अर्थशास्त्रम् अध्याय ०२ - भाग ९
अर्थशास्त्र या ग्रंथात राज्यव्यवस्था, कृषि, न्याय आणि राजनीति वगैरे विभिन्न विषयांवर विचार केला गेला आहे.
९.०१
अमात्य.सम्पदा_उपेताः सर्व.अध्यक्षाः शक्तितः कर्मसु नियोज्याः ॥
९.०२
कर्मसु च_एषां नित्यं परीक्षां कारयेत्, चित्त.अनित्यत्वात्_ मनुष्यानाम् ॥
९.०३
अश्व.सधर्माणो हि मनुष्या नियुक्ताः कर्मसु विकुर्वते ॥
९.०४
तस्मात् कर्तारं करणं देशं कालं कार्यं प्रक्षेपम् उदयं च_एषु विद्यात् ॥
९.०५
ते यथा.संदेशम् असंहता अविगृहीताः कर्माणि कुर्युः ॥
९.०६
संहता भक्षयेयुः, विगृहीता विनाशयेयुः ॥
९.०७
न च_अनिवेद्य भर्तुः कंचिद् आरम्भं कुर्युः, अन्यत्र_आपत्.प्रतीकारेभ्यः ॥
९.०८
प्रमाद.स्थानेषु च_एषाम् अत्ययं स्थापयेद् दिवस.वेतन.व्यय.द्वि.गुणम् ॥
९.०९
यश् च_एषां यथा.आदिष्टम् अर्थं सविशेषं वा करोति स स्थान.मानौ लभेत ॥
९.१०
"अल्प.आयतिश् चेत्_ महा.व्ययो भक्षयति ॥
९.११
विपर्यये यथा.आयति.व्ययश् च न भक्षयति" इत्य् आचार्याः ॥
९.१२
अपसर्पेण_एव_उपलभ्येत_इति कौटिल्यः ॥
९.१३
यः समुदयं परिहापयति स राज.अर्थं भक्षयति ॥
९.१४
स चेद् अज्ञान.आदिभिः परिहापयति तद् एनं यथा.गुणं दापयेत् ॥
९.१५
यः समुदयं द्वि.गुणम् उद्भावयति स जन.पदं भक्षयति ॥
९.१६
स चेद् राज.अर्थम् उपनयत्य् अल्प.अपराधे वारयितव्यः, महति यथा.अपराधं दण्डयितव्यः ॥
९.१७
यः समुदयं व्ययम् उपनयति स पुरुष.कर्माणि भक्षयति ॥
९.१८
स कर्म.दिवस.द्रव्य.मूल्य.पुरुष.वेतन.अपहारेषु यथा.अपराधं दण्डयितव्यः ॥
९.१९
तस्माद् अस्य यो यस्मिन्न् अधिकरणे शासनस्थः स तस्य कर्मणो याथातथ्यम् आय.व्ययौ च व्यास.समासाभ्याम् आचक्षीत ॥
९.२०
मूल.हर.तादात्विक.कदर्यांश् च प्रतिषेधयेत् ॥
९.२१
यः पितृ.पैतामहम् अर्थम् अन्यायेन भक्षयति स मूल.हरः ॥
९.२२
यो यद् यद् उत्पद्यते तत् तद् भक्षयति स तादात्विकः ॥
९.२३
यो भृत्य.आत्म.पीडाभ्याम् उपचिनोत्य् अर्थं स कदर्यः ॥
९.२४
स पक्षवांश् चेद् अनादेयः, विपर्यये पर्यादातव्यः ॥
९.२५
यो महत्य् अर्थ.समुदये स्थितः कदर्यः सम्निधत्ते_अवनिधत्ते_अवस्रावयति वा - सम्निधत्ते स्व.वेश्मनि, अवनिधत्ते पौर.जानपदेषु, अवस्रावयति पर.विषये - तस्य सत्त्री मन्त्रि.मित्र.भृत्य.बन्धु.पक्षम् आगतिं गतिं च द्रव्याणाम् उपलभेत ॥
९.२६
यश् च_अस्य पर.विषये संचारं कुर्यात् तम् अनुप्रविश्य मन्त्रं विद्यात् ॥
९.२७
सुविदिते शत्रु.शासन.अपदेशेन_एनं घातयेत् ॥
९.२८
तस्माद् अस्य_अध्यक्षाः संख्यायक.लेखक.रूप.दर्शक.नीवी.ग्राहक.उत्तर.अध्यक्ष.सखाः कर्मणि कुर्युः ॥
९.२९
उत्तर.अध्यक्षा हस्ति.अश्व.रथ.आरोहाः ॥
९.३०
तेषाम् अन्तेवासिनः शिल्प.शौच.युक्ताः संख्यायक.आदीनाम् अपसर्पाः ॥
९.३१
बहु.मुख्यम् अनित्यं च_अधिकरणं स्थापयेत् ॥
९.३२
यथा ह्य् अनास्वादयितुं न शक्यं जिह्वा.तलस्थं मधु७ वा विषं वा ।
९.३२
अर्थस् तथा ह्य् अर्थ.चरेण राज्ञः स्वल्पो_अप्य् अनास्वादयितुं न शक्यः ॥
९.३३
मत्स्या यथा_अन्तः सलिले चरन्तो ज्ञातुं न शक्याः सलिलं पिबन्तः ।
९.३३
युक्तास् तथा कार्य.विधौ नियुक्ता ज्ञातुं न शक्या धनम् आददानाः ॥
९.३४
अपि शक्या गतिर् ज्ञातुं पततां खे पतत्रिणाम् ।
९.३४
न तु प्रच्छन्न.भावानां युक्तानां चरतां गतिः ॥
९.३५
आस्रावयेच् च_उपचितान् विपर्यस्येच् च कर्मसु ।
९.३५
यथा न भक्षयन्त्य् अर्थं भक्षितं निर्वमन्ति वा ॥
९.३६
न भक्षयन्ति ये त्व् अर्थान् न्यायतो वर्धयन्ति च ।
९.३६
नित्य.अधिकाराः कार्यास् ते राज्ञः प्रिय.हिते रताः ॥ E
N/A
References : N/A
Last Updated : November 11, 2016
TOP