संस्कृत सूची|संस्कृत साहित्य|वेदः|ऋग्वेदः|मण्डल ८|
सूक्तं ५

मण्डल ८ - सूक्तं ५

ऋग्वेद फार प्राचीन वेद आहे. यात १० मंडल आणि १०५५२ मंत्र आहेत. ऋग्वेद म्हणजे ऋषींनी देवतांची केलेली प्रार्थना आणि स्तुति.


दूरादिहेव यत्सत्यरुणप्सुरशिश्वितत् ।
वि भानुं विश्वधातनत् ॥१॥
नृवद्दस्रा मनोयुजा रथेन पृथुपाजसा ।
सचेथे अश्विनोषसम् ॥२॥
युवाभ्यां वाजिनीवसू प्रति स्तोमा अदृक्षत ।
वाचं दूतो यथोहिषे ॥३॥
पुरुप्रिया ण ऊतये पुरुमन्द्रा पुरूवसू ।
स्तुषे कण्वासो अश्विना ॥४॥
मंहिष्ठा वाजसातमेषयन्ता शुभस्पती ।
गन्तारा दाशुषो गृहम् ॥५॥
ता सुदेवाय दाशुषे सुमेधामवितारिणीम् ।
घृतैर्गव्यूतिमुक्षतम् ॥६॥
आ न स्तोममुप द्रवत्तूयं श्येनेभिराशुभिः ।
यातमश्वेभिरश्विना ॥७॥
येभिस्तिस्रः परावतो दिवो विश्वानि रोचना ।
त्रीँरक्तून्परिदीयथः ॥८॥
उत नो गोमतीरिष उत सातीरहर्विदा ।
वि पथः सातये सितम् ॥९॥
आ नो गोमन्तमश्विना सुवीरं सुरथं रयिम् ।
वोळ्हमश्वावतीरिषः ॥१०॥
वावृधाना शुभस्पती दस्रा हिरण्यवर्तनी ।
पिबतं सोम्यं मधु ॥११॥
अस्मभ्यं वाजिनीवसू मघवद्भ्यश्च सप्रथः ।
छर्दिर्यन्तमदाभ्यम् ॥१२॥
नि षु ब्रह्म जनानां याविष्टं तूयमा गतम् ।
मो ष्वन्याँ उपारतम् ॥१३॥
अस्य पिबतमश्विना युवं मदस्य चारुणः ।
मध्वो रातस्य धिष्ण्या ॥१४॥
अस्मे आ वहतं रयिं शतवन्तं सहस्रिणम् ।
पुरुक्षुं विश्वधायसम् ॥१५॥
पुरुत्रा चिद्धि वां नरा विह्वयन्ते मनीषिणः ।
वाघद्भिरश्विना गतम् ॥१६॥
जनासो वृक्तबर्हिषो हविष्मन्तो अरंकृतः ।
युवां हवन्ते अश्विना ॥१७॥
अस्माकमद्य वामयं स्तोमो वाहिष्ठो अन्तमः ।
युवाभ्यां भूत्वश्विना ॥१८॥
यो ह वां मधुनो दृतिराहितो रथचर्षणे ।
ततः पिबतमश्विना ॥१९॥
तेन नो वाजिनीवसू पश्वे तोकाय शं गवे ।
वहतं पीवरीरिषः ॥२०॥
उत नो दिव्या इष उत सिन्धूँरहर्विदा ।
अप द्वारेव वर्षथः ॥२१॥
कदा वां तौग्र्यो विधत्समुद्रे जहितो नरा ।
यद्वां रथो विभिष्पतात् ॥२२॥
युवं कण्वाय नासत्या ऋपिरिप्ताय हर्म्ये ।
शश्वदूतीर्दशस्यथः ॥२३॥
ताभिरा यातमूतिभिर्नव्यसीभिः सुशस्तिभिः ।
यद्वां वृषण्वसू हुवे ॥२४॥
यथा चित्कण्वमावतं प्रियमेधमुपस्तुतम् ।
अत्रिं शिञ्जारमश्विना ॥२५॥
यथोत कृत्व्ये धनेऽंशुं गोष्वगस्त्यम् ।
यथा वाजेषु सोभरिम् ॥२६॥
एतावद्वां वृषण्वसू अतो वा भूयो अश्विना ।
गृणन्तः सुम्नमीमहे ॥२७॥
रथं हिरण्यवन्धुरं हिरण्याभीशुमश्विना ।
आ हि स्थाथो दिविस्पृशम् ॥२८॥
हिरण्ययी वां रभिरीषा अक्षो हिरण्ययः ।
उभा चक्रा हिरण्यया ॥२९॥
तेन नो वाजिनीवसू परावतश्चिदा गतम् ।
उपेमां सुष्टुतिं मम ॥३०॥
आ वहेथे पराकात्पूर्वीरश्नन्तावश्विना ।
इषो दासीरमर्त्या ॥३१॥
आ नो द्युम्नैरा श्रवोभिरा राया यातमश्विना ।
पुरुश्चन्द्रा नासत्या ॥३२॥
एह वां प्रुषितप्सवो वयो वहन्तु पर्णिनः ।
अच्छा स्वध्वरं जनम् ॥३३॥
रथं वामनुगायसं य इषा वर्तते सह ।
न चक्रमभि बाधते ॥३४॥
हिरण्ययेन रथेन द्रवत्पाणिभिरश्वैः ।
धीजवना नासत्या ॥३५॥
युवं मृगं जागृवांसं स्वदथो वा वृषण्वसू ।
ता नः पृङ्क्तमिषा रयिम् ॥३६॥
ता मे अश्विना सनीनां विद्यातं नवानाम् ।
यथा चिच्चैद्यः कशुः शतमुष्ट्रानां ददत्सहस्रा दश गोनाम् ॥३७॥
यो मे हिरण्यसंदृशो दश राज्ञो अमंहत ।
अधस्पदा इच्चैद्यस्य कृष्टयश्चर्मम्ना अभितो जनाः ॥३८॥
माकिरेना पथा गाद्येनेमे यन्ति चेदयः ।
अन्यो नेत्सूरिरोहते भूरिदावत्तरो जनः ॥३९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP