत्राम्भोरुहमोहितशङ्करा ।
चलदम्भोजनयनानन्दपुष्पकरमोहितः ॥११३॥
चलदिन्दुभाषमाणावग्रहखेदचन्दिका ।
चन्द्रार्धकोटिकिरणचूडामण्डललमण्डितः ॥११४॥
चन्द्रचूडाम्भोजमाला उत्तमाङुविमण्डितः ।
चलदर्कसहस्त्रान्त रत्नहारविभूषितः ॥११५॥
चलदर्ककोटिशतुमुखाम्भोजतपोज्ज्वला ।
चारुरत्नासनाम्भोजचन्दिकामध्यसंस्थितः ॥११६॥
चारुद्वादशपत्रादि कर्णिकासुप्रकशिका ।
चमत्कार - ग - टङ्काधुनर्बाणकराम्बुजः ॥११७॥
चतुर्थवेदगाथादि स्तुतिकोटिसुसिद्धिदा ।
चलदम्बुजनेत्रार्कवहिनचन्द्रत्रयान्वितः ॥११८॥
चलत्सहस्त्रसङ्ख्यात पङकजादिप्रकाशिका ।
चमत्काराट्टहासास्य स्मितपङ्कजराजयः ॥११९॥
चमत्कारमहाघोरसाट्टाट्टाहासशोभिता ।
छायासहस्त्रसंसारशीतलानिलशीतलः ॥१२०॥
छदप्रद्मप्रभामानसिंहासनसमास्थिता ।
छलत्कोटिदैत्यराजमुण्डमालाविभूषितः ॥१२१॥
छिन्नदिकोटिमन्त्रार्थज्ञानचैतन्यकारिणी ।
चित्रमार्गमहाध्वान्तग्रन्थिसम्भेदकारकः ॥१२२॥
अस्त्रकास्त्रदिब्रह्मास्त्रसहस्त्रकोटिधारिणी ।
अजामांसादिसद्भक्ष-रसामोदप्रवाहगः ॥१२३॥
छेदनादिमहोग्रास्त्रे भुजवामप्रकाशिनी ।
जयाख्यादिमहासाम ज्ञानार्थस्य प्रकाशकः ॥१२४॥
जायागणह्रदम्भोज बुद्धिज्ञानप्रकाशिनी ।
जनार्दनप्रेमभाव महाधनसुखप्रदः ॥१२५॥
जगदीशकुलानन्दसिन्धुपङ्कजवासिनी ।
जीवनास्थादिजनमः परमानन्दयोगिनाम् ॥१२६॥
जननी योगशास्त्राणां भक्तानां पादपद्मयोः ।
रुक्षपवननिर्वातमहोल्कापातकारुणः ॥१२७॥
झर्झरीमधुरी वीणा वेणुशङ्खप्रवादिनी ।
झनत्कारौघसंहारकरदण्डविशानधृक् ॥१२८॥
झर्झरीनायिकार्य्यदिकराम्भोजनिषेविता ।
टङ्कारभावसंहारमहाजागरवेशधृक् ॥१२९॥
टङ्कासिपाशुपातास्त्रचर्मकार्मुकधारिणी ।
टलनानलसङ्वट्टपट्टाम्बरविभूषितः ॥१३०॥
टुल्टुनी किङ्किणी कोटि विचित्रध्वनिगामिनी ।
ठं ठं ठं मनुमूलान्तः स्वप्रकाशप्रबोधकः ॥१३१॥
ठं ठं ठं प्रखराहलादनादसम्वादवादिनी ।
ठं ठं ठं कूर्मपृष्ठस्थः कामचाकारभासनः ॥१३२॥
ठं ठं ठं बीजवहिनस्थ हातुकभ्रूविभूषिता ।
डामरप्रखराहलादसिद्धिविद्याप्रकाशकः ॥१३३॥
डिण्डिमध्वानमधुरवाणीसम्मुखपङ्कजा ।
डं डं डं खरकृत्यादि मारणान्तःप्रकाशिका ॥१३४॥
ढक्कारवाद्यभूपूरतारसप्तस्वराश्रयः ।
ढौं ढौं ढौं ढौकढक्कलं वहिनजायामनुप्रियः ॥१३५॥
ढं ढं ढं ढौं ढं ढं ढ कृत्येत्थाहेति वासिनी ।
तारकब्रह्ममन्त्रस्थः श्रीपादपद्मभावकः ॥१३६॥
तारिण्यदिमहामन्त्र सिद्धिसर्वार्थसिद्धिदा ।
तन्त्रमन्त्रमहायन्त्र वेदयोगसुसारवित् ॥१३७॥
तालवेतालदैताश्रीतालादिसुसिद्धदा ।
तरुकल्पलपुष्पकलबीजप्रकाशकः ॥१३८॥
डिन्तिडीतालहिन्तालतुलसीकुलवृक्षजा ।
अकारकूटविन्द्विन्दुमालामण्डिताविग्रहः ॥१३९॥
स्थातृप्रस्थथागाथास्थूलस्थित्यन्तसंहरा ।
दरीकुञ्जहेममालवनमालदिभूषितः ॥१४०॥
दारिद्रयदुःखदहनकालानलशतोपमः ।
दशसाहस्त्रवक्त्राम्भोरुहशोभितविग्रहः ॥१४१॥
पाशाभयवराहलादधनधर्मादिवर्धिनी ।
धर्मकोटिशतोल्लाससिद्धिऋद्धिसमृद्धिदा ॥१४२॥
ध्यानयोगज्ञानयोगमन्तयोगफलप्रदा ।
नामकोटिशतानन्तसुकीर्तिगुणमोहनः ॥१४३॥
निमित्तफलसद्भावभावाभावविवर्जिता ।
परमानन्दपदवी दानलोलपदाम्बुजः ॥१४४॥
प्रतिष्ठासुनिवृत्तादि समाधिफलसाधिनी ।
फेरवीगणसन्मानवसुसिद्धिप्रदायकः ॥१४५॥
फेत्कारीकुलतन्त्रादि फलसिद्धिस्वरुपिणी ।
वराङुनाकोटिकोटिकराम्भोजनिसेविता ॥१४६॥
वरदानज्ञानदान मोक्शदातिचञ्चला ।
भैरवानन्दनाथाख्य शतकोटिमुदान्वितः ॥१४७॥
भावसिद्धिक्रियासिद्धि साष्टाङुसिद्धिदायिनी ।
मकारपञ्चकाहलादमहामोदशरीरधृक् ॥१४८॥
मदिरादिपञ्चतत्त्वनिर्वाणज्ञानदायिनी ।
यजमानक्रियायोगविभागफलदायकः ॥१४९॥
यशः सहस्त्रकोटिस्थ गुणगायनतत्परा ।
रणमध्यस्थकालाग्नि क्रोधधारसुविग्रहः ॥१५०॥
काकिनीशाकिनीशक्तियोगादि काकिनीकला ।
लक्षणायुतकोटीन्दुललाटतिलकान्वितः ॥१५१॥
लाक्षाबन्धूकसिन्दूरवर्णलावण्यलालिता ।
वातायुतसहस्त्राङुघूर्णायमानभूधरः ॥१५२॥
विवस्वत्प्रेमभक्तिस्थ चरणद्वन्द्वनिर्मला ।
श्रीसीतापतिशुद्धाङु व्याप्तेन्द्रनीलसन्निभः ॥१५३॥
शीतनीलाशतानन्दसागरप्रेमभक्तिदा ।
षट्पङ्केरुहदेवादिस्वप्रकाशप्रबोधिनी ॥१५४॥
महोर्मिस्थषडाधारप्रसन्नह्रदयाम्बुजा ।
श्यामप्रेमकलाबन्धसर्वाङुकुलनायकः ॥१५५॥
संसारसारशास्त्रादि सम्बधसुन्दराश्रया ।
ह्रसौः प्रेतमहाबीजमालाचित्रितकण्ठधृक् ॥१५६॥
हकारवामकर्णाढ्य चन्द्रबिन्दुविभूषिता ।
लयसृष्टिस्थितिक्षेत्रपानपालकनामधृक् ॥१५७॥
लक्ष्मीलक्षजपानन्दसिद्धिसिध्दान्तवर्णिनी ।
क्षुन्निवृत्तिक्षपारक्षा क्षुधाक्षोभनिवारकः ॥१५८॥
क्षत्रियादिकुरुक्षेत्रारुणाक्षिप्तलोचना ।
अनन्त इतिहासस्थ आज्ञागामी च ईश्वरी ॥१५९॥
उमेश उटकन्येशी ऋद्धिस्थ ह्रस्थगोमुखी ।
गकारेश्वरसंयुक्त त्रिकुण्डदेवतारिणी ॥१६०॥
एणाचीशप्रियानन्द ऐरावतकुलेश्वरी ।
ओढ्रपुष्पानन्तदीप्त ओढ्रपुष्पानखाग्रका ॥१६१॥
ऐह्रत्यशतकोटिस्थ औ दीर्घप्रणवाश्रया ।
अङुस्थाङुदेवस्था अर्यस्थश्चार्यमेश्वरी ॥१६२॥
मातृकावर्णनिलयः सर्वमातृकलान्विता ।
मातृकामन्त्रजालस्थः प्रसन्नगुणदायिनी ॥१६३॥
अत्युत्कटपथिप्रज्ञा गुणमातृपदे स्थिता ।
स्थावरानन्ददेवेशो विसर्गान्तगामिनी ॥१६४॥
अकलङ्को निष्कलङ्को निराधारो निराश्रया ।
निराश्रयो निराधारो निर्बीजो बीजयोगिनी ॥१६५॥
निःशङ्को निस्पृहानन्दो सिन्धूरत्नावलिप्रभा ।
आकाशस्थः खेचरी च स्वर्गदाता शिवेश्वरी ॥१६६॥
सूक्ष्मातिसूक्ष्मात्वैर्ज्ञेया दारापदुःखहारिणी ।
नानादेशसमुद्भूतो नानालङ्कारलङ्कृता ॥१६७॥
नवीनाख्यो नूतनस्थ नयनाब्जनिवासिनी ।
विषयाख्यविषानन्दा विषयाशी विषापहा ॥१६८॥
विषयातीतभावस्थो विषयानन्दघातिनी ।
विषयच्छेदनास्त्रस्थो विषयज्ञाननशिनी ॥१६९॥
संसारछेदकच्छायो भवच्छायो भवान्तका ।
संसारार्थप्रवर्तश्च संसारपरिवर्तिका ॥१७०॥
संसारमोहहन्ता च संसारार्णवतारिणी ।
संसारघटकश्रीदासंसारध्वान्तमोहिनी ॥१७१॥
पञ्चतत्त्वस्वरुपश्च पञ्चतत्त्वप्रबोधिनी ।
पार्थिवः पृथिवीशानी पृथुपूज्यः पुरातनी ॥१७२॥
वरुणेशो वारुणा च वारिदेशो जलोद्यमा ।
मरुस्थो जीवनस्था च जलभुग्जलवाहना ॥१७३॥
तेजः कान्तः प्रोज्ज्वलस्था तेजोराशेस्तु तेजसी ।
तेजस्थतेजसो माला तेजः कीर्तिः स्वरश्मिगा ॥१७४॥
पवनेशश्चानिलस्था परमात्मा निनान्तरा ।
वायुपूरककारी च वायुकुम्भकवर्धिनी ॥१७५॥
वायुच्छिद्रकरो वाता वायुनिर्गममुद्रिका ।
कुम्भकस्थो रेचकस्था पूरकस्थातिपूरिणी ॥१७६॥
वाय्व्वाकाशाधाररुपी वायुसञ्चारकारिणी ।
वायुसिद्धिकरो दात्री वायुयोगी च वायुगा ॥१७७॥
आकाशप्रकरो ब्राह्यी आकाशान्तर्गतद्रिगा ।
आकाशकुम्भकानन्दो गगनाहलादवर्धिनी ॥१७८॥
गगनाच्छन्नदेहस्थो गगनाभेद्कारिणी ।
गगनदिमहासिद्धो गगनग्रन्थिभेदिनी ॥१७९॥
कलकर्मा महाकाली कालयोगी च कालिका ।
कालछत्रः कालहत्या कालदेवी हि कालिका ॥१८०॥
कालब्रह्मस्वरुपश्च कालितत्त्वार्थरक्षिणी ।
दिगम्बरो दिक्पतिस्था दिगात्मा किगिभास्वरा ॥१८१॥
दिक्पालस्थो दिक्प्रसन्ना दिग्वलो दिक्कुलेश्वरी ।
दिगघोरो दिगवसना दिग्वीरा दिक्पतीश्वरी ॥१८२॥
आत्मार्थो व्यापितत्त्वज्ञ आत्मज्ञानी च सात्मिका ।
आत्मीयश्चात्मबीजस्था चान्तरात्मात्ममोहीनी ॥१८३॥
आत्मसञ्ज्ञानकारी च आत्मानन्दस्वरुपिणी ।
आत्मयज्ञो महात्मज्ञा महात्मात्मप्रकाशिनी ॥१८४॥
आत्मविकारहन्ता च विद्यात्मीयादिदेवता ।
मनोयोगकरो दुर्गा मनः प्रत्यक्ष ईश्वरी ॥१८५॥
मनोभवनिहन्ता च मनोभवविवर्धिनी ।
मनश्चान्तरीक्षयोगो निराकारगुणोदया ॥१८६॥
मनोनिराकारयोगी मनोयोगेन्द्रसाक्षिणी ।
मनःप्रतिष्ठो मनसा मानशङ्का मनोगतिः ॥१८७॥
नवद्रव्यनिगूढार्थो नरेन्द्रविनिवारिणी ।
नवीनगुनकर्मादिसाकारः खगगामिनी ॥१८८॥
अत्युन्मत्ता महावाणी वायवीशो महानिला ।
सर्वपापापहन्ता च सर्वव्याधिनिवारिणी ॥१८९॥
द्वारदेवीश्वरी प्रीतिः प्रलयाग्निः करालिनी ।
भूषडगणतातश्च भूःषण्डरुधिरप्रदा ॥१९०॥
काकावलीशः सर्वेशी काकपुच्छधरो जया ।
अजितेशो जितानन्दा वीरभद्रः प्रभावती ॥१९१॥
अन्तर्नाडीगप्राणो वैशेषिकगुणोदया ।
रत्ननिर्मितपीठस्थः सिंहस्था रथगामिनी ॥१९२॥
कुलकोटीश्वराचार्यो वासुदेवनिषेविता ।
आधारविरहज्ञानी सर्वाधारस्वरुपिणी ॥१९३॥
सर्वज्ञः सर्वविज्ञाना मार्तण्डो यश इल्वला ।
इन्देशो विन्ध्यशैलेशी वारणेशः प्रकाशिनी ॥१९४॥
अनन्तभुजराजेन्द्रो अनन्ताक्षरनाशिनी ।
आशीर्वादस्तु वरदोऽनुग्रहोऽनुग्रहक्रिया ॥१९५॥
प्रेतासनसमासीनो मेरुकुञ्जनिवासिनी ।
मणिमन्दिरमध्यस्थो मणिपीठनिवासिनी ॥१९६॥
सर्वप्रहरणः प्रेतो विधिविद्याप्रकाशिनी ।
प्रचण्डञ्जीरपादाब्जो मबमृत्युपरायणा ।
कुलमालाव्यापिताङु कुलेन्द्रः कुलपण्डिता ॥१९८॥
बालिकेशो रुद्रचण्डा बालेन्द्राः प्राणबालिका ।
कुमारीशः काममाता मन्दिरेशः स्वमन्दिरा ॥१९९॥
अकालजननीनाथो विदग्धात्मा प्रियङ्करी ।
वेदाद्यो वेदजननी वैराग्यस्थो विरागदा ॥२००॥
स्मितहास्यास्यकमलः स्मितहास्यविमोहिनी ।
दन्तुरेशो दन्तुरु च दन्तीशो दशनप्रभा ॥२०१॥
दिग्दन्तो हि दिग्दशना भ्रष्टभुक् चर्वणप्रिया ।
मांसप्रधाना भोक्ता च प्रधानमांसभक्षिणी ॥२०२॥
मत्स्यमांसमहामुद्रा रजोरुधिरभुक्प्रिया ।
सुरामांसहामीनमुद्रामैथुनसुप्रिया ॥२०३॥
कुलद्रव्यप्रियानन्दो मद्यादिकुलसिद्धिदा ।
ह्रत्कण्ठभ्रूसहस्त्राभेदनोऽन्ते विभेदिनी ॥२०४॥
प्रसन्नह्रदयाम्भोजः प्रसन्नह्रदयाम्बुजा ।
प्रसन्नवरदानाढ्यः प्रसन्नवरदायिनी ॥२०५॥
प्रेमभक्तिप्रकाशाढ्यः प्रेमानन्दप्रकाशिनी ॥२०६॥
प्रभाकरफलोदयः परमसूक्ष्मपुरप्रिया
प्रभातविरश्मिगः प्रथमभानुशोभान्विता ।
प्रचण्डरिपुमन्मथः प्रचलितेन्दुदेहोद्गतः
प्रभापटलपाटलप्रचयधर्मपुञ्जार्चिता ॥२०७॥
सुरेन्द्रगणपूजितः सुरवरेशसम्पूजिता
सुरेन्द्रकुल सेवितो नरपतीन्द्रसंसेविता ।
गणेन्द्र गणनायको गणपतीन्द्र देवात्मजा
भवार्णवगतारको जलधिकर्णधारप्रिया ॥२०८॥
सुरासुरकुलोदभवः सुररिपुप्रसिद्धिस्थिता
सुरारिगणघातकः सुरगणेन्द्रसंसिद्धिदा ।
अभीत्सितफलप्रदः सुरवरादिसिद्धिप्रदा ।
प्रियाङुज कुलार्थदः सुतधनापवर्गप्रदा ॥२०९॥
शिवस्वशिवकाकिनी हरहरा च भीमस्वना
क्षितीश इषुरक्षका समनदर्पहन्तोदया ।
गुणेश्वर उमापती ह्रदयपद्मभेदी गतिः
क्षपाकरललाट्धृक् स्वसुखमार्गसन्दायिनी ॥२१०॥
श्मशानतटनिष्पट प्रचटहासकालङ्कृता
हठत्शठमनस्तटे सुरकपाटसंछेदकः ।
स्मराननविवर्धनः प्रियवसन्तसम्बायवी
विराजितमुखाम्बुजः कमलामञ्जसिंहासना ॥२११॥
भवो भवपतिप्रभाभवः कविश्च भाव्यासुरैः
क्रियेश्वर ईलावती तरुणगाहितारावती ।
मुनीन्द्रमनुसिद्धिदः सुरमुनीन्द्रसिद्धायुषी
मुरारिहरदेहगास्त्रिभुवना विनाशक्रिया ॥२१२॥
द्विकः कनककाकिनी कनकतुङुकीलालकः
कमलाकुलः कुलकलार्कमालामला ।
सुभक्त तमसाधकप्रकृतियोगयोग्यर्चितो
विवेकगतमानसः प्रभुरादिहस्तर्चिता ॥२१३॥
त्वमेव कुलनायकः प्रलययोगविद्येश्वरी
प्रचण्डगणगो नगाभुवनदर्पहारी हरा ।
चराचरसहस्त्रगः सकलरुपमध्यस्थितः
स्वनामगुणपूरकः स्वगुणनामसम्पूरणी ॥२१४॥
N/A
References : N/A
Last Updated : April 30, 2011
TOP