संस्कृत सूची|शास्त्रः|आयुर्वेदः|रसरत्नसमुच्चय| अध्याय १६ रसरत्नसमुच्चय अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ रसरत्नसमुच्चय - अध्याय १६ श्रीशालिनाथ कृत रसरत्नसमुच्चय रसचिकित्सा का सर्वांगपूर्ण ग्रन्थ है । इसमें रसों के उत्तम उपयोग तथा पारद-लोह के अनेक संस्कारों का उत्तम वर्णन है अतएव समाज में यह बहुपयोगी सिद्ध हो रहा है । Tags : rasaratna samuchayavagbhatacharyaVedआयुर्वेदरसरत्नसमुच्चयवाग्भट्टाचार्य अध्याय १६ Translation - भाषांतर रूक्षैः कोद्रवजीर्णमुद्गचणकैः क्रुद्धोऽनिलोऽधो वहन् रुद्ध्वा वर्त्म मलं विशोष्य कुरुते विण्मूत्रसंगं ततः ।हृत्पृष्ठोदरवस्तिमस्तकरुजः सश्वासकासं ज्वरं गच्छन्नूर्ध्वमसौ हि नूनम् अनिशं कोपादुदावर्तयेत् ॥१॥कंकुष्ठहिंगुसिंधूत्थत्रिवृद्दंतीवचाभयाः ।चित्रकस्य तु मूलं च कल्कीकृत्य पचेद् घृतम् ॥२॥चतुर्गुणे गवां क्षीरे युक्तं स्नुक्क्षीरमात्रया ।उदावर्तोदरान् हन्ति पानेन सर्वदा ॥३॥अतिसारःअत्यम्बुपानतिलपिष्टविरूढरूक्षशुष्कामिषाध्यशनबद्धमलग्रहाद्यैः ।क्रुद्धोऽनिलोऽतिसरणाय च कल्पतेऽग्निं हत्वा मलं शिथिलयन्नपि तोयधातून् ॥४॥दर्दुररसःसुश्लक्ष्णतीक्ष्णचूर्णं तु रसेन्द्रसमभागिकम् ।कांचनाररसैर्घृष्टं सर्वातीसारनाशनम् ॥५॥पिष्टः समेन तीक्ष्णेन काञ्चनारांबुमर्दितः ।पुटपक्वोऽतिसारघ्नः सूतोऽयं दर्दुराह्वयः ॥६॥हिंगुलं वत्सनाभं च मरिचं टंकणं कणा ।मर्दयेत्समभागं च रसो ह्यानन्दभैरवः ॥७॥गुंजैकां वार्धगुञ्जां वा बलं ज्ञात्वा प्रदापयेत् ।मधुना लेहयेच्चानु कुटजस्य फलं त्वचम् ॥८॥चूर्णितं कर्षमात्रं तु त्रिदोषोत्थातिसारजित् ।दध्यन्नं दापयेत्पथ्यं गवाज्यं तक्रमेव वा ।पिपासायां जलं शीतं विजया च हिता निशि ॥९॥सुधासाररसःपृथक्पलिकगंधाश्मसूतसंजातकज्जलीम् ।प्रद्राव्य निक्षिपेद्व्योम पलैकं गतचन्द्रिकम् ॥१०॥काष्ठेनालोड्य तत्सर्वं क्षिपेत्कुटजपत्रके ।पुनः संचूर्ण्य यत्नेन भावयेत् तदनन्तरम् ॥११॥बालतिन्दुफलद्रावैः क्षीरैरौदुंबरैस् तथा ।अरलुत्वग्रसैश्चापि दुग्धिनीस्वरसैस्तथा ॥१२॥पुटपक्वस्य बालस्य दाडिमस्य रसैः शुभैः ।कृष्णकाम्बोजिकामूलरसैः कुटजवल्कजैः ॥१३॥तुल्यांशविश्वगांधारीचूर्णं द्विपलिकं क्षिपेत् ।मुस्तावत्सकदीप्याग्निमोचसारं सजीरकम् ॥१४॥वत्सनाभं च कर्षांशं प्रत्येकं तत्र निक्षिपेत् ।विचूर्ण्य भावयेद्भूयः शुण्ठीक्वाथेन सप्तधा ॥१५॥इत्थं सिद्धो रसः पिष्टः करण्डे विनिवेशयेत् ।सुधासार इति ख्यातः सुधारससमद्युतिः ॥१६॥दीपनः पाचनो ग्राही हृद्यो रुचिकरस्तथा ।दोषत्रयातिसारं च दुर्जयं भेषजान्तरैः ॥१७॥आमं चैवमारक्तं च ज्वरातीसारम् एव च ।सातिसारां विषूचीं च प्रतिबध्नाति तत्क्षणात् ।मान्यमानव्यतिक्रान्तिरिव पुण्यफलोदयम् ॥१८॥रसोत्तमःपिष्टविश्वाब्दकल्केन विधाय खलु चक्रिकाम् ।निक्षिपेत् स्वेदनीयन्त्रे पक्त्वार्धघटिकावधि ॥१९॥आकृष्य तज्जलैरेवं संप्रमर्द्याहरेद् रसम् ।सुधासाररसं तत्र क्षिप्त्वा धान्यकसंमितम् ॥२०॥पूर्वोदितेषु रोगेषु प्रददीत भिषग्वरः ।गोतक्रेणाथ दध्ना वा पथ्यं देयं हितं मितम् ॥२१॥बालरम्भाफलं गुर्वीफलं बिल्वफलं तथा ।आम्रपेशी च मधुकं वृन्ताकं च प्रशस्यते ॥२२॥सर्वातिसारं ग्रहणीं च हिक्कां मन्दाग्निम् आनाहमरोचकं च ।निहन्ति सद्यो विहितामपाके द्वित्रिप्रयोगेण रसोत्तमोऽयम् ॥२३॥सांबुस्थालीमुखाबद्धे वस्त्रे पाक्यं निधाय च ।पिधाय पच्यते यत्र स्वेदनीयन्त्रम् उच्यते ॥२४॥लोकेश्वररसःद्वौ भागौ गंधकस्याष्टौ शंखचूर्णस्य योजयेत् ।एकमेव रसस्यांशमर्कक्षीरेण मर्दयेत् ॥२५॥चित्रकस्य द्रवेणैवं शोषयित्वा पुनः पुनः ।एकीकृत्य रसेनाथ क्षारं दत्त्वा तदर्धकम् ॥२६॥अर्कक्षीरेण कुर्वीत गोलकानथ शोषयेत् ।निरुध्य चूर्णलिप्तेऽथ भाण्डे दद्यात्पुटं ततः ॥२७॥लोकेश्वररसो ह्येष ग्रहणीरोगकृन्तनः ।गुञ्जाचतुष्टयं चास्य मरीचाज्यसमन्वितम् ।ददीत दधिभक्तं च पथ्यं लोकेश्वरे तथा ॥२८॥लोकनाथरसःमृतपारदभागैकं चत्वारः शुद्धगंधकात् ।यामं च मर्दयेत्खल्ले तेन पूर्वा वराटकाः ॥२९॥टङ्कणं तु गवां क्षीरैः पिष्ट्वा तेन मुखं लिपेत् ।वराटानां प्रयत्नेन रुद्ध्वा भाण्डे पुटे पचेत् ॥३०॥स्वाङ्गशीतं समुद्धृत्य ततश्चूर्ण्य वराटकाः ।लोकनाथरसो नाम्ना क्षौद्रैर्गुञ्जाचतुष्टयम् ॥३१॥नागरातिविषामुस्तादेवदारुवचान्वितम् ।कषायमनुपानं स्याद्वातातीसारनाशनः ॥३२॥नागभस्मरसव्योमगन्धैर् अर्धपलोन्मितैः ।कुर्वीत कज्जलीं श्लक्ष्णां प्रक्षिपेत्तदनन्तरम् ॥३३॥द्विपलोन्मितरालायां द्रुतायां परिमिश्रिताम् ।भृष्टैर् यक्षाक्षसिंधूत्थवचाव्योषद्विजीरकैः ॥३४॥सपथ्याविजयादीप्यैस् तुल्यांशैर् अवचूर्णितैः ।मेलयेत्प्राक्तनं कल्कं भावयेत्तदनन्तरम् ॥३५॥महानिंबत्वचासारैः कांबोजीमूलजद्रवैः ।रसैर् नागबलायाश्च गुडूच्याश्च त्रिधा त्रिधा ।ततश्च गुटिकाः कार्या बदरास्थिप्रमाणतः ॥३६॥हन्यादेव हि नागसुन्दररसो वल्लोन्मितः सेवितः ।नानातीसरणामयं गुदपरिभ्रंशं तथा बिंबिशिम् ॥३७॥षण्निष्कतैलम्षण्निष्कं तिलतैलस्य निष्कं जम्बीरजं रसम् ।लवणं पञ्चगुञ्जं च अंगुल्या मर्दयेद् दृढम् ।आमवातार्तसारघ्नं लिहेत्पथ्यं च पूर्ववत् ॥३८॥संग्रहणीमलं संगृह्य संगृह्य कदाचिद् अतिरेचयेत् ।अरुचिः श्वयथुर् मान्द्यं ग्रहणीरोगलक्षणम् ॥३९॥वज्रकपाटरसःमृतसूताभ्रकं गन्धं यवक्षारं सटङ्कणम् ।वचा जया समं सर्वं जयन्ती भृंगजद्रवैः ॥४०॥सजंबीरैस्त्र्यहं मर्द्यं शोषयेत्तं च गोलकम् ।मन्दवह्नौ शनैः स्वेद्यं यामार्धं लौहपात्रके ॥४१॥रससाम्ये प्रतिनिशा देया मोचरसस्तथा ।भावयेद्विजयाद्रावैः शोष्यं पेष्यंच सप्तधा ।रसो वज्रकपाटोऽयं निष्कार्धं मधुना लिहेत् ॥४२॥अग्निकुमाररसःदग्धां कपर्दिकां पिष्ट्वा त्र्यूषणं टङ्कणं विषम् ।गन्धकं शुद्धसूतं च तुल्यं जम्बीरजैर् द्रवैः ॥४३॥मर्दयेद्भक्षयेन्माषं मरिचाज्यं लिहेदनु ।निहन्ति ग्रहणीरोगं पथ्यं तक्रौदनं हितम् ॥४४॥हिङ्गुलं मरिचं गन्धं पिप्पली टङ्कणं विषम् ।कनकस्य च बीजानि समांशं विजयाद्रवैः ॥४५॥मर्दयेद्याममात्रं तु चणमात्रं वटीकृतम् ।भक्षयेद् ग्रहणीं हन्ति रसः कनकसुन्दरः ॥४६॥अग्निमान्द्यं ज्वरं तीव्रमतिसारं च नाशयेत् ।दध्यन्नं दापयेत्पथ्यं गव्याजं तक्रमेव वा ॥४७॥ग्रहणीहररसःरसाभ्रगन्धाः क्रमवृद्धभागा जयारसेन त्रिदिनं विमर्द्याः ।गद्याणकार्धं मधुना समेतं ददीत पथ्यं दधिभक्तकं च ॥४८॥हिंगुलस्थितमहेश्वरबीजं पातयन्त्रविधिना हरणीयम् ।गंधटंकणमृताभ्रकतुल्यं कोकिलाक्षम् अथ चायसखल्ले ॥४९॥मर्दनीयम् अभिधारणयुक्ते धूमहीनदहनोपरि संस्थे ।यावदेष जलशोषणदक्षो जीरकार्द्रकयुतेन स वल्लः ॥५०॥संग्रहज्वरम् अतिस्रुतिगुल्मान् अर्शसां च विनिहन्ति समूहम् ।वासुदेवकथितो रसराजश् चण्डसंग्रहगदैककपाटः ॥५१॥लघुसिद्धाभ्रकरसःसमांशं रसगंधाभ्रदरदं च विशोधितम् ।लोहखल्ले विनिक्षिप्य गव्याज्येन समन्वितम् ॥५२॥द्रोणीचुल्ल्यां न्यसेत्खल्लं साङ्गारायां प्रयत्नतः ।मर्दकेनापि लौहेन मर्दयेद्दिवसद्वयम् ॥५३॥इति सिद्धो रसेंद्रोऽयं लघुसिद्धाभ्रको मतः ।वल्लतुल्यो रसो जीरवारिणा सहितः प्रगे ॥५४॥पीतो हरति वेगेन ग्रहणीमतिदुर्धराम् ।अतिसारं महाघोरं सातिसारं ज्वरं तथा ॥५५॥पाचनो दीपनो हृद्यो गात्रलाघवकारकः ।नागार्जुनेन कथितः सद्यः प्रत्ययकारकः ॥५६॥सर्वरोगरसःरसं पलमितं तुल्यं शुद्धनागेन संयुतम् ।द्रावयित्वायसे पात्रे सतैले निक्षिपेत्क्षितौ ॥५७॥ततो द्रुते विनिक्षिप्य गंधके तद् विलोड्य च ।पुनरायसपात्रे तत्क्षिप्त्वा प्रद्राव्य निक्षिपेत् ॥५८॥तत्तुल्यं जारयेत्तालं पुनः संचूर्ण्य पूर्ववत् ।तत्तुल्यां जारयेत्सम्यक्कुनटीं परिशोधिताम् ॥५९॥तत्तुल्यं चूर्णिते तस्मिन्क्षिपेन्नागं निरुत्थकम् ।तावदेव मृतं ताप्यं सर्वमन्यच्च तत्समम् ॥६०॥तीक्ष्णायः खर्परं व्योम हिंगुलं च शिलाजतु ।पृथक्कर्षांशमानेन षट्कोलं कट्फलं मिशीम् ॥६१॥दीप्यकं च चतुर्जातं रेणुकोशीरवेल्लकम् ।तुंबरुं भार्ङ्गिकां रास्नां कङ्कोलं चोरपुष्करम् ॥६२॥रिङ्गिणीं चिरतिक्तं च बीजान्युन्मत्तकस्य च ।पलद्वयं च लांगल्याः सर्वेषां द्वादशांशकम् ॥६३॥वत्सनाभं सितं भूरि विनिक्षिप्य ततः परम् ।त्रिफलानां दशाङ्घ्रीणां कषायेण ततः परम् ॥६४॥जयन्त्यार्द्रकवासानां मार्कवस्य रसैस्तथा ।भावयित्वा च कर्तव्या वटकाश्चणकोपमाः ॥६५॥एकैका वटिका सेव्या कुर्यात्तीव्रतरां क्षुधाम् ।विषूचीमरतिं हिक्कां सेव्यं स्वादु च शीतलम् ॥६६॥सामां च ग्रहणीं सदाङ्गतुदनं शोषोत्कटं पाण्डुताम् आर्तिं वातकफत्रिदोषजनितां शूलं च गुल्मामयम् ।हिक्काध्मानविषूचिकां च कसनं श्वासार्शसां विद्रधिं सर्वारोप्यवटी क्षणाद्विजयते रोगांस्तथान्यानपि ॥६७॥ग्रहणीगजकेसरीरसःरसगंधकयोः कृत्वा कज्जलीं तुल्यभागयोः ।द्रावयित्वायसे पात्रे रसतुल्यं विनिक्षिपेत् ॥६८॥चराचरभवं भस्म तत्र माक्षिकसंभवम् ।गंधपाषाणसहितं पात्रे लोहमये क्षिपेत् ॥६९॥तत्काष्ठेन विलोड्याथ निक्षिपेत्कदलीदले ।तत आच्छाद्य संचूर्ण्य निधायायसभाजने ॥७०॥अक्षमात्रं क्षिपेद्भस्म तत्र माक्षिकसम्भवम् ।सम्यङ्निश्चन्द्रतां नीतं व्योमभस्म पलोन्मितम् ॥७१॥विषं विषां च गन्धारीं मोचसारं सजीरकम् ।सर्वं समांशिकं कृत्वा रसे चार्धांशिकं क्षिपेत् ॥७२॥सर्वमेतन्मर्दयित्वा भावयेदतियत्नतः ।जयंत्या च महाराष्ट्र्या गञ्जाकिन्याश्वगन्धया ॥७३॥पञ्चकोलकषायैश्च कुर्याच्चूर्णं ततः परम् ।इत्थं सिद्धो रसः सोऽयं ग्रहणीगजकेसरी ॥७४॥नामतो नन्दिना प्रोक्तः कर्मतश्च सुधानिधिः ।वल्लेन प्रमितश्चायं रसः शुण्ठ्या घृताक्तया ॥७५॥सेवितो ग्रहणीं हन्ति सत्सङ्ग इव विग्रहम् ।पथ्यमत्र प्रदातव्यं स्वल्पाज्यं दधितक्रयुक् ॥७६॥हितं मितं च विशदं लघु ग्राहि रुचिप्रदम् ।पाचनो दीपनोऽत्यर्थमामघ्नो रुचिकारकः ॥७७॥तत्तदौषधयोगेन सर्वातीसारनाशनः ।बध्नन्नपि मलं शीघ्रं नाध्मानं कुरुते नृणाम् ॥७८॥शीघ्रप्रभावरसःपारदं गन्धकं व्योम तीक्ष्णं तालं मनःशिला ।सौवीरमञ्जनं शुद्धं विमलं च समांशकम् ॥७९॥एभिः कज्जलिकां कृत्वा स्वल्पतैलेन भर्जयेत् ।ग्रन्थिकं जीरकं चित्रं दीप्यकं मुस्तकं विषम् ॥८०॥बालाम्रं बालबिल्वं च मोचसारं समांशकम् ।विचूर्ण्य पूर्ववत्कल्कं तदर्धेन विनिक्षिपेत् ॥८१॥पुनर्विमर्दयेद् यत्नादेकरूपं भवेद्यथा ।भावयेत्सप्तवाराणि पञ्चकोलकषायतः ॥८२॥अरलुत्वग्रसेनापि दशवाराणि भावयेत् ।प्रोक्तेन क्रमयोगेन रसो निष्पद्यते ह्ययम् ॥८३॥जग्धो विश्वघनाम्बुना स हि रसः शीघ्रप्रभावाभिधो निष्कार्धप्रमितो महाग्रहणिकारोगेऽतिसारामये ।आध्माने ग्रहणीभवे रुचिहते वाते च मन्दानले मुक्ते चापि मले पुनश्चलमलाशङ्कासु हिक्कासु च ॥८४॥पोटलीरसःकपर्दतुल्यं रसगन्धकल्कं लोहं मृतं टङ्कणकं च तुल्यम् ।जयारसेनैकदिनं विमर्द्य चूर्णेन सम्पिष्य पुटेत्तु भाण्डे ॥८५॥ददीत तां पोटलिकां च दोषत्रयप्रधानग्रहणीनिवृत्त्यै ॥८६॥वह्निज्वालावटीरसःनष्टपिष्टौ चतुर्माषमेकैकं रसगंधकौ ।अभ्रकं माषमानं च मातुलुंगाम्लमर्दितम् ॥८७॥शोधितं सप्तधा चैव द्विमाषं त्र्यूषणं पृथक् ।त्रिशूली भृंगचाङ्गेरी सातला तीक्ष्णपर्णिका ॥८८॥श्वेतापराजिता कन्या मत्स्याक्षी ग्रीष्मसुन्दरा ।करिणी कर्णमोटी च रुदंती चित्रकार्द्रकात् ॥८९॥धुस्तूरकाकमाचीभ्यां मुसल्याश्च पृथग्रसैः ।मर्दितं द्विपलैः कुर्याद्वटिका माषसंमिता ॥९०॥ग्रहण्यां पर्णखण्डेन व्योषयुक्ता निषेविता ।अरुचिं राजयक्ष्माणं मन्दाग्निं सूतिकागदान् ।शमयेद्वटिका नाम्ना वह्निज्वालेति गीयते ॥९१॥वज्रधररसःरसगंधकताम्राभ्रं क्षारांस्त्रीन्वरुणो वृषम् ।अपामार्गस्य च क्षारं लवणं द्विद्विमाषकम् ॥९२॥चाङ्गेर्या हस्तिशुंड्याश्च रसैः पिष्टं पचेत्पुटे ।भक्षयित्वा ततो गुञ्जां ग्रहण्यां कांजिकं पिबेत् ॥९३॥पक्तिशूले च कासे च मन्दाग्नाव् आर्द्रकद्रवम् ।अम्लपित्ते च धारोष्णं क्षीरं वज्रधरो ह्ययम् ॥९४॥ग्रहणीकपाटरसःरसेंद्रगन्धातिविषाभयाभ्रं क्षारद्वयं मोचरसो वचा च ।जया च जंबीररसेन पिष्टं पिण्डीकृतं स्याद्ग्रहणीकपाटः ॥९५॥तस्यार्धमाषं मधुना प्रभाते शम्बुकभस्माज्यमधूनि लिह्यात् ।सक्षीरिणीजीरकमाणिमन्थतीक्ष्णानि चादौ दधिभोजनं च ॥९६॥सौवर्चलादिचूर्णम्सौवर्चलं जीरकयुग्मधान्यजयायवानी कणनागरं च ।कपित्थसारेण समं प्रगृह्य ददीत चूर्णं निशि तीव्रपित्तैः ॥९७॥गद्याणमात्रं मधुखण्डयुक्तं तक्रेण युक्तं त्वरुचिप्रशान्त्यै ।वातप्रधाने च कफप्रधाने रात्रौ कषायं कुटजस्य दद्यात् ॥९८॥मुस्तादिचूर्णम्मुस्तावत्सकपाठाग्निव्योषप्रतिविषाविषम् ।धातकीमोचनिर्यासश्चूतास्थिग्रहणीहरम् ॥९९॥वह्निशुंठीबिडं बिल्वं लवणं पेषयेत्समम् ।पिबेदुष्णांभसा चानु वातोत्थां ग्रहणीं जयेत् ॥१००॥दग्धशंबूकसिंधूत्थं तुल्यं क्षौद्रेण लेहयेत् ।निष्कैकैकं निहन्त्याशु ग्रहणीरोगम् उत्कटम् ॥१०१॥कृशान्वजाजीद्वयमाक्षिकेण कटुत्रयेणापि युतं त्वनुष्णम् ।चाङ्गेरिकाजीरकयुग्मधान्यं दुग्धेन्दुशाकाय ददीत दध्ना ॥१०२॥अजीर्णम्विरेको जठरे शूलं वमनं च मुहुर्मुहुः ।हस्तपादादिसंकोचः सर्वाजीर्णस्य लक्षणम् ॥१०३॥अजीर्णकण्टकरसःशुद्धसूतं विषं गन्धं समं सर्वविचूर्णितम् ।मरिचं सर्वतुल्यांशं कंटकार्या फलद्रवैः ॥१०४॥मर्दयेद् भावयेत् सर्वम् एकविंशतिवारकम् ।वटीं गुञ्जात्रयीं खादेत्सर्वाजीर्णप्रशान्तये ॥१०५॥अजीर्णकण्टकः सोऽयं रसो हन्ति विषूचिकाम् ।वारिणा तिलपर्ण्युत्थमूलं पिष्ट्वा पिबेदनु ॥१०६॥विध्वंसरसःविमर्द्य गन्धोपलटंकणेन संभाव्य वारानथ सप्तजात्याः ।तोयैः फलानामथ सिद्धसूतो विध्वंसनामा शमनो विषूच्याः ॥१०७॥अमुष्य गुञ्जा नव दापनीया हन्तुं विषूचीं सितया समेताः ।तक्रौदनं स्यादिह भोजनाय पथ्यं च शाकं किल वास्तुकस्य ॥१०८॥विषूचीविजयरसःरसगंधटंकभसितं समांशकं परिमर्द्य जातिफलसप्तभावितम् ।सितयोपयुज्य नवरक्तिकोन्मितं मथितान्नभुग्विजयते विषूचिकाम् ॥१०९॥अग्निकुमाररसःहंसपादीरसैः सिद्धं रसगंधकयोः पलम् ।कोलं च विषचूर्णस्य वालुकायंत्रपाचितम् ॥११०॥शाणं विषस्यार्धपलं मरिचस्य विमिश्रयेत् ।दीपनोऽग्निकुमारोऽयं ग्रहण्यां च विशेषतः ॥१११॥सवातश्लेष्मजान्रोगान्क्षणाद् एवापकर्षति ।सन्निपातज्वरश्वासक्षयकासांश्च नाशयेत् ॥११२॥वडबाग्निरसःटंकणं मरिचं तुत्थं पृथक् कर्षत्रयं भवेत् ।सुन्दरं द्वादशं निष्कं त्रिंशन्निष्कम् अयोमलम् ॥११३॥चूर्णान्येतानि संयोज्य स्थापयेच्छुद्धभाजने ।शुद्धदेहो नरस्तस्य पानं यद्भोजनोत्तरम् ॥११४॥अद्यात्पथ्यं ततः स्वल्पं ततस्तांबूलभाग्भवेत् ।उदराग्निर्नरस्यास्य वडवाग्निसमो भवेत् ।बहुनात्र किमुक्तेन रसायनमयं नृणाम् ॥११५॥कान्तं पद्मरसे घृष्टं पुटपक्वं वरारसे ।मार्कवस्वरसे घृष्टं सप्तकृत्वस् त्वयोमलम् ॥११६॥शुद्धौ सूतबली चराचररजः कर्षांशतः कज्जलीम् कृत्वा गोपयसा विमर्द्य दिवसं रुद्ध्वा च मूषोदरे ।सिद्धं कुम्भपुटे स्वतश्च शिशिरा पिष्टा करण्डे स्थिता स्याद् वैश्वानरपोटलीति कथिता तीव्राग्निदीप्तिप्रदा ॥११७॥एकोनविंशतेश्चूर्णैर्मरिचानां घृतान्वितैः ।देयेयं वल्लमानेन वयोबलम् अवेक्ष्यताम् ॥११८॥गिलेद् गलविशुद्ध्यर्थं दधिभक्तमनुत्तमम् ।कवलत्रयमानेन दुर्गन्धोद्गारशान्तये ॥११९॥मध्यंदिने ततो भोज्यं घृततक्रोपदंशयुक् ।रात्रौ च पयसा सार्धं यद्वा रोगानुसारतः ॥१२०॥विदाहि द्विदलं भूरिलवणं तैलपाचितम् ।बिल्वं च कारवेल्लं च वृंताकं कांजिकं त्यजेत् ॥१२१॥इयं हि पोटली प्रोक्ता सिङ्घणेन महीभृता ।मंदाग्निप्रभवाशेषरोगसंघातघातिनी ॥१२२॥सिंघणस्य विनिर्दिष्टा भैरवानंदयोगिना ।लोकनाथोक्तपोटल्या उपचारा इह स्मृताः ।पोटल्यो दीपनाः स्निग्धा मंदाग्नौ नितरां हिताः ॥१२३॥पीतवर्णा गुरुस्निग्धा पृष्ठतो ग्रन्थिलामला ।चराचरेति सा प्रोक्ता वराटी नंदिना खलु ॥१२४॥सार्धनिष्कमिता श्रेष्ठा मध्यमा निष्कमानिका ।पादोननिष्कमाना च कनिष्ठात्र वराटिका ॥१२५॥निष्फलाश्च ततो न्यूनाः पुंवराटाश्च पित्तलाः ।दत्त्वा दत्त्वा गुणान्भूयो विकारान्कुर्वते हि ते ॥१२६॥वडवामुखी गुटीशुल्बायोघनभस्मवेल्लहलिनीव्योषाम्बुनिम्बच्छदैः संयुक्तैश्च हरिद्रया समलवैः सार्धं सशुभ्रामृतैः ।भृङ्गाम्भोविषतिन्दुकार्द्रकरसैः सम्पिष्य गुंजामिता संशुष्का वडवामुखीति गुटिका नाम्नोदिता तारया ॥१२७॥क्षिप्रं क्षुत्परिबोधिनी खलु मता सर्वामयध्वंसिनी श्लेष्मव्याधिविधूननी कसनहृच्छ्वासापहा शूलनुत् क्षुद्वैषम्यहरा च गुल्मशमनी मूलार्तिमूलंकषा शोफव्याधिहरात्र किं बहुगिरा सर्वामयोत्सादिनी ॥१२८॥क्रव्यादरसःद्विपलं गन्धकं शुद्धं द्रावयित्वा विनिक्षिपेत् ।पारदं पलमानेन मृतशुल्वायसं पुनः ॥१२९॥तोलमानेन संक्षिप्य पञ्चाङ्गुलदले क्षिपेत् ।ततो विचूर्ण्य यत्नेन निक्षिप्यायसभाजने ॥१३०॥चुल्ल्यां निवेश्य यत्नेन ज्वालयेन्मृदुवह्निना ।पात्रमात्रं हि जंबीररसं सम्यग्विजारयेत् ॥१३१॥संचूर्ण्य पञ्चकोलोत्थैः कषायैः साम्लवेतसैः ।भावनाः खलु कर्तव्याः पञ्चाशत्प्रमितास्ततः ॥१३२॥भृष्टटंकणचूर्णेन तुल्येन सह मेलयेत् ।तदर्धं कृष्णलवणं सर्वतुल्यं मरीचकम् ॥१३३॥सप्तधा भावयेत्पश्चाच्चणकक्षारवारिणा ।ततः संशोष्य सम्पिष्य कूपिकाजठरे क्षिपेत् ॥१३४॥अत्यर्थं गुरुमांसानि गुरुभोज्यान्यनेकशः ।भुक्त्वा च कंठपर्यन्तं चतुर्वल्लमितं रसम् ॥१३५॥पट्वम्लतक्रसहितं पिबेत्तदनुपानतः ।क्षिप्रं तज्जीर्यते भुक्तं जायते दीपनं पुनः ॥१३६॥रसः क्रव्यादनामायं प्रोक्तो मन्थानभैरवैः ।सिंघणक्षोणिपालस्य भूरिमांसप्रियस्य च ।दिष्टो ग्रामं समासाद्य भैरवानन्दयोगिना ॥१३७॥कुर्याद्दीपनमुद्धतं च पचनं दुष्टामसंशोषणं तुन्दस्थौल्यनिबर्हणं गरहरं मूलार्तिशूलापहम् ।गुल्मप्लीहविनाशनं ग्रहणिकाविध्वंसनं स्रंसनं वातग्रन्थिमहोदरापहरणं क्रव्यादनामा रसः ॥१३८॥राजशेखरवटीभागो मृतरसस्यैको वत्सनाभांशकद्वयम् ।रसतुल्यं शिवाचूर्णं गन्धकं त्र्यूषणं तथा ॥१३९॥विचूर्ण्यातिप्रयत्नेन भावयेत्सप्तवासरम् ।ताम्बूलपत्रतोयेन स्वर्णधुस्तूरजद्रवैः ।पिष्ट्वा चणमिताः कुर्याच्छायाशुष्कास्तु गोलिकाः ॥१४०॥उष्णांभोयुतराजशेखरवटी मन्दाग्निनिर्णाशिनी नानाकारमहाज्वरार्तिशमनी निःशेषमूलापहा ।पाण्डुव्याधिमहोदरार्तिशमनी शूलान्तकृत् पाचिनी शोफघ्नी पवनार्तिनाशनपटुः श्लेष्मामयध्वंसिनी ॥१४१॥अग्निकुमाररसःशुद्धं सूतं विषं गंधं द्विक्षारं पटुपञ्चकम् ।दशकं तुल्यांशं भर्जिता विजया नवा ॥१४२॥दशानां तुल्यभागा च तस्यार्धं शिग्रुमूलकम् ।तत्सर्वं विजयाद्रावैः शिग्रुचित्रकभृंगजैः ॥१४३॥द्रावैर् दिनत्रयं मर्द्यं रुद्ध्वा भाण्डे पचेल्लघु ।दीपाग्निना तु यामैकं शुष्कं यावत्समुद्धरेत् ॥१४४॥सप्तधा चार्द्रकद्रावैर्भावयेच्चूर्णयेद्भिषक् ।दीपकोऽग्निकुमारोऽयं निष्कैकं मधुना लिहेत् ।प्रतिकर्षं गुडं शुंठी ह्यनुपानं च दीपनम् ॥१४५॥अमृतवटीकुष्ठगंधविषव्योमत्रिफलापारदैः समैः ।मृगाम्बुमर्दितैर् मुद्गमानामृतवटी शुभा ।अजीर्णश्लेष्मवातघ्नी दीपनी रुचिवर्धिनी ॥१४६॥राक्षसनामा रसःताम्रं पारदगंधकौ त्रिकटुकं तीक्ष्णं च सौवर्चलं खल्ले मर्द्य दृढं विधाय सिकताकुम्भेऽष्टयामं ततः ।स्विन्नं तस्य च रक्तशाकिनिभवं क्षारं समं मेलयेत् सर्वं भावितमातुलुंगजरसैर्नाम्ना रसो राक्षसः ॥१४७॥मन्दाग्नौ सततं ददीत मुनये प्रातः पुरा शंकरः सख्य अस्मै च्यवनाय मंदहुतभुग्वर्याय नष्टौजसे ।तेनादाय समस्तलोकगुरवे सूर्याय तस्मै नमो मर्त्यानामपि चास्य दानसमये गुंजाष्टकं वर्जयेत् ॥१४८॥जीवनामा रसःरसगंधौ सिन्धुकणाटङ्कणम् अभयाग्निहियावलीकतकफलम् ।क्रमश उत्तरं च विचूर्णितया बृहतीरससंयुतभावनया ॥१४९॥आर्द्रकहिंगुपुनर्नवपूतिच्छिन्नरसैः क्रमशस्तु भावनया ।तत्र कलांशविशं च विमिश्रं तद्रसमानं मानविधया ॥१५०॥सर्वमजीर्णं कफमारुतपाण्डुशोफहलीमककामलाशूलम् ।नाशयते ह्युदराग्निकरोऽयं दीपनजीवननामरसेन्द्रः ॥१५१॥वडवानलरसःशुल्बं तालकगन्धकौ जलनिधेः फेनोऽग्निगर्भाशयः कान्तायो लवणानि हेमपवयो नीलांजनं तुत्थकम् ।भागो द्वादशको रसस्य तु दिनं वल्ल्यंबुघृष्टं शनैः सिद्धोऽयं वडवानलो गजपुटे रोगानशेषाञ्जयेत् ॥१५२॥अग्निजननी वटीकणनागरगन्धकपारदकं गरलं मरिचं समभागयुतम् ।लकुचस्य रसैश्चणकप्रमिता गुटिका जनयत्यचिरादनलम् ॥१५३॥सर्वरोगान्तका वटीशुद्धसूतं विषं गंधम् अजमोदं फलत्रयम् ।सर्जीक्षारं यवक्षारं वह्निसैन्धवजीरकम् ॥१५४॥सौवर्चलं विडङ्गानि सामुद्रं त्र्यूषणं समम् ।विषमुष्टिः सर्वतुल्या जंबीराम्लेन मर्दितम् ॥१५५॥मरिचाभां वटीं खादेद्वह्निमांद्यप्रशांतये ।पथ्या शुण्ठी गुडं चानु पलार्धं भक्षयेत्सदा ॥१५६॥अग्निमांद्ये वटी ख्याता सर्वरोगकुलान्तका ॥१५७॥सामान्योपायःमृतं ताम्रं कणातुल्यं चूर्णं क्षौद्रविमिश्रितम् ।निष्कार्धं भक्षयेन्नित्यं नष्टवह्निप्रदीप्तये ॥१५८॥आर्द्रकस्वरसः क्षौद्रं पलमात्रं पिबेदनु ।यथेष्टं घृतमांसाशी शक्तो भवति पावकः ॥१५९॥ N/A References : N/A Last Updated : June 24, 2015 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP