सुहृद्-भेदः - आरंभः

हितोपदेश भारतीय जन- मानस तथा परिवेश से प्रभावित उपदेशात्मक कथाएँ हैं। हितोपदेश की कथाएँ अत्यंत सरल व सुग्राह्य हैं।


अथ राज-पुत्रा ऊचुः-आर्य ! मित्रलाभः श्रुतस् तावद् अस्माभिः । इदानीं सुहृद्-भेदं श्रोतुम् इच्छामः ।
विष्णुशर्मोवाच-सुहृद्-भेदं तावच् छृणुत, यस्यायम् आद्यः श्लोकः-
वर्धमानो महान् स्नेहो मृगेंद्र-वृषयोर् वने । पिशुनेनातिलुब्धेन जंबुकेन विनाशितः ॥१॥
राज-पुत्रैर् उक्तम्-कथम् एतत् ?
विष्णुशर्मा कथयति-अस्ति दक्षिणा-पथे सुवर्णवती नाम नगरी । तत्र वर्धमानो नाम वणिग् निवसति । तस्य प्रचुरेपि वित्ते परान् बंधून् अतिसमृढान् समीक्ष्य पुनर् अर्थ-वृढिः करणीयेति मतिर् बभूव । यतः,
अधो धः पश्यतः कस्य महिमा नोपचीयते । उपर्य् उपरि पश्यंतः सर्व एव दरिद्रति ॥२॥
अपरं च- ब्रह्महापि नरः पूज्यो यस्यास्ति विपुलं धनम् । शशिनस् तुल्य-वंशो पि निर्धनः परिभूयते ॥३॥
अंयच् च- अव्यवसायिनम् अलसं दैव-परं सहसाच् च परिहीणम् । प्रमदेव हि वृढ-पतिं नेच्छत्य् अवगूहितुं लक्ष्मीः ॥४॥
किं च- आलस्यं स्त्री-सेवा स-रोगता जन्म-भूमि-वात्सल्यम् । संतोषो भीरुत्वं षड् व्याघाता महत्त्वस्य ॥५॥
यतः- संपदा सुस्थिरं-मंयो भवति स्वल्पयापि यः । कृतकृत्यो विधिर् मंये न वर्धयति तस्य ताम् ॥६॥
अपरं च- निरुत्साहं निरानंदं निर्वीर्यम् अरि-नंदनम् । मा स्म सीमंतिनी काचिज् जनयेत् पुत्रम् ईदृशम् ॥७॥
तथा चोक्तम्- अलब्धं चैव लिप्सेत लब्धं रक्षेत् प्रयत्नतः । रक्षितं वर्धयेच् चैव वृढं पात्रेषु निक्षिपेत् ॥८॥
यतो लब्धम् इच्छतो र्थ-योगाद् अर्थस्य प्राप्तिर् एव । लब्धस्याप्य् अरक्षितस्य निधेर् अपि स्वयं विनाशः । अपि च, अवर्धमानश् चार्थः काले स्वल्प-व्ययो प्य् अञ्जनवत् क्षयम् एति । नौपभुज्यमानश् च निष्प्रयोजन एव सः । तथा चोक्तम्-
धनेन किं यो न ददाति नाश्नुते बलेन किं यश् च रिपून् न बाधते । श्रुतेन किं यो न च धर्मम् आचरेत् किम् आत्मना यो न जितेंद्रियो भवेत् ॥९॥
यतः, जल-बिंदु-निपातेन क्रमशः पूर्यते घटः । स हेतुः सर्व-विद्यानां धर्मस्य च धनस्य च ॥१०॥
दानोपभोग-रहिता दिवसा यस्य यांति वै । स कर्म-कार-भस्त्रेव श्वसंन् अपि न जीवति ॥११॥
इति संचिंत्य नंदक-सजीवक-नामानौ वृषभौ धुरि नियोज्य शकटं नानाविध-द्रव्य-पूर्णं कृत्वा वाणिज्येन गतः कश्मीरं प्रति । अंयच् च-
अञ्जनस्य क्षयं दृष्ट्वा वल्मीकस्य च सञ्चयम् । अवंध्यं दिवसं कुर्याद् दानाध्ययन-कर्मभिः ॥१२॥
यतः- को तिभारः समर्थानां किं दूरं व्यवसायिनाम् । को विदेशः सविद्यानां कः परः प्रिय-वादिनाम् ॥१३॥
अथ गच्छतस् तस्य सुदुर्ग-नाम्नि महारण्ये सञ्जीवको भग्न-जानुर् निपतितः । तम् आलोक्य वर्धमानो चिंतयत्-
करोतु नाम नीति-ज्ञो व्यवसायम् इतस् ततः । फलं पुनस् तद् एव स्याद् यद् विधेर् मनसि स्थितम् ॥१४॥
किंतु- विस्मयः सर्वथा हेयः प्रत्यूहः सर्व-कर्मणाम् । तस्माद् विस्मयम् उत्सृज्य साध्ये सिढिर् विधीयताम् ॥१५॥
इति संचिंत्य संजीवकं तत्र परित्यज्य वर्धमानः पुनः स्वयं धर्मपुरं नाम नगरं गत्वा महाकायम् अंयं वृषभम् एकं समानीय धुरि नियोज्य चलितः । ततः संजीवको पि कथं कथम् अपि खुर-त्रये भरं कृत्वोठितः । यतः- निमग्नस्य पयो-राशौ पर्वतात् पतितस्य च । तक्षकेणापि दष्टस्य आयुर् मर्माणि रक्षति ॥१६॥
नाकाले मिर्यते जंतुर् विढः शर-शतैर् अपि । कुशाग्रेणैव संस्पृष्टः प्राप्त-कालो न जीवति ॥१७॥
अरक्षितं तिष्ठति दैव-रक्षितं सुरक्षितं दैव-हतं विनश्यति । जीवत्य् अनाथो पि वने विसर्जितः कृत-प्रयत्नो पि गृहे न जीवति ॥१८॥
ततो दिनेषु गच्छत्सु संजीवकः स्वेच्छाहार-विहारं कृत्वारण्यं भ्राम्यन् हृष्ट-पुष्टांगो बलवन् ननाद । तस्मिन् वने पिंगलक-नामा सिंहः स्व-भुजोपार्जित-राज्य-सुखम् अनुभवन् निवसति । तथा चोक्तम्-
नाभिषेको न संस्कारः सिंहस्य क्रियते मृगैः । विक्रमार्जित-राज्यस्य स्वयम् एव मृगेंद्रता ॥१९॥
स चैकदा पिपासाकुलितः पानीयं पातुं यमुना-कच्छम् अगच्छत् । तेन च तत्र सिंहेनाननुभूत-पूर्वकम् अकाल-घन-गर्जितम् इव संजीवक-नर्दितम् अश्रावि । तच् छ्रुत्वा पानीयम् अपीत्वा स-चकितः परिवृत्य स्व-स्थानम् आगत्य किम् इदम् इत्य् आलोचयंस् तूष्णीं स्थितः । स च तथाविधः करट-कदमनकाभ्याम् अस्य मंत्रि-पुत्राभ्यां दृष्टः । तं तथाविधं दृष्ट्वा दमनकः करटकम् आह-सखे करटक ! किम् इत्य् अयम् उदकार्थी स्वामी पानीयम् अपीत्वा सचकितो मंदं मंदम् अवतिष्ठते ।
करटको ब्रूते-मित्र दमनक ! अस्मन्-मतेनास्य सेवैव न क्रियते । यदि तथा भवति तर्हि किम् अनेन स्वामि-चेष्टानिरूपेणास्माकम् । यतो नेन राज्ञा विनापराधेन चिरम् अवधीरिताभ्याम् आवाभ्यां महद्-दुःखम् अनुभूतम् ।
सेवया धनम् इच्छद्भिः सेवकैः पश्य यत् कृतम् । स्वातंत्र्यं यच् छरीरस्य मूढैस् तद् अपि हारितम् ॥२०॥
अपरं च- शीत-वातातप-क्लेशान् सहंते यान् पराश्रिताः । तद्-अंशेनापि मेधावी तपस् तप्त्वा मुखी भवेत् ॥२१॥
अंयच् च- एतावज् जन्मसाफल्यं देहिनाम् इह देहिषु । प्राणैर् अर्थैर् धिया वाचा श्रेय एवाचरेत् सदा ॥२२॥
अपरं च- एहि गच्छ पतोत्तिष्ठ वद मौनं समाचर । इति वित्रस्त-सारंग-नेत्रया को न वञ्चितः ॥२३॥
किं च- अबुधैर् अर्थ-लाभाय पण्य-स्त्रीभिर् इव स्वयम् । आत्मा संस्कृत्य संस्कृत्य परोपकरणी-कृतः ॥२४॥
किं च- या प्रकृत्यैव चपला निपतत्य् अशुचाव् अपि । स्वामिनो बहु मंयंते दृष्टिं ताम् अपि सेवकाः ॥२५॥
अपरं च- मौनान् मूर्खः प्रवचन-पटुर् बातुलो जल्पको वा क्षांत्या भीरुर् यदि न सहते प्रायशो नाभिजातः । धृष्टः पार्श्वे वसति नियतं दूरतश् चाप्रगल्भः सेवा-धर्मः परम-गहनो योगिनाम् अप्य् अगम्यः ॥२६॥
विशेषतश् च- प्रणमत्य् उन्नति-हेतोर् जीवित-हेतोर् विमुञ्चति प्राणान् । दुःखीयति सुख-हेतोः को मूढः सेवकाद् अंयः ॥२७॥
दमनको ब्रूते-मित्र सर्वथा मनसापि नैतत् कर्तव्यम्, यतः-
कथं नाम न सेव्यंते यत्नतः परमेश्वराः । अचिरेणैव ये तुष्टाः पूरयंति मनोरथान् ॥२८॥
अंयच् च- कुतः सेवा-विहीनानां चामरोढूत-संपदः । उद्दंड-धवल-च्छत्रं वाजि-वारण-वाहिनी ॥२९॥
करटको ब्रूते-तथापि किम् अनेनास्माकं व्यापारेण । यतो व्यापारेषु व्यापारः सर्वथा परिहरणीयः । पश्य-
अव्यापरेषु व्यापारं यो नरः कर्तुम् इच्छति । स एव निधनं याति कीलोत्पटीव वानरः ॥३०॥
दमनकः पृच्छति--कथम् एतत् ?
करकटः कथयति-

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP