विग्रहः - कथा २

हितोपदेश भारतीय जन- मानस तथा परिवेश से प्रभावित उपदेशात्मक कथाएँ हैं। हितोपदेश की कथाएँ अत्यंत सरल व सुग्राह्य हैं।


अस्ति हस्तिनापुरे विलासो नाम रजकः । तस्य गर्दभो तिभार-वहनाद् दुर्बलो मुमूर्षुर् इवाभवत् । ततस् तेन रजकेनासौ व्याघ्रचर्मणा प्रच्छाद्यारण्यक-समीपे सस्य-क्षेत्रे विमुक्तः । ततो दूरात् तम् अवलोक्य व्याघ्र-बुढ्या क्षेत्र-पतयः सत्वरं पलायंते ।
अथैकदा केनापि सस्य-रक्षकेण धूसर-कंबल-कृत-तनु-त्राणेन धनुष्कांडं सज्जीकृत्यानत-कायेनैकांते स्थितम् । तं च दूराद् दृष्ट्वा गर्दभः पुष्टांगो येथेष्ट-सस्य-भक्षण-जात-बलो गर्दभो यम् इति मत्वोच्चैः शब्दं कुर्वाणस् तद्-अभिमुखं धावितः । ततस् तेन सस्य-रक्षकेण चीत्कार-शब्दाद् गर्दभो यम् इति निश्चित्य, लीलयैव व्यापादितः । अतो हं ब्रवीमि-सुचिरं हि चरन् नित्यम् इत्य् आदि ।
दीर्घमुखो ब्रूते-ततः पश्चात् तैः पक्षिभिर् उक्तम्-अरे पापा दुष्ट-बक ! अस्माकं भूमौ चरंन् अस्माकं स्वामिनम् अधिक्षिपसि । तन् न क्षंतव्यम् इदानीम् । इत्य् उक्त्वा सर्वे मां चञ्चुभिर् हत्वा, स-कोपा ऊचुः-पश्य रे मूर्ख ! स हंसस् तव राजा सर्वथा मृदुः । तस्य राज्याधिकारो नास्ति । यत एकांत-मृदुः करतलस्थम् अप्य् अर्थं रक्षितुम् अक्षमः । स कथं पृथिवीं शास्ति ? राज्यं वा तस्य किम् ? त्वं च कूप-मंडूकः । तेन तद्-आश्रयम् उपदिशसि । शृणु-
सेवितव्यो महा-वृक्षः फल-च्छाया-समंवितः । यदि दैवात् फलं नास्ति च्छाया केन निवार्यते ॥१०॥अंयच् च- हीन-सेवा न कर्तव्या कर्तव्यो महद् आश्रयः । पयो पि शौंडिकी-हस्ते वारुणीत्य् अभिधीयते ॥११॥अंयच् च- महान् अप्य् अल्पतां याति निर्गुणे गुण-विस्तरः । आधाराधेय-भावेन गजेंद्र इव दर्पणे ॥१२॥किंतु- अजा सिंह-प्रसादेन वने चरति निर्भयम् । रामम् आसाद्य लंकायां लेभे राज्यं विभीषणः ॥१३॥
विशेषतश् च- व्यपदेशेपि सिढिः स्याद् अतिशक्ते नराधिपे । शशिनो व्यपदेशेन शशकाः सुखम् आसते ॥१४॥
मयोक्तम्-कथम् एतत् ?
पक्षिणः कथयंति-

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP