चतुष्षष्टितमः पटलः - मन्त्रसंग्रह ४
कण्ठभेदविज्ञानविन्यासः
रिपुविद्वेषण
स भवेद्रिपुविद्वेषी योगाभ्यासी स्वयं भवेत् ।
अन्यमन्त्रं प्रवक्ष्यामि सावधानोऽवधारय ॥२०५॥
अघोरमन्त्रपुटितं साकिनीनिजमन्त्रकम् ।
तदन्ते कामराजं तु रिपुं मे योगविघ्नदम् ॥२०६॥
दारयद्वयमुच्चार्य विद्वेषयद्वयं वदेत् ।
परपक्षं छेदयति कालजालं हरद्वयम् ॥२०७॥
स्वाहान्तमन्त्रमुच्चार्य जपेत् कण्ठधिदेवताम् ।
स भवेद्रिपुविद्वेषी योगविघ्नादिविघ्नह्रत् ॥२०८॥
मङुलोदयमावक्ष्ये येन योगी भवेन्नरः ।
रात्रिशेषे समुत्थाय जपेन्मध्यन्दिवधि ॥२०९॥
योगध्यानं सर्वदैव कण्ठपद्मे स्थिरो भवेत् ।
मङुलोदयमाप्नोति चिरजीवी भवेद् ध्रुवम् ॥२१०॥
मंगलोदयः
विस्मयाहलादमावक्ष्ये यत्कृत्वा योगिनीपतिः ।
स्वीकृत्य च कुलं द्रव्यं परानन्दमयो भवन् ॥२११॥
ध्यानद्विलयमाप्नोति तस्य नाशः कुतः प्रभो ।
क्रमेण परतां याति क्रयविक्रयवर्जितः ॥२१२॥
तस्मिन् प्रलयमापन्ने कुतो देहः कुतो मृतिः ।
तस्यैव सर्वदा पूजा बाह्यपूजा निरर्थिका ॥२१३॥
एतस्मिन् प्रलये याते कुतः सृष्टिस्थितिर्भवेत् ।
सृष्टिस्थितिमयो भूत्वा विलयं याति निश्चितम् ॥२१४॥
विस्मयाहलाद
कालसाधनमावक्ष्ये यथा कुण्डलिनीपदम् ।
यदा समरमानन्दः सानन्दचेतसान्वितः ॥२१५॥
तदैव फलदं कालं तस्मिन् काले च साधयेत् ।
साधनादेव सिद्धिः स्यात् तत्कालसाधनञ्चरेत् ॥२१६॥
कालसाधन
श्रृणु नाथ नवीनत्वं येन याति नरोत्तमः ।
प्रातःकाल समारभ्य यावद्दण्डचतुष्टयम् ॥२१७॥
शौचं स्नानादिकं कृत्वा चासनाभ्यासमाश्रयेत् ।
ततो योगधारणाञ्च ततः पूजादिकं प्रभो ॥२१८॥
ततो जपादिकं कृत्वा प्राणायामं समाचरेत् ।
षट्षोडशद्वादशं तु कुण्डलीवायुधारणम् ॥२१९॥
ततो न्यासं स्तोत्रपाठं कवचं नाममङुलम् ।
पठित्वा देवतां ह्रद्ये पुनरानीय यत्नतः ॥२२०॥
चरणोदकपानं तु पञ्चासवनिषेवणम् ।
दुग्धपानं ततः पश्चात् सन्ध्यावधि विधानतः ॥२२१॥
रात्रौ ध्यानं सदा कृत्वा समाधिं क्रमतो लभेत् ।
एवं क्रमेण देवेश नवीनत्वं समाप्नुयात् ॥२२२॥
ध्यानकथनम्
मम ध्यानं प्रवक्ष्यामि सावधानोऽवधारय ।
अनाश्रय सदा ध्यायेदानन्दप्रणयादिभिः ॥२२३॥
N/A
References : N/A
Last Updated : April 30, 2011
TOP