मित्र लाभः - कथा १
हितोपदेश भारतीय जन- मानस तथा परिवेश से प्रभावित उपदेशात्मक कथाएँ हैं। हितोपदेश की कथाएँ अत्यंत सरल व सुग्राह्य हैं।
सो ब्रवीत्-अहम् एकदा दक्षिणारण्ये चरंन् अपश्यम् एको वृढो व्याघ्रः स्नातः कुश-हस्तः सरस्-तीरे ब्रूते-भो भो पंथाः ! इदं सुवर्ण-कंकणं गृह्यताम् । ततो लोभाकृष्टेन केनचित् पांथेन आलोचितम्-भाग्येन एतत् संभवति । किंतु अस्मिन् आत्म-संदेहे प्रवृत्तिर् न विधेया । यतः-
अनिष्टाद् इष्ट-लाभेपि न गतिर् जायते शुभा । यत्रास्ते विष-संसर्गो मृतं तद् अपि मृत्यवे ॥६॥
किंतु सर्वत्रार्थार्जन-प्रवृत्तौ संदेह एव । तथा चोक्तम्-
न संशयम् अनारुह्य नरो भद्राणि पश्यति । संशयं पुनर् आरुह्य यदि जीवति पश्यति ॥७॥
तन् निरूपयामि तावत् । प्रकाशं ब्रूते । कुत्र तव कंकणम् ? व्याघ्रो हस्तं प्रसार्य दर्शयति । पांथो वदत्-कथं मारात्मके त्वयि विश्वासः ?
व्याघ्र उवाच-शृणु रे पांथ ! प्राग् एव यौवन-दशायाम् अहम् अतीव दुर्वृत्त आसम् । अनेक-गो-मानुषाणां वधाद् मे पुत्रा मृता दाराश् च । वंश-हीनश् चाहम् । ततः केनचिद् धार्मिकेणाहम् उपदिष्टः । दान-धर्मादिकं चरतु भवान् इति । तद्-उपदेशादि-दानीम् अहं स्नान-शीलो दाता वृढो गलित-नख-दंतः न कथं विश्वास-भूमिः ? उक्तं च-
इज्याध्ययन-दानानि तपः सत्यं धृतिः क्षमा । अलोभ इति मार्गो यं धर्मस्याष्ट-विधः स्मृतः ॥८॥
तत्र पूर्वश् चतुर्वर्गो दंभार्थम् अपि सेव्यते । उत्तरस् तु चतुर्वर्गो महात्मंय् एव तिष्ठति ॥९॥
मम चैतावान् लोभ-विरहः । येन स्व-हस्त-स्थम् अपि सुवर्ण-कंकणं यस्मै कस्मैचिद् दातुम् इच्छामि तथापि व्याघ्रो मानुषं खादतीति लोकापवादो दुर्निवारः । यतः-
गतानुगतिको लोकः कुट्टनीम् उपदेशिनीम् । प्रमाणयति नो धर्मे यथा गोघ्नम् अपि द्विजम् ॥१०॥
मया च धर्म-शास्त्राणि अधीतानि । शृणु-
मरु-स्थल्यां यथा वृष्टिः क्षुधार्ते भोजनं तथा । दरिद्रे दीयते दानं सफलं पांडु-नंदन ॥११॥
प्राणा यथात्मनो भीष्टा भूतानाम् अपि ते तथा । आत्मौपम्येन भूतानां दयां कुर्वंति साधवः ॥१२॥
अपरं च- प्रत्याख्याने च दाने च सुख-दुःखे प्रियाप्रिये । आत्मौपम्येन पुरुषः प्रमाणम् अधिगच्छति ॥१३॥
अंयच् च- मातृवत् पर-दारेषु पर-द्रव्येषु लोष्ट्रवत् । आत्मवत् सर्व-भूतेषु यः पश्यति स पंडितः ॥१४॥
त्वं च अतीव-दुर्गतः । तेन तत् तुभ्यं दातुं स-यत्नो हम् । तथा चोक्तम्-
दरिद्रान् भर कौंतेय मा प्रयच्छेश्वरे धनम् । व्याधितस्यौषधं पथ्यं नीरुजस्य किम् औषधैः ॥१५॥
अंयत् च- दातव्यम् इति यद् दानं दीयतेनुपकारिणि । देशे काले च पात्रे च तद् दानं सात्त्विकं विदुः ॥१६॥
तद् अत्र सरसि स्नात्वा सुवर्ण-कंकणम् इदं गृहाण । ततो यावद् असौ तद्-वचः-प्रतीतो लोभात् सरः स्नातुं प्रविष्टः, तावन् महा-पंके निमग्नः पलायितुम् अक्षमः । तं पंके पतितं दृष्ट्वा व्याघ्रो वदत्-अहह महा-पंके पतितो सि । अतस् त्वाम् अहम् उठापयामि । इत्य् उक्त्वा शनैः शनैर् उपगम्य तेन व्याघ्रेण धृतः स पांथो चिंतयत्-
न धर्म-शास्त्रं पठतीति कारणं न चापि वेदाध्ययनं दुरात्मनः । स्वभाव एवात्र तथातिरिच्यते यथा प्रकृत्या मधुरं गवां पयः ॥१७॥
किं च- अवशेंद्रिय-चित्तानां हस्ति-स्नानम् इव क्रिया । दुर्भगाभरण-प्रायो ज्ञानं भारः क्रियां विना ॥१८॥
तन् मया भद्रं न कृतम् । यद् अत्र मारात्मके विश्वासः कृतः । तथा चोक्तम्-
नदीनां शस्त्र-पाणीनां नखिनां शृंगिणां तथा । विश्वासो नैव कर्तव्यः स्त्रीषु राज-कुलेषु च ॥१९॥
अपरं च- सर्वस्य हि परीक्ष्यंते स्वभावा नेतरे गुणाः । अतीत्य हि गुणान् सर्वान् स्वभावो मूर्ध्नि वर्तते ॥२०॥
अंयच् च- स हि गगन-विहारी कल्मष-ध्वंस-कारी दश-शत-कर-धारी ज्योतिषां मध्य-चारी । विधुर् अपि विधि-योगाद् ग्रस्यते राहुणासौ लिखितम् अपि ललाटे प्रोज्झितं कः समर्थः ॥२१॥
इति चिंतयंन् एवासौ व्याघ्रेण धृत्वा व्यापादितः खादितश् च । अतो हं ब्रवीमि-कंकणस्य तु लोभेनेत्य् आदि । अत एव सर्वथाविचारितं कर्म न कर्तव्यम् इति । यतः-
सुजीर्णम् अन्नं सुविचक्षणः सुतः सुशासिता स्त्री नृपतिः सुसेवितः । सुचिंत्य चोक्तं सुविचार्य यत् कृतं सुदीर्घ-कालेपि न याति विक्रियाम् ॥२२॥
एतद् वचनं श्रुत्वा कश्चित् कपोतः स-दर्पम् आह-आः ! किम् एवम् उच्यते ?
वृढस्य वचनं ग्राह्यम् आपत्-काले ह्य् उपस्थिते । सर्वत्रैवं विचारे च भोजनेपि प्रवर्तताम् ॥२३॥
यतः- शंकाभिः सर्वम् आक्रांतम् अन्नं पानं च भूतले । प्रवृत्तिः कुत्र कर्तव्या जीवितव्यं कथं न वा ? ॥२४॥
यथा चोक्तम्- ईर्ष्यी घृणी त्व् असंतुष्टः क्रोधनो नित्य-शंकितः । पर-भाग्योपजीवी च षड् एते नित्य-दुःखिताः ॥२५॥
एतच् छ्रुत्वा तंडुल्-कण-लोभेन नभो-मंडलाद् अवतीर्यस् अर्वे कपोतास् तत्रोपविष्टाः । यतः-
सुमहांत्य् अपि शास्त्राणि धारयंतो बहु-श्रुताः । छेत्ताः संअयानां च क्लिश्यंते लोभ-मोहिताः ॥२६॥
अंयच् च- लोभात् क्रोधः प्रभवति लोभात् कामः प्रजायते । लोभान् मोहश् च नाशश् च लोभः पापस्य कारणम् ॥२७॥
अंयच् च- असंभवं हेम-मृगस्य जन्म तथापि रामो लुलुभे मृगाय । प्रायः समापन्न-विपत्ति-काले धियो पि पुंसां मलिना भवंति ॥२८॥
अनंतरं ते सर्वे जाल-निबढा बभूवुः, ततो यस्य वचनात् तत्रावलंबितास् तं सर्वे तिरस्कुर्वंति स्म । यतः,
न गणस्याग्रतो गच्छेत् सिढे कार्ये समं फलम् । यदि कार्य-विपत्तिः स्यान् मुखरस् तत्र हंयते ॥२९॥
तस्य तिरस्कारं श्रुत्वा चित्रग्रीव उवाच-नायम् अस्य दोषः, यतः
आपदाम् आपतंतीनां हितो प्य् आयाति हेतुताम् । मातृ-जंघा हि वत्सस्य स्तंभी-भवति बंधने ॥३०॥
अंयच् च- स बंधुर् यो विपन्नानाम् आपद्-उढरण-क्षमः । न तु भीत-परित्राण-वस्तूपालंभ-पंडितः ॥३१॥
विपत्-काले विस्मय एव कापुरुष-लक्षणम् । तद् अत्र धैर्यम् अवलंब्य प्रतीकारश् चिंत्यताम्, यतः-
विपदि धैर्यम् अथाभ्युदये क्षमा सदसि वाक्य-पटुता युधि विक्रमः । यशसि चाभिरुचिर् व्यसनं श्रुतौ प्रकृति-सिढम् इदं हि महात्मनाम् ॥३२॥
संपदि यस्य न हर्षो विपदि विषादो रणे च भीरुत्वम् । तं भुवन-त्रय-तिलकं जनयति जननी सुतं विरलम् ॥३३॥
अंयच् च- षड्-दोषाः पुरुषेणेह हातव्या भूतिम् इच्छता । निद्रा तंद्रा भयं क्रोध आलस्यं दीर्घ-सूत्रता ॥३४॥
इदानीम् अपि एवं क्रियताम्-सर्वैर् एकचित्तीभूय जालम् आदाय उड्डीयताम् । यतः-
अल्पानाम् अपि वस्तूनां संहतिः कार्य-साधिका । तृणैर् गुणत्वम् आपन्नैर् बध्यंते मत्त-दंतिनः ॥३५॥
संहतिः श्रेयसी पुंसां स्वकुलैर् अल्पकैर् अपि । तुषेणापि परित्यक्ता न प्ररोहंति तंडुलाः ॥३६॥
इति विचित्य पक्षिणः सर्वे जालम् आदाय उत्पतिताः । अनंतरं च व्याधः सुदूराज् जालापहारकांस् तान् अवलोक्य पश्चाद् धावितो चिंतयत्-
संहतास् तु हरंत्य् एते मम जालं विहंगमाः । यदा तु निपतिष्यंति वशम् एष्यंति मे तदा ॥३७॥
ततस् तेषु चक्षुर् विषयम् अतिक्रांतेषु पक्षिषु स व्याधो निवृत्तः । अथ लुब्धकं निवृत्तं दृष्ट्वा कपोता ऊचुः-स्वामिन् ! किम् इदानीं कर्तुम् उचितम् ?
चित्रग्रीव उवाच- माता मित्रं पिता चेति स्वभावात् त्रितयं हितम् । कार्य-कारणतश् चांये भवंति हित-बुढयः ॥३८॥
तन् मे मित्रं हिरण्यको नाम मूषिक-राजो गंडकी-तीरे चित्र-वने निवसति । सो स्माकं पाशांश् छेत्स्यति इत्य् आलोच्य सर्वे हिरण्यक-विवर-समीपं गताः । हिरण्यकश् च सर्वदा अपाय-शंकया शत-द्वारं विवरं कृत्वा निवसति । ततो हिरण्यकः कपोतावपात-भयाच् चकितः तूष्णीं स्थितः । चित्रग्रीव उवाच-सखे हिरण्यक ! कथम् अस्मान् न संभाषसे ?
ततो हिरण्यकस् तद्-वचनं प्रत्यभिज्ञाय स-संभ्रमं बहिर् निःसृत्य अब्रवीत्-आः ! पुण्यवान् अस्मि प्रिय-सुहृन् मे चित्रग्रीवः समायातः ।
यस्य मित्रेण संभाषो यस्य मित्रेण संस्थितिः । यस्य मित्रेण संलापस् ततो नास्तीह पुण्यवान् ॥३९॥
अथ पाश-बढांश् चैतान् दृष्ट्वा स-विस्मयः क्षणं स्थित्वा उवाच-सखे ! किम् एतत् ?
चित्रग्रीव उवाच-सखे ! अस्माकं प्राक्तन-जन्म-कर्मणः फलम् एतत् ।
यस्माच् च येन च यथा च यदा च यच् च यावच् च यत्र च शुभाशुभम् आत्म-कर्म । तस्माच् च तेन च तथा च तदा च तच् च तावच् च तत्र च विधातृ-वशाद् उपैति ॥४०॥
राग-शोक-परीताप-बंधन-व्यसनानि च । आत्मापराध-वृक्षाणां फलांय् एतानि देहिनाम् ॥४१॥
एतच् छ्रुत्वा हिरण्यकश् चित्रग्रीवस्य बंधनं छेत्तुं सत्वरम् उपसर्पति । तत्र चित्रग्रीव उवाच-मित्र ! मा मैवं कुरु । प्रथमम् अस्मद्-आश्रितानाम् एतेषां तावत् पाशांश् छिंधि । मम पाशं पश्चाच् छेत्स्यसि ।
हिरण्यको प्य् आह-अहम् अल्प-शक्तिः । दंताश् च मे कोमलाः । तद् एतेषां पाशांश् छेत्तुं कथं समर्थो भवामि ? तत् यावन् मे दंता न त्रुट्यंति, तावत् तव पाशं छिनद्मि । तद्-अनंतरम् अप्य् एतेषां बंधनं यावत् शक्यं छेत्स्यामि ।
चित्रग्रीव उवाच-अस्त्व् एवम् । तथापि यथा-शक्ति बंधनम् एतेषां खंडय ।
हिरण्यकेनोक्तम्-आत्म-परित्यागेन यदाश्रितानां परिरक्षणं तन् न नीति-वेदिनां संमतम् । यतः-
आपद्-अर्थे धनं रक्षेद् दारान् रक्षेद् धनैर् अपि । आत्मानं सततं रक्षेद् दारैर् अपि धनैर् अपि ॥४२॥
अंयच् च-- धर्मार्थ-काम-मोक्षाणां प्राणाः संस्थित-हेतवः । तान् निघ्नता किं न हतं रक्षता किं न रक्षितम् ॥४३॥
चित्रग्रीव उवाच-सखे ! नीतिस् तावद् ईदृश्य् एव, किंत्व् अहम् अस्मद्-आश्रितानां दुःखं सोढुं सर्वथासमर्थस् तेनेदं ब्रवीमि । यतः-
धनानि जीवितं चैव परार्थे प्राज्ञ उत्सृजेत् । संनिमित्ते वरं त्यागो विनाशे नियते सति ॥४४॥
अयम् अपरश् चासाधारणो हेतुः ।
जाति-द्रव्य-बलानां च साम्यम् एषां मया सह । मत्-प्रभुत्व-फलं ब्रूहि कदा किं तद् भविष्यति ॥४५॥
अंयच् च- विना वर्तनम् एवैते न त्यजंति ममांतिकम् । तन् मे प्राण-व्ययेनापि जीवयैतान् ममाश्रितान् ॥४६॥
किं च- मांस-मूत्र-पुरीषास्थि-पूरितेत्र कलेवरे । विनश्वरे विहायास्थां यशः पालय मित्र मे ॥४७॥
अपरं च पश्य- यदि नित्यम् अनित्येन निर्मलं मल-वाहिना । यशः कायेन लभ्येत तन् न लब्धं भवेन् नु किम् ॥४८॥
यतः- शरीरस्य गुणानां च दूरम् अत्यंतम् अंतरम् । शरीरं क्षण-विध्वंसि कल्पांत-स्थायिनो गुणाः ॥४९॥
इत्य् आकर्ण्य हिरण्यकः प्रहृष्ट-मनाः पुलकितः सन् अब्रवीत्-साधु मित्र ! साधु । अनेनाश्रित-वात्सल्येन त्रैलोक्यस्यापि प्रभुत्वं त्वयि युज्यते । एवम् उक्त्वा तेन सर्वेषां कपोतानां बंधनानि छिन्नानि । ततो हिरण्यकः सर्वान् सादरं संपूज्य आह-सखे चित्रग्रीव ! सर्वथात्र जाल-बंधन-विधौ सति दोषम् आशंक्य आत्मनि अवज्ञा न कर्तव्या । यतः-
यो धिकाद् योजन-शतान् पश्यतीहामिषं खगः । स एव प्राप्त-कालस् तु पाश-बंधं न पश्यति ॥५०॥
अपरं च- शशि-दिवाकरयोर् ग्रह-पीडनं गज-भुजंगमयोर् अपि बंधनम् । मतिमतां च विलोक्य दरिद्रतां विधिर् अहो बलवान् इति मे मतिः ॥५१॥
अंयच् च- व्योमैकांत-विहारिणो पि विहगाः संप्राप्नुवंत्य् आपदं बध्यंते निपुणैर् अगाध-सलिलान् मत्स्याः समुद्राद् अपि । दुर्नीतं किम् इहास्ति किं सुचरितं कः स्थान-लाभे गुणः कालो हि व्यसन-प्रसारित-करो गृह्णाति दूराद् अपि ॥५२॥
इति प्रबोध्य आतिथ्यं कृत्वा आलिंग्य च तेन संप्रेषितश् चित्रग्रीवो पि सपरिवारो यथेष्ट-देशान् ययौ, हिरण्यको पि स्व-विवरं प्रविष्टः ।
यानि कानि च मित्राणि कर्तव्यानि शतानि च । पश्य मूषिक-मित्रेण कपोता मुक्त-बंधनाः ॥५३॥
अथ लघु-पतनक-नामा काकः सर्व-वृत्तांत-दर्शी साश्चर्यम् इदम् आह-अहो हिरण्यक ! श्लाघ्यो सि, अतो हम् अपि त्वया सह मैत्रीं कर्तुम् इच्छामि । अतस् त्वं मां मैत्र्येणानुग्रहीतुम् अर्हसि । एतच् छ्रुत्वा हिरण्यको पि विवराभ्यंतराद् आह-कस् त्वम् ?
स ब्रूते-लघुपतनक-नामा वायसो हम् । हिरण्यको विहस्याह-का त्वया सह मैत्री ? यतः-
यद् येन युज्यते लोके बुधस् तत् तेन योजयेत् । अहम् अन्नं भवान् भोक्ता कथं प्रीतिर् भविष्यति ॥५४॥
अपरं च- भक्ष्य-भक्षयोः प्रीतिर् विपत्तेः कारणं मतम् । शृगालात् पाशबढो सौ मृगः काकेन रक्षितः ॥५५॥
वायसो ब्रवीत्--कथम् एतत् ?
हिरण्यकः कथयति-
N/A
References : N/A
Last Updated : November 11, 2016
TOP