अर्थशास्त्रम् अध्याय ०१ - भाग १७

कौटिल्य अर्थात् चाणक्य द्वारा रचित अर्थशास्त्र हा प्राचीन ग्रंथ आहे.


१७.०१
रक्षितो राजा राज्यं रक्षत्य् आसन्नेभ्यः परेभ्यश् च, पूर्वं दारेभ्यः पुत्रेभ्यश् च ॥

१७.०२
दार.रक्षणं निशान्त.प्रणिधौ वक्ष्यामः ॥

१७.०३
"पुत्र.रक्षणं तु ॥

१७.०४
"जन्म.प्रभृति राज.पुत्रान् रक्षेत् ॥

१७.०५
कर्कटक.सधर्माणो हि जनक.भक्षा राज.पुत्राः ॥

१७.०६
तेषाम् अजात.स्नेहे पितर्य् उपांशु.दण्डः श्रेयान्" इति भारद्वाजः ॥

१७.०७
"नृशंसम् अदुष्ट.वधः क्षत्र.बीज.विनाशश् च" इति विशाल.अक्षः ॥

१७.०८
"तस्माद् एक.स्थान.अवरोधः श्रेयान्" इति ॥

१७.०९
अहि.भयम् एतद्" इति पाराशराः ॥

१७.१०
"कुमारो हि "विक्रम.भयान् मां पिता_अवरुणद्धि" इति ज्ञात्वा तम् एव_अङ्के कुर्यात् ॥

१७.११
तस्माद् अन्त.पाल.दुर्गे वासः श्रेयान्" इति ॥

१७.१२
"औरभ्रं भयम् एतद्" इति पिशुनः ॥

१७.१३
"प्रत्यापत्तेर् हि तद् एव कारणं ज्ञात्वा_अन्त.पाल.सखः स्यात् ॥

१७.१४
तस्मात् स्व.विषयाद् अपकृष्टे सामन्त.दुर्गे वासः श्रेयान्" इति ॥

१७.१५
"वत्स.स्थानम् एतद्" इति कौणपदन्तः ॥

१७.१६
"वत्सेन_इव हि धेनुं पितरम् अस्य सामन्तो दुह्यात् ॥

१७.१७
तस्मान् मातृ.बन्धुषु वासः श्रेयान्" इति ॥

१७.१८
"ध्वज.स्थानम् एतद्" इति वात.व्याधिः ॥

१७.१९
"तेन हि ध्वजेन_अदिति.कौशिकवद् अस्य मातृ.बान्धवा भिक्षेरन् ॥

१७.२०
तस्माद् ग्राम्य सुखेष्व् एनम् अवसृजेत् ॥

१७.२१
सुख.उपरुद्धा हि पुत्राः पितरं न_अभिद्रुह्यन्ति" इति ॥

१७.२२
जीवन्.मरणम् एतद् इति कौटिल्यः ॥

१७.२३
काष्ठम् इव घुण.जग्धं राज.कुलम् अविनीत.पुत्रम् अभियुक्त.मात्रं भज्येत ॥

१७.२४
तस्माद् ऋतुमत्यां महिष्याम् ऋत्विजश् चरुम् ऐन्द्राबार्हस्पत्यं निर्वपेयुः ॥

१७.२५
आपन्न.सत्त्वायाः कौमार.भृत्यो गर्भ.भर्मणि प्रसवे च वियतेत ॥

१७.२६
प्रजातायाः पुत्र.संस्कारं पुरोहितः कुर्यात् ॥

१७.२७
समर्थं तद्विदो विनयेयुः ॥

१७.२८
"सत्त्रिणाम् एकश् च_एनं मृगया.द्यूत.मद्य.स्त्रीभिः प्रलोभयेत् "पितरि विक्रम्य राज्यं गृहाण" इति ॥

१७.२९
तम् अन्यः सत्त्री प्रतिषेधयेत्" इत्य् आम्भीयाः ॥

१७.३०
महा.दोषम् अबुद्ध.बोधनम् इत् कौटिल्यः ॥

१७.३१
नवं हि द्रव्यं येन येन_अर्थ.जातेन_उपदिह्यते तत् तद् आचूषति ॥

१७.३२
एवम् अयं नव.बुद्धिर् यद् यद् उच्यते तत् तत्.शास्त्र.उपदेशम् इव_अभिजानाति ॥

१७.३३
तस्माद् धर्म्यम् अर्थ्यं च_अस्य_उपदिशेन् न_अधर्म्यम् अनर्थ्यं च ॥

१७.३४
सत्त्रिणस् त्व् एनं "तव स्मः" इति वदन्तः पालयेयुः ॥

१७.३५
यौवन.उत्सेकात् पर.स्त्रीषु मनः कुर्वाणम् आर्या.व्यञ्जनाभिः स्त्रीभिर् अमेध्याभिः शून्य.आगारेषु रात्राव् उद्वेजयेयुः ॥

१७.३६
मद्य.कामं योग.पानेन_उद्वेजयेयुः ॥

१७.३७
द्यूत.कामं कापटिकैर् उद्वेजयेयुः ॥

१७.३८
मृगया.कामं प्रतिरोधक.व्यञ्जनैस् त्रासयेयुः ॥

१७.३९
पितरि विक्रम.बुद्धिं "तथा" इत्य् अनुप्रविश्य भेदयेयुः - "अप्रार्थनीयो राजा, विपन्ने घातः, सम्पन्ने नरक.पातः, संक्रोशः, प्रजाभिर् एक.लोष्ट.वधश् च" इति ॥

१७.४०
विरागं वेदयेयुः ॥

१७.४१
प्रियम् एक.पुत्रं बध्नीयात् ॥

१७.४२
बहु.पुत्रः प्रत्यन्तम् अन्य.विषयं वा प्रेषयेद् यत्र गर्भः पण्यं डिम्बो वा न भवेत् ॥

१७.४३
आत्म.सम्पन्नं सैनापत्ये यौवराज्ये वा स्थापयेत् ॥

१७.४४
बुद्धिमान्.आहार्य.बुद्धिर् दुर्बुद्धिर् इति पुत्र.विशेषाः ॥

१७.४५
शिष्यमाणो धर्म.अर्थाव् उपलभते च_अनुतिष्ठति च बुद्धिमान् ॥

१७.४६
उपलभमानो न_अनुतिष्ठत्य् आहार्य.बुद्धिः ॥

१७.४७
अपाय.नित्यो धर्म.अर्थ.द्वेषी च_इति दुर्बुद्धिः ॥

१७.४८
स यद्य् एक.पुत्रः पुत्र.उत्पत्ताव् अस्य प्रयतेत ॥

१७.४९
पुत्रिका.पुत्रान् उत्पादयेद् वा ॥

१७.५०
वृद्धस् तु व्याधितो वा राजा मातृ.बन्धु.कुल्य.गुणवत्.सामन्तानाम् अन्यतमेन क्षेत्रे बीजम् उत्पादयेत् ॥

१७.५१
न च_एक.पुत्रम् अविनीतं राज्ये स्थापयेत् ॥

१७.५२
बहूनाम् एक.सम्रोधः पिता पुत्र.हितो भवेत् ।

१७.५२
अन्यत्र_आपद ऐश्वर्यं ज्येष्ठ.भागि तु पूज्यते ॥

१७.५३
कुलस्य वा भवेद् राज्यं कुल.संघो हि दुर्जयः ।

१७.५३
अराज.व्यसन.आबाधः शश्वद् आवसति क्षितिम् ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP