मण्डल ८ - सूक्तं ४३
ऋग्वेद फार प्राचीन वेद आहे. यात १० मंडल आणि १०५५२ मंत्र आहेत. ऋग्वेद म्हणजे ऋषींनी देवतांची केलेली प्रार्थना आणि स्तुति.
इमे विप्रस्य वेधसोऽग्नेरस्तृतयज्वनः ।
गिर स्तोमास ईरते ॥१॥
अस्मै ते प्रतिहर्यते जातवेदो विचर्षणे ।
अग्ने जनामि सुष्टुतिम् ॥२॥
आरोका इव घेदह तिग्मा अग्ने तव त्विषः ।
दद्भिर्वनानि बप्सति ॥३॥
हरयो धूमकेतवो वातजूता उप द्यवि ।
यतन्ते वृथगग्नयः ॥४॥
एते त्ये वृथगग्नय इद्धासः समदृक्षत ।
उषसामिव केतवः ॥५॥
कृष्णा रजांसि पत्सुतः प्रयाणे जातवेदसः ।
अग्निर्यद्रोधति क्षमि ॥६॥
धासिं कृण्वान ओषधीर्बप्सदग्निर्न वायति ।
पुनर्यन्तरुणीरपि ॥७॥
जिह्वाभिरह नन्नमदर्चिषा जञ्जणाभवन् ।
अग्निर्वनेषु रोचते ॥८॥
अप्स्वग्ने सधिष्टव सौषधीरनु रुध्यसे ।
गर्भे सञ्जायसे पुनः ॥९॥
उदग्ने तव तद्घृतादर्ची रोचत आहुतम् ।
निंसानं जुह्वो मुखे ॥१०॥
उक्षान्नाय वशान्नाय सोमपृष्ठाय वेधसे ।
स्तोमैर्विधेमाग्नये ॥११॥
उत त्वा नमसा वयं होतर्वरेण्यक्रतो ।
अग्ने समिद्भिरीमहे ॥१२॥
उत त्वा भृगुवच्छुचे मनुष्वदग्न आहुत ।
अङ्गिरस्वद्धवामहे ॥१३॥
त्वं ह्यग्ने अग्निना विप्रो विप्रेण सन्सता ।
सखा सख्या समिध्यसे ॥१४॥
स त्वं विप्राय दाशुषे रयिं देहि सहस्रिणम् ।
अग्ने वीरवतीमिषम् ॥१५॥
अग्ने भ्रातः सहस्कृत रोहिदश्व शुचिव्रत ।
इमं स्तोमं जुषस्व मे ॥१६॥
उत त्वाग्ने मम स्तुतो वाश्राय प्रतिहर्यते ।
गोष्ठं गाव इवाशत ॥१७॥
तुभ्यं ता अङ्गिरस्तम विश्वाः सुक्षितयः पृथक् ।
अग्ने कामाय येमिरे ॥१८॥
अग्निं धीभिर्मनीषिणो मेधिरासो विपश्चितः ।
अद्मसद्याय हिन्विरे ॥१९॥
तं त्वामज्मेषु वाजिनं तन्वाना अग्ने अध्वरम् ।
वह्निं होतारमीळते ॥२०॥
पुरुत्रा हि सदृङ्ङसि विशो विश्वा अनु प्रभुः ।
समत्सु त्वा हवामहे ॥२१॥
तमीळिष्व य आहुतोऽग्निर्विभ्राजते घृतैः ।
इमं नः शृणवद्धवम् ॥२२॥
तं त्वा वयं हवामहे शृण्वन्तं जातवेदसम् ।
अग्ने घ्नन्तमप द्विषः ॥२३॥
विशां राजानमद्भुतमध्यक्षं धर्मणामिमम् ।
अग्निमीळे स उ श्रवत् ॥२४॥
अग्निं विश्वायुवेपसं मर्यं न वाजिनं हितम् ।
सप्तिं न वाजयामसि ॥२५॥
घ्नन्मृध्राण्यप द्विषो दहन्रक्षांसि विश्वहा ।
अग्ने तिग्मेन दीदिहि ॥२६॥
यं त्वा जनास इन्धते मनुष्वदङ्गिरस्तम ।
अग्ने स बोधि मे वचः ॥२७॥
यदग्ने दिविजा अस्यप्सुजा वा सहस्कृत ।
तं त्वा गीर्भिर्हवामहे ॥२८॥
तुभ्यं घेत्ते जना इमे विश्वाः सुक्षितयः पृथक् ।
धासिं हिन्वन्त्यत्तवे ॥२९॥
ते घेदग्ने स्वाध्योऽहा विश्वा नृचक्षसः ।
तरन्तः स्याम दुर्गहा ॥३०॥
अग्निं मन्द्रं पुरुप्रियं शीरं पावकशोचिषम् ।
हृद्भिर्मन्द्रेभिरीमहे ॥३१॥
स त्वमग्ने विभावसुः सृजन्सूर्यो न रश्मिभिः ।
शर्धन्तमांसि जिघ्नसे ॥३२॥
तत्ते सहस्व ईमहे दात्रं यन्नोपदस्यति ।
त्वदग्ने वार्यं वसु ॥३३॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP