ब्रह्मकांड - भाग २

संस्कृत व्याकरणातील एक प्रसिद्ध ग्रंथ म्हणजे वाक्यपदीय. याची रचना योगिराज भर्तृहरिने केली.


आत्मरूपं यथा ज्ञाने ज्ञेयरूपं च दृश्यते ।
अर्थरूपं तथा शब्दे स्वरूपं च प्रकाशते ॥५१॥

आण्डभावम् इवापन्नो यः क्रतुः शब्दसंज्ञकः ।
वृत्तिस् तस्य क्रियारूपा भागशो भजते क्रमम् ॥५२॥

यथैकबुद्धिविषया मूर्तिर् आक्रियते पटे ।
मूर्त्यन्तरस्य त्रितयम् एवं शब्दे ऽपि दृश्यते ॥५३॥

यथा प्रयोक्तुः प्राग् बुद्धिः शब्देष्व् एव प्रवर्तते ।
व्यवसायो ग्रहीतॄणाम् एवं तेष्व् एव जायते ॥५४॥

अर्थोपसर्जनीभूतान् अभिधेयेषु केषु चित् ।
चरितार्थान् परार्थत्वान् न लोकः प्रतिपद्यते ॥५५॥

ग्राह्यत्वं ग्राहकत्वं च द्वे शक्ती तेजसो यथा ।
तथैव सर्वशब्दानाम् एते पृथग् अवस्थिते ॥५६॥

विषयत्वम् अनापन्नैः शब्दैर् नार्थः प्रकाश्यते ।
न सत्तयैव ते ऽर्थानाम् अगृहीताः प्रकाशकाः ॥५७॥

अतो ऽनिर्ज्ञातरूपत्वात् किम् आहेत्य् अभिधीयते ।
नेन्द्रियाणां प्रकाश्ये ऽर्थे स्वरूपं गृह्यते तथा ॥५८॥

भेदेनावगृहीतौ द्वौ शब्दधर्माव् अपोद्धृतौ ।
भेदकारेषु हेतुत्वम् अविरोधेन गच्छतः ॥५९॥

वृद्ध्यादयो यथा शब्दाः स्वरूपोपनिबन्धनाः ।
आदैच्प्रत्यायितैः शब्दैः संबन्धं यान्ति संज्ञिभिः ॥६०॥

अग्निशब्दस् तथैवायम् अग्निशब्दनिबन्धनः ।
अग्निश्रुत्यैति संबन्धम् अग्निशब्दाभिधेयया ॥६१॥

यो य उच्चार्यते शब्दो नियतं न स कार्यभाक् ।
अन्यप्रत्यायने शक्तिर् न तस्य प्रतिबध्यते ॥६२॥

उच्चरन् परतन्त्रत्वाद् गुणः कार्यैर् न युज्यते ।
तस्मात् तदर्थैः कार्याणां संबन्धः परिकल्प्यते ॥६३॥

सामान्यम् आश्रितं यद् यद् उपमानोपमेययोः ।
तस्य तस्योपमानेषु धर्मो ऽन्यो व्यतिरिच्यते ॥६४॥

गुणः प्रकर्षहेतुर् यः स्वातन्त्र्येणोपदिश्यते ।
तस्याश्रिताद् गुणाद् एव प्रकृष्टत्वं प्रतीयते ॥६५॥

तस्याभिधेयभावेन यः शब्दः समवस्थितः ।
तसाप्य् उच्चारणे रूपम् अन्यत् तस्माद् विविच्यते ॥६६॥

प्राक् सम्ज्ञिनाभिसंबन्धात् संज्ञा रूपपदार्थिका ।
षष्ट्याश् च प्रथमायाश् च निमित्तत्वाय कल्पते ॥६७॥

तत्रार्थवत्त्वात् प्रथमा संज्ञाशब्दाद् विधीयते ।
अस्येते व्यतिरेकश् च तदर्थाद् एव जायते ॥६८॥

स्वं रूपम् इति कैश् चित् तु व्यक्तिः संज्ञोपदिश्यते ।
जातेः कार्याणि संसृष्टा जातिस् तु प्रतिपद्यते ॥६९॥

संज्ञिनीं व्यक्तिम् इच्छन्ति सूत्रे ग्राह्याम् अथापरे ।
जातिप्रत्यायिता व्यक्तिः प्रदेशेषूपतिष्ठते ॥७०॥

कार्यत्वे नित्यतायां वा के चिद् एकत्ववादिनः ।
कार्यत्वे नित्यतायां वा के चिन् नानात्ववादिनः ॥७१॥

पदभेदे ऽपि वर्णानाम् एकत्वं न निवर्तते ।
वाक्येषु पदम् एकं च भिन्नेष्व् अप्य् उपलभ्यते ॥७२॥

न वर्णव्यतिरेकेण पदम् अन्यच् च विद्यते ।
वाक्यं वर्णपदाभ्यां च प्रविभागो न कश् चन ॥७३॥

पदे न वर्णा विद्यन्ते वर्णेष्व् अवयवा न च ।
वाक्यात् पदानाम् अत्यन्तं प्रविभागो न कश् चन ॥७४॥

भिन्नदर्शनम् आश्रित्य व्यवहारो ऽनुगम्यते ।
तत्र यन् मुख्यम् एकेषां तत्रान्येषां विपर्ययः ॥७५॥

स्फोतस्याभिन्नकालस्य ध्वनिकालानुपातिनः ।
ग्रहणोपाधिभेदेन वृत्तिभेदं प्रचक्षते ॥७६॥

स्वभावभेदान् नित्यत्वे ह्रस्वदीर्घप्लुतादिषु ।
प्राकृतस्य ध्वनेः कालः शब्दस्येत्य् उपचर्यते ॥७७॥

शब्दस्य ग्रहणे हेतुः प्राकृतो ध्वनिर् इष्यते ।
स्थितिभेदनिमित्तत्वं वैकृतः प्रतिपद्यते ॥७८॥

शब्दस्योर्ध्वम् अभिव्यक्तेर् वृत्तिभेदं तु वैकृतः ।
ध्वनयः समुपोहन्ते स्फोटात्मा तैर् न भिद्यते ॥७९॥

इन्द्रियस्यैवसंस्कारः शब्दस्यैवोभवस्य वा ।
क्रियते ध्वनिभिर् वादास् त्रयो ऽभिव्यक्तिवादिनाम् ॥८०॥

इन्द्रियस्यैव संस्कारः समाधानाञ्जनादिभिः ।
विषयस्य तु संस्कारः तद्गन्धप्रतिपत्तये ॥८१॥

चक्षुषः प्राप्यकारित्वे तेजसा तु द्वयोर् अपि ।
विषयेन्द्रिययोर् इष्टा संस्कारः स क्रमो ध्वनेः ॥८२॥

स्फोटरूपाविभागेन ध्वनेर् ग्रहणम् इष्यते ।
कैश् चित् ध्वनिर् असंवेद्यः स्वतन्त्रो ऽन्यैः प्रकल्पितः ॥८३॥

यथानुवाकः श्लोको वा सोढत्वम् उपगच्छते ।
आवृत्त्या न तु स ग्रन्थः प्रत्यावृत्ति निरूप्यते ॥८४॥

प्रत्ययैर् अनुपाख्येयैर् ग्रहणानुगुणैस् तथा ।
ध्वनिप्रकाशिते शब्दे स्वरूपम् अवधार्यते ॥८५॥

नादैर् आहितबीजायाम् अन्त्येन ध्वनिना सह ।
आवृत्तपरिपाकायां बुद्धौ शब्दो ऽवधार्यते ॥८६॥

असतश् चान्तराले याञ् छब्दान् अस्तीति मन्यते ।
प्रतिपत्तुर् अशक्तिः सा ग्रहणोपाय एव सः ॥८७॥

भेदानुकारो ज्ञानस्य वाचश् चोपप्लवो ध्रुवः ।
क्रमोपसृष्टरूपा वाग् ज्ञानं ज्ञेयव्यपाश्रयम् ॥८८॥
ज्ञेयेन न विना ज्ञानं व्यवहारे ऽवतिष्ठते ।
नालब्धक्रमया वाचा कश् चिद् अर्थो ऽभिधीयते ॥८९॥

यथाद्यसंख्याग्रहणम् उपायः प्रतिपत्तये ।
संख्यान्तराणां भेदे ऽपि तथा शब्दान्तरश्रुतिः ॥९०॥

प्रत्येकं व्यञ्जका भिन्न वर्णवाक्यपदेषु ये ।
तेषाम् अत्यन्तभेदे ऽपि संकीर्णा इव शक्तयः ॥९१॥

यथैव दर्शनैः पूर्वैर् दूरात् संतमसे ऽपि वा ।
अन्यथाकृत्य विषयम् अन्यथैवाध्यवस्यति ॥९२॥

व्यज्यमाने तथा वाक्ये वाक्याभिव्यक्तिहेतुभिः ।
भागावग्रहरूपेण पूर्वं बुद्धिः प्रवर्तते ॥९३॥

यथानुपूर्वीनियमो विकारे क्षीरबीजयोः ।
तथैव प्रतिपत्तॄणां नियतो बुद्धिषु क्रमः ॥९४॥

भागवत्स्व् अपि तेष्व् एव रूपभेदो ध्वनेः क्रमात् ।
निर्भागेष्व् अभ्युपायो वा भागभेदप्रकल्पनम् ॥९५॥

अनेकव्यक्त्यभिव्यङ्ग्या जातिः स्फोट इति स्मृता ।
कैश् चित् व्यक्तय एवास्य ध्वनित्वेन प्रकल्पिताः ॥९६॥

अविकारस्य शब्दस्य निमित्तैर् विकृतो ध्वनिः ।
उपलब्धौ निमित्तत्वम् उपयाति प्रकाशवत् ॥९७॥

न चानित्येष्व् अभिव्यक्तिर् नियमेन व्यवस्थिता ।
आश्रयैर् अपि नित्यानां जातीनां व्यक्तिर् इष्यते ॥९८॥

देशादिभिश् च संबन्धो दृष्टः कायवताम् अपि ।
देशभेदविकल्पे ऽपि न भेदो ध्वनिशब्दयोः ॥९९॥

ग्रहणग्राह्ययोः सिद्धा योग्यता नियता यथा ।
व्यङ्ग्यव्यञ्जकभावे ऽपि तथैव स्फोटनादयोः ॥१००॥

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP