संधिः - कथा १०
हितोपदेश भारतीय जन- मानस तथा परिवेश से प्रभावित उपदेशात्मक कथाएँ हैं। हितोपदेश की कथाएँ अत्यंत सरल व सुग्राह्य हैं।
अस्ति कस्मिंश्चिद् वनोद्देशे मदोत्कटो नाम सिंहः । तस्य सेवकास् त्रयः काको व्याघ्रो जंबुकश् च । अथ तैर् भ्रमद्भिः सार्थ-भ्रष्टः कश्चिद् उष्ट्रो दृष्टः । पृष्टश् च-कुतो भवान् आगतः सार्थाद् भ्रष्टः ?
स चात्म-वृत्तांतम् अकथयत् । ततस् तैर् नीत्वा सिंहायासौ समर्पितः । तेन चाभय-वाचं दत्त्वा, चित्रकर्ण इति नाम कृत्वा स्थापितः ।
अथ कदाचित् सिंहस्य शरीर-वैकल्याद् भूरि-वृष्टि-कारणाच् चाहारम् अलभमानास् ते व्यग्रा बभूवुः । ततस् तैर् आलोचितम् । चित्रकर्णम् एव यथा स्वामी व्यापादयति तथानुष्ठीयताम् । किम् अनेन कंटक-भुजास्माकम् ?
व्याघ्र उवाच-स्वामिनाभय-वाचं दत्त्वानुगृहीतो यं, तत् कथम् एवं संभवति ?
काको ब्रूते-इह समये परिक्षीणः स्वामी पापम् अपि करिष्यति । यतः-
त्यजेत् क्षुधार्ता महिला स्वपुत्रं खादेत् क्षुधार्ता भुजगी स्वमंडम् । बुभुक्षितः किं न करोति पापं क्षीणा नरा निष्करुणा भवंति ॥६०॥
अंयच् च- मत्तः प्रमत्तश् चोन्मत्तः श्रांतः क्रुढो बुभुक्षितः । लुब्धो भीरुस् त्वरा-युक्तः कामुकश् च न धर्म-वित् ॥६१॥
इति सञ्चिंत्य सर्वे सिंहांतिकं जग्मुः । सिंहेनोक्तम्-आहारार्थं किञ्चित् प्राप्तम् ?
तैर् उक्तम्-देव ! यत्नाद् अपि प्राप्तं किञ्चित् ?
सिंहेनोक्तं-को धुना जीवनोपायः ?
काको वदति-देव ! स्वाधीनाहार-परित्यागात् सर्व-नाशो यम् उपस्थितः ?
सिंहेनोक्तम्-अत्राहारः कः स्वाधीनः ?
काकः कर्णे कथयति-चित्रकर्ण इति । सिंहो भूमिं स्पृष्ट्वा कर्णौ स्पृशति । अब्रवीच् च-अभय-वाचं दत्त्वा धृतो यम् अस्माभिः । तत् कथम् एवं संभवति ? तथा हि- न भूत-दानं न सुवर्ण-दानं न गो-प्रदानं न तथान्न-दानम् । यथा वदंतीह महा-प्रदानं सर्वेषु दानेष्व् अभय-प्रदानम् ॥६२॥
अंयच् च- सर्व-काम-समृढस्य अश्वमेधस्य यत् फलम् । तत्-फलं लभते सम्यग् रक्षिते शरणागते ॥६३॥
काको ब्रूते-नासौ स्वामिना व्यापादयितव्यः । किंत्व् अस्माभिर् एव तथा कर्तव्यं, यथासौ स्व-देह-दानम् अंगीकरोति ।
सिंहस् तच् छ्रुत्वा तूष्णीं स्थितः । ततो सौ लब्धावकाशः कूटं कृत्वा सर्वान् आदाय सिंहांतिकं गतः । अथ काकेनोक्तं-देव ! यत्नाद् अप्य् आहारो न प्राप्तः । अनेकोपवास-क्लिष्टश् च स्वामी । तद् इदानीं मदीय-मांसम् उपभुज्यताम् । यतः-
स्वामि-मूला भवंत्य् एव सर्वाः प्रकृतयः खलु । समूलेष्व् अपि वृक्षेषु प्रयत्नः सफलो नृणाम् ॥६४॥
सिंहेनोक्तं-भद्र ! वरं प्राण-परित्यागो, न पुनर् ईदृशे कर्मणि प्रवृत्तिः ।
जंबुकेनापि तथोक्तम् । ततः सिंहेनोक्तं-मैवम् ।
अथ व्याघ्रेणोक्तं-मद्-देहेन जीवतु स्वामी ।
सिंहेनोक्तं-न कदाचिद् एवम् उचितम् ।
अथ चित्रकर्णो पि जात-विश्वासस् तथैवात्म-देह-दानम् आह-ततस् तद्-वचनात् तेन व्याघ्रेणासौ कुक्षिं विदार्य व्यापादितः । सर्वैर् भक्षितश् च । अतो हं ब्रवीमि-मतिर् दोलायते सत्यम् इत्य् आदि ।
ततस् तृतीय-धूर्त-वचनं श्रुत्वा, स्व-मति-भ्रमं निश्चित्य छागं त्यक्त्वा, ब्राह्मणः स्नात्वा गृहं ययौ । छागश् च तैर् धूर्तैर् नीत्वा भक्षितः । अतो हं ब्रवीमि-आत्मौपम्येन यो वेत्तीत्य् आदि ।
राजाह-मेघवर्ण ! कथं शत्रु-मध्ये त्वया सुचिरम् उषितम् ? कथं वा तेषाम् अनुनयः कृतः ?
मेघवर्ण उवाच-देव ! स्वामि-कार्यार्थितया स्व-प्रयोजन-वशाद् वा किं किं न क्रियते ? पश्य-
लोको वहति किं राजन् न मूर्ध्ना दग्धुम् इंधनम् । क्षालयंत्य् अपि वृक्षांघ्रिं नदी-वेला निकृंतति ॥६५॥
तथा चोक्तम्- स्कंधेनापि वहेच् छत्रून् कार्यम् आसाद्य बुढिमान् । यथा वृढेन सर्पेण मंडूका विनिपातिताः ॥६६॥
राजाह-कथम् एतत् ?
मेघवर्णः कथयति-
N/A
References : N/A
Last Updated : November 11, 2016
TOP