अर्थशास्त्रम् अध्याय १० - भाग ६

अर्थशास्त्र या ग्रंथात राज्यव्यवस्था, कृषि, न्याय आणि राजनीति वगैरे विभिन्न विषयांवर विचार केला गेला आहे.


६.०१
पक्षाव् उरस्यं प्रतिग्रह इत्य् औशनसो व्यूह.विभागः ॥

६.०२
पक्षौ कक्षाव् उरस्य्म् प्रतिग्रह इति बार्हस्प्त्यः ॥

६.०३
प्रपक्ष.कक्ष.उरस्या उभयोः दण्ड.भोग.मण्डल.असंहताः प्रकृति.व्यूहाः ॥

६.०४
तत्र तिर्यग्.वृत्तिर् दण्डः ॥

६.०५
समस्तानाम् अन्वावृत्तिर् भोगः ॥

६.०६
सरतां सर्वतो.वृत्तिर् मण्डलः ॥

६.०७
स्थितानां पृथग्.अनीक.वृत्तिर् असंहतः ॥

६.०८
पक्ष.कक्ष.उरस्यैः समं वर्तमानो दण्डः ॥

६.०९
स कक्ष.अतिक्रान्तः प्रदरः ॥

६.१०
स एव पक्ष.कक्षाभ्यां प्रतिक्रान्तो दृढकः ॥

६.११
स एव_अतिक्रान्तः पक्षाभ्याम् असह्यः ॥

६.१२
पक्षाव् अवस्थाप्य_उरस्य.अतिक्रान्तः श्येनः ॥

६.१३
विपर्यये चापं चाप.कुकुषिः प्रतिष्ठः सुप्रतिष्ठश् च ॥

६.१४
चाप.पक्षः संजयः ॥

६.१५
स एव_उरस्य.अतिक्रान्तो विजयः ॥

६.१६
स्थूल.कर्ण.पक्षः स्थूण.अकर्णः ॥

६.१७
द्वि.गुण.पक्ष.स्थूणो विशाल.विजयः ॥

६.१८
त्र्य्.अभिक्रान्त.पक्षश् चमू.मुखः ॥

६.१९
विपर्यये झष.आस्यः ॥

६.२०
ऊर्ध्व.राजिर् दण्डः सूची ॥

६.२१
द्वौ दण्डौ वलयः ॥

६.२२
चत्वारो दुर्जयः ॥

६.२३
इति दण्ड.व्यूहाः ॥

६.२४
पक्ष.कक्ष.उरस्यैर् विषमं वर्तमानो भोगः ॥

६.२५
स सर्प.सारी गो.मूत्रिका वा ॥

६.२६
स युग्म.उरस्यो दण्ड.पक्षः शकटः ॥

६.२७
विपर्यये मकरः ॥

६.२८
हस्त्य्.अश्व.रथैर् व्यतिकीर्णः शकटः पारिपतन्तकः ॥

६.२९
इति भोग.व्यूहाः ॥

६.३०
पक्ष.कक्ष.उरस्यानाम् एकी.भावे मण्डलः ॥

६.३१
स सर्वतो.मुखः सर्वतो.भद्रः ॥

६.३२
अष्ट.अनीको दुर्जयः ॥

६.३३
इति मण्डल.व्यूहाः ॥

६.३४
पक्ष.कक्ष.उरस्यानाम् असंहताद् असंहतः ॥

६.३५
स पञ्च.अनीकानाम् आकृति.स्थापनाद् वज्रो गोधा वा ॥

६.३६
चतुर्णाम् उद्धानकः काकपदी वा ॥

६.३७
त्रयाणाम् अर्ध.चन्द्रकः कर्कटक.शृङ्गी वा ॥

६.३८
इत्य् असंहत.व्यूहाः ॥

६.३९
रथ.उरस्यो हस्ति.कक्षो_अश्व.पृष्ठो_अरिष्टः ॥

६.४०
पत्तयो_अश्वा रथा हस्तिनश् च_अनुपृष्ठम् अचलः ॥

६.४१
हस्तिनो_अश्वा रथाः पत्तयश् च_अनुपृष्ठम् अप्रतिहतः ॥

६.४२
तेषां प्रदरं दृढकेन घातयेत्, दृढकम् असह्येन, श्येनं चापेन, प्रतिष्ठं सुप्रतिष्ठेन, संजयं विजयेन, स्थूण.आकर्णं विशाल.विजयेन, पारिपतन्तकं सर्वतो.भद्रेण ॥

६.४३
दुर्जयेन सर्वान् प्रतिव्यूहेत ॥

६.४४
पत्त्य्.अश्व.रथ.द्विपानां पूर्वं पूर्वम् उत्तरेण घातयेत्, हीन.अङ्गम् अधिक.अङ्गेन च_इति ॥

६.४५
अङ्ग.दशकस्य_एकः पतिः पतिकः, पतिक.दशकस्य_एकः सेना.पतिः, तद्.दशकस्य_एको नायक इति ॥

६.४६
स तूर्य.घोष.ध्वज.पताकाभिर् व्यूह.अङ्गानां संज्ञाः स्थापयेद् अङ्ग.विभागे संघाते स्थाने गमने व्यावर्तने प्रहरणे च ॥

६.४७
समे व्यूहे देश.काल.सार.योगात् सिद्धिः ॥

६.४८
यन्त्रैर् उपनिषद्.योगैस् तीक्ष्णैर् व्यासक्त.घातिभिः ।

६.४८
मायाभिर् देव.सम्योगैः शकटैर् हस्ति.भीषणैः ॥

६.४९
दूष्य.प्रकोपैर् गो.यूथैः स्कन्ध.आवार.प्रदीपनैः ।

६.४९
कोटी.जघन.घातैर् वा दूत.व्यञ्जन.भेदनैः ॥

६.५०
"दुर्गं दग्धं हृतं वा ते कोपः कुल्यः समुत्थितः ।

६.५०
शत्रुर् आटविको वा" इति परस्य_उद्वेगम् आचरेत् ॥

६.५१
एकं हन्यान् न वा हन्याद् इषुः क्षिप्तो धनुष्मता ।

६.५१
प्रज्ञानेन तु मतिः क्षिप्ता हन्याद् गर्भ.गतान् अपि ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP