शारीरस्थान - अध्याय ५
आयुर्वेदातील अष्टांग हृदय प्रसिद्ध ग्रंथ आहे. याचे रचनाकार आहेत, वाग्भट. या ग्रंथाचा रचनाकाल ई.पू.५०० ते ई.पू.२५० मानतात. या ग्रंथात औषधि आणि शल्यचिकित्सा दोन्हींचाही समावेश आहे.
पुष्पं फलस्य धूमो ऽग्नेर् वर्षस्य जल-दोदयः ।
यथा भविष्यतो लिङ्गं रिष्टं मृत्योस् तथा ध्रुवम् ॥१॥
आयुष्-मति क्रियाः सर्वाः स-फलाः संप्रयोजिताः ।
भवन्ति भिषजां भूत्यै कृत-ज्ञ इव भू-भुजि ॥१॥
क्षीणायुषि कृतं कर्म व्यर्थं कृतम् इवाधमे ।
अ-यशो देह-संदेहं स्वार्थ-हानिं च यच्छति ॥१॥
च्व् आयासाद् देह-संदेहं तर्हीदानीं गतासूनां लक्षणं संप्रचक्षते ।
विकृतिः प्रकृतेः प्राज्ञैः प्रदिष्टा रिष्ट-संज्ञया ॥१॥
अव् तद् इदानीं गतासूनां अरिष्टं नास्ति मरणं दृष्ट-रिष्टं च जीवितम् ।
अरिष्टे रिष्ट-विज्ञानं न च रिष्टे ऽप्य् अ-नैपुणात् ॥२॥
के-चित् तु तद् द्वि-धेत्य् आहुः स्थाय्य्-अ-स्थायि-विभेदतः ।
दोषाणाम् अपि बाहुल्याद् रिष्टाभासः समुद्भवेत् ॥३॥
स दोषाणां शमे शाम्येत् स्थाय्य् अवश्यं तु मृत्यवे ।
रूपेन्द्रिय-स्वर-च्छाया-प्रतिच्छाया-क्रियादिषु ॥४॥
५. तद् दोषाणां शमे शाम्येत् अन्येष्व् अपि च भावेषु प्राकृतेष्व् अ-निमित्ततः ।
विकृतिर् या समासेन रिष्टं तद् इति लक्षयेत् ॥५॥
केश-रोम-निर्-अभ्यङ्गं यस्याभ्यक्तम् इवेक्ष्यते ।
यस्यात्य्-अर्थं चले नेत्रे स्तब्धान्तर्-गत-निर्गते ॥६॥
जिह्मे विस्तृत-संक्षिप्ते संक्षिप्त-विनत-भ्रुणी ।
उद्भ्रान्त-दर्शने हीन-दर्शने नकुलोपमे ॥७॥
कपोताभे अलाताभे स्रुते लुलित-पक्ष्मणी ।
नासिकात्य्-अर्थ-विवृता संवृता पिटिकाचिता ॥८॥
उच्छूना स्फुटिता म्लाना यस्यौष्ठो यात्य् अधो ऽधरः ।
ऊर्ध्वं द्वितीयः स्यातां वा पक्व-जम्बू-निभाव् उभौ ॥९॥
दन्ताः स-शर्कराः श्यावास् ताम्राः पुष्पित-पङ्किताः ।
सहसैव पतेयुर् वा जिह्वा जिह्मा विसर्पिणी ॥१०॥
शूना शुष्का गुरुः श्यावा लिप्ता सुप्ता स-कण्टका ।
शिरः शिरो-धरा वोढुं पृष्ठं वा भारम् आत्मनः ॥११॥
हनू वा पिण्डम् आस्य-स्थं शक्नुवन्ति न यस्य च ।
यस्या-निमित्तम् अङ्गानि गुरूण्य् अति-लघूनि वा ॥१२॥
विष-दोषाद् विना यस्य खेभ्यो रक्तं प्रवर्तते ।
उत्सिक्तं मेहनं यस्य वृषणाव् अति-निःसृतौ ॥१३॥
अतो ऽन्य-था वा यस्य स्यात् सर्वे ते काल-चोदिताः ।
यस्या-पूर्वाः सिरा-लेखा बालेन्द्व्-आकृतयो ऽपि वा ॥१४॥
सर्वे ते काल-नोदिताः ललाटे वस्ति-शीर्षे वा षण् मासान् न स जीवति ।
पद्मिनी-पत्त्र-वत् तोयं शरीरे यस्य देहिनः ॥१५॥
प्लवते प्लवमानस्य षण् मासास् तस्य जीवितम् ।
हरिताभाः सिरा यस्य रोम-कूपाश् च संवृताः ॥१६॥
षण्-मासं तस्य जीवितम् षण्-मासात् तस्य जीवितम् षण् मासांस् तस्य जीवितम् सो ऽम्लाभिलाषी पुरुषः पित्तान् मरणम् अश्नुते ।
यस्य गो-मय-चूर्णाभं चूर्णं मूर्ध्नि मुखे ऽपि वा ॥१७॥
स-स्नेहं मूर्ध्नि धूमो वा मासान्तं तस्य जीवितम् ।
मूर्ध्नि भ्रुवोर् वा कुर्वन्ति सीमन्तावर्तका नवाः ॥१८॥
मूर्ध्नि भ्रुवोर् वा यस्य स्युः मृत्युं स्वस्थस्य षड्-रात्रात् त्रि-रात्राद् आतुरस्य तु ।
जिह्वा श्यावा मुखं पूति सव्यम् अक्षि निमज्जति ॥१९॥
त्रि-रात्राद् आतुरस्य च खगा वा मूर्ध्नि लीयन्ते यस्य तं परिवर्जयेत् ।
यस्य स्नातानुलिप्तस्य पूर्वं शुष्यत्य् उरो भृशम् ॥२०॥
आर्द्रेषु सर्व-गात्रेषु सो ऽर्ध-मासं न जीवति ।
अ-कस्माद् युग-पद् गात्रे वर्णौ प्राकृत-वैकृतौ ॥२१॥
तथैवोपचय-ग्लानि-रौक्ष्य-स्नेहादि मृत्यवे ।
यस्य स्फुटेयुर् अङ्गुल्यो नाकृष्टा न स जीवति ॥२२॥
क्षव-कासादिषु तथा यस्या-पूर्वो ध्वनिर् भवेत् ।
ह्रस्वो दीर्घो ऽति वोच्छ्वासः पूतिः सुरभिर् एव वा ॥२३॥
आप्लुतान्-आप्लुते काये यस्य गन्धो ऽति-मानुषः ।
मल-वस्त्र-व्रणादौ वा वर्षान्तं तस्य जीवितम् ॥२४॥
मल-वस्त्र-व्रणाद्ये वा भजन्ते ऽत्य्-अङ्ग-सौरस्याद् यं यूका-मक्षिकादयः ।
त्यजन्ति वाति-वैरस्यात् सो ऽपि वर्षं न जीवति ॥२५॥
सततोष्मसु गात्रेषु शैत्यं यस्योपलक्ष्यते ।
शीतेषु भृशम् औष्ण्यं वा स्वेदः स्तम्भो ऽप्य् अ-हेतुकः ॥२६॥
स्वेदः स्तम्भो ऽत्य् अ-हेतुकः यो जात-शीत-पिटिकः शीताङ्गो वा विदह्यते ।
उष्ण-द्वेषी च शितार्तः स प्रेताधिप-गो-चरः ॥२७॥
शीताङ्गो वातिदह्यते शीताङ्गो वापि दह्यते उरस्य् ऊष्मा भवेद् यस्य जठरे चाति-शीत-ता ।
भिन्नं पुरीषं तृष्णा च यथा प्रेतस् तथैव सः ॥२८॥
जठरे वाति-शीत-ता मूत्रं पुरीषं निष्ठ्यूतं शुक्रं वाप्सु निमज्जति ।
निष्ठ्यूतं बहु-वर्णं वा यस्य मासात् स नश्यति ॥२९॥
घनी-भूतम् इवाकाशम् आकाशम् इव यो घनम् ।
अ-मूर्तम् इव मूर्तं च मूर्तं चा-मूर्त-वत् स्थितम् ॥३०॥
तेजस्व्य् अ-तेजस् तद्-वच् च शुक्लं कृष्णम् अ-सच् च सत् ।
अ-नेत्र-रोगश् चन्द्रं च बहु-रूपम् अ-लाञ्छनम् ॥३१॥
तेजस्य् अ-तेजस् तद्-वच् च अ-नेत्र-रोगी चन्द्रं च जाग्रद् रक्षांसि गन्धर्वान् प्रेतान् अन्यांश् च तद्-विधान् ।
रूपं व्य्-आकृति तत् तच् च यः पश्यति स नश्यति ॥३२॥
रूपं व्य्-आकृति तद्-वच् च सप्तर्षीणां समीप-स्थां यो न पश्यत्य् अरुन्धतीम् ।
ध्रुवम् आकाश-गङ्गां वा स न पश्यति तां समाम् ॥३३॥
मेघ-तोयौघ-निर्घोष-वीणा-पणव-वेणु-जान् ।
शृणोत्य् अन्यांश् च यः शब्दान् अ-सतो न सतो ऽपि वा ॥३४॥
निष्पीड्य कर्णौ शृणुयान् न यो धुकधुका-स्वनम् ।
तद्-वद् गन्ध-रस-स्पर्शान् मन्यते यो विपर्ययात् ॥३५॥
न यो धुकधुक-स्वनम् सर्व-शो वा न यो यश् च दीप-गन्धं न जिघ्रति ।
विधिना यस्य दोषाय स्वास्थ्याया-विधिना रसाः ॥३६॥
यः पांसुनेव कीर्णाङ्गो यो ऽङ्गे घातं न वेत्ति वा ।
अन्तरेण तपस् तीव्रं योगं वा विधि-पूर्वकम् ॥३७॥
यो भस्मनेव कीर्णाङ्गो जानात्य् अतीन्द्रियं यश् च तेषां मरणम् आदिशेत् ।
हीनो दीनः स्वरो ऽ-व्यक्तो यस्य स्याद् गद्गदो ऽपि वा ॥३८॥
सहसा यो विमुह्येद् वा विवक्षुर् न स जीवति ।
स्वरस्य दुर्-बली-भावं हानिं च बल-वर्णयोः ॥३९॥
रोग-वृद्धिम् अ-युक्त्या च दृष्ट्वा मरणम् आदिशेत् ।
अप-स्वरं भाषमाणं प्राप्तं मरणम् आत्मनः ॥४०॥
श्रोतारं चास्य शब्दस्य दूरतः परिवर्जयेत् ।
संस्थानेन प्रमाणेन वर्णेन प्रभयापि वा ॥४१॥
श्रोतारं तस्य शब्दस्य श्रोतारं वास्य शब्दस्य छाया विवर्तते यस्य स्वप्ने ऽपि प्रेत एव सः ।
आतपादर्श-तोयादौ या संस्थान-प्रमाणतः ॥४२॥
छायाङ्गात् संभवत्य् उक्ता प्रतिच्छायेति सा पुनः ।
वर्ण-प्रभाश्रया या तु सा छायैव शरीर-गा ॥४३॥
भवेद् यस्य प्रतिच्छाया छिन्ना भिन्नाधिकाकुला ।
वि-शिरा द्वि-शिरा जिह्मा विकृता यदि वान्य-था ॥४४॥
तं समाप्तायुषं विद्यान् न चेल् लक्ष्य-निमित्त-जा ।
प्रतिच्छाया-मयी यस्य न चाक्ष्णीक्ष्येत कन्यका ॥४५॥
खादीनां पञ्च पञ्चानां छाया विविध-लक्षणाः ।
नाभसी निर्-मला-नीला स-स्नेहा स-प्रभेव च ॥४६॥
वाताद् रजो-ऽरुणा श्यावा भस्म-रूक्षा हत-प्रभा ।
विशुद्ध-रक्ता त्व् आग्नेयी दीप्ताभा दर्शन-प्रिया ॥४७॥
शुद्ध-वैडूर्य-वि-मला सु-स्निग्धा तोय-जा सुखा ।
स्थिरा स्निग्धा घना शुद्धा श्यामा श्वेता च पार्थिवी ॥४८॥
सु-स्निग्धा तोय-जा हि सा वायवी रोग-मरण-क्लेशायान्याः सुखोदयाः ।
प्रभोक्ता तैजसी सर्वा सा तु सप्त-विधा स्मृता ॥४९॥
वायव्या रोग-मरण- रक्ता पीता सिता श्यावा हरिता पाण्डुरासिता ।
तासां याः स्युर् विकासिन्यः स्निग्धाश् च वि-मलाश् च याः ॥५०॥
रक्ता पीता सिता श्यामा ताः शुभा मलिना रूक्षाः संक्षिप्ताश् चा-शुभोदयाः ।
वर्णम् आक्रामति च्छाया प्रभा वर्ण-प्रकाशिनी ॥५१॥
संक्षिप्ताश् चा-सुखोदयाः प्रभा वर्ण-विकाशिनी आसन्ने लक्ष्यते छाया विकृष्टे भा प्रकाशते ।
ना-च्छायो ना-प्रभः कश्-चिद् विशेषाश् चिह्नयन्ति तु ॥५२॥
नृणां शुभा-शुभोत्पत्तिं काले छाया-समाश्रयाः ।
निकषन्न् इव यः पादौ च्युतांसः परिसर्पति ॥५३॥
काले छाया-समाश्रिताः हीयते बलतः शश्वद् यो ऽन्नम् अश्नन् हितं बहु ।
यो ऽल्पाशी बहु-विण्-मूत्रो बह्व्-आशी चाल्प-मूत्र-विट् ॥५४॥
बह्व्-आशी वाल्प-मूत्र-विट् यो वाल्पाशी कफेनार्तो दीर्घं श्वसिति चेष्टते ।
दीर्घम् उच्छ्वस्य यो ह्रस्वं निःश्वस्य परिताम्यति ॥५५॥
ह्रस्वं च यः प्रश्वसिति व्याविद्धं स्पन्दते भृशम् ।
शिरो विक्षिपते कृच्छ्राद् यो ऽञ्चयित्वा प्रपाणिकौ ॥५६॥
यो ललाटात् स्रुत-स्वेदः श्लथ-संधान-बन्धनः ।
उत्थाप्यमानः संमुह्येद् यो बली दुर्-बलो ऽपि वा ॥५७॥
उत्तान एव स्वपिति यः पादौ विकरोति च ।
शयनासन-कुड्यादेर् यो ऽ-सद् एव जिघृक्षति ॥५८॥
शयनासन-कुड्यादौ यः सदैव जिघृक्षति अ-हास्य-हासी संमुह्यन् यो लेढि दशन-च्छदौ ।
उत्तरौष्ठं परिलिहन् फूत्-कारांश् च करोति यः ॥५९॥
नोत्कारांश् च करोति यः यम् अभिद्रवति च्छाया कृष्णा पीतारुणापि वा ।
भिषग्-भेषज-पानान्न-गुरु-मित्र-द्विषश् च ये ॥६०॥
५.६ कृष्णा पीतारुणापि च वश-गाः सर्व एवैते विज्ञेयाः सम-वर्तिनः ।
ग्रीवा-ललाट-हृदयं यस्य स्विद्यति शीतलम् ॥६१॥
उष्णो ऽपरः प्रदेशश् च शरणं तस्य देवताः ।
यो ऽणु-ज्योतिर् अनेकाग्रो दुश्-छायो दुर्-मनाः सदा ॥६२॥
पूर्व-रूपाणि सर्वाणि ज्वरादिष्व् अति-मात्रया ।
यं विशन्ति विशत्य् एनं मृत्युर् ज्वर-पुरः-सरः ॥६१॥
बलिं बलि-भृतो यस्य प्रणीतं नोपभुञ्जते ।
निर्-निमित्तं च यो मेधां शोभाम् उपचयं श्रियम् ॥६३॥
५.६ बलिं बलि-भुजो यस्य प्राप्नोत्य् अतो वा विभ्रंशं स प्राप्नोति यम-क्षयम् ।
गुण-दोष-मयी यस्य स्वस्थस्य व्याधितस्य वा ॥६४॥
५.६ गुणा-गुण-मयी यस्य यात्य् अन्य-था-त्वं प्रकृतिः षण् मासान् न स जीवति ।
भक्तिः शीलं स्मृतिस् त्यागो बुद्धिर् बलम् अ-हेतुकम् ॥६५॥
षड् एतानि निवर्तन्ते षड्भिर् मासैर् मरिष्यतः ।
मत्त-वद्-गति-वाक्-कम्प-मोहा मासान् मरिष्यतः ॥६६॥
नश्यत्य् अ-जानन् षड्-अहात् केश-लुञ्चन-वेदनाम् ।
न याति यस्य चाहारः कण्ठं कण्ठामयाद् ऋते ॥६७॥
प्रेष्याः प्रतीप-तां यान्ति प्रेताकृतिर् उदीर्यते ।
यस्य निद्रा भवेन् नित्या नैव वा न स जीवति ॥६८॥
५.६ यस्य निद्रा भवेन् नित्यं वक्त्रम् आपूर्यते ऽश्रूणां स्विद्यतश् चरणौ भृशम् ।
चक्षुश् चाकुल-तां याति यम-राज्यं गमिष्यतः ॥६९॥
५.६ यम-राष्ट्रं गमिष्यतः यैः पुरा रमते भावैर् अ-रतिस् तैर् न जीवति ।
सहसा जायते यस्य विकारः सर्व-लक्षणः ॥७०॥
निवर्तते वा सहसा सहसा स विनश्यति ।
ज्वरो निहन्ति बल-वान् गम्भीरो दैर्घरात्रिकः ॥७१॥
स-प्रलाप-भ्रम-श्वासः क्षीणं शूनं हतानलम् ।
अ-क्षामं सक्त-वचनं रक्ताक्षं हृदि शूलिनम् ॥७२॥
स-शुष्क-कासः पूर्वाह्णे यो ऽपराह्णे ऽपि वा भवेत् ।
बल-मांस-विहीनस्य श्लेष्म-कास-समन्वितः ॥७३॥
५.७ संशुष्क-कासः पूर्वाह्णे रक्त-पित्तं भृशं रक्तं कृष्णम् इन्द्र-धनुष्-प्रभम् ।
ताम्र-हारिद्र-हरितं रूपं रक्तं प्रदर्शयेत् ॥७४॥
रोम-कूप-प्रविसृतं कण्ठास्य-हृदये सजत् ।
वाससो ऽ-रञ्जनं पूति वेग-वच् चाति भूरि च ॥७५॥
५.७ वाससो रञ्जनं पूति वृद्धं पाण्डु-ज्वर-च्छर्दि-कास-शोफातिसारिणम् ।
कास-श्वासौ ज्वर-च्छर्दि-तृष्णातीसार-शोफिनम् ॥७६॥
यक्ष्मा पार्श्व-रुजानाह-रक्त-च्छर्द्य्-अंस-तापिनम् ।
छर्दिर् वेग-वती मूत्र-शकृद्-गन्धिः स-चन्द्रिका ॥७७॥
५.७रक्त-च्छर्द्य्-अङ्ग-तापिनम् सास्र-विट्-पूय-रुक्-कास-श्वास-वत्य् अनुषङ्गिणी ।
तृष्णान्य-रोग-क्षपितं बहिर्-जिह्वं वि-चेतनम् ॥७८॥
५.७ बहिर्-जिह्वम् अ-चेतनम् ५.७ बहिर्-जिह्वं वि-चेतसम् मदात्ययो ऽति-शीतार्तं क्षीणं तैल-प्रभाननम् ।
अर्शांसि पाणि-पन्-नाभि-गुद-मुष्कास्य-शोफिनम् ॥७९॥
५.७गुद-मुष्कादि-शोफिनम् हृत्-पार्श्वाङ्ग-रुजा-छर्दि-पायु-पाक-ज्वरातुरम् ।
अतीसारो यकृत्-पिण्ड-मांस-धावन-मेचकैः ॥८०॥
तुल्यस् तैल-घृत-क्षीर-दधि-मज्ज-वसासवैः ।
मस्तुलुङ्ग-मषी-पूय-वेसवाराम्बु-माक्षिकैः ॥८१॥
अति-रक्तासित-स्निग्ध-पूत्य्-अच्छ-घन-वेदनः ।
कर्बुरः प्रस्रवन् धातून् निष्-पुरीषो ऽथ-वाति-विट् ॥८२॥
तन्तु-मान् मक्षिकाक्रान्तो राजी-मांश् चन्द्रकैर् युतः ।
शीर्ण-पायु-वलिं मुक्त-नालं पर्वास्थि-शूलिनम् ॥८३॥
५.८तालं पर्वास्थि-शूलिनम् ५.८ताडं पर्वास्थि-शूलिनम् स्रस्त-पायुं बल-क्षीणम् अन्नम् एवोपवेशयन् ।
स-तृट्-श्वास-ज्वर-च्छर्दि-दाहानाह-प्रवाहिकः ॥८४॥
५.८ अन्नम् एवोपवेशयेत् अश्मरी शून-वृषणं बद्ध-मूत्रं रुजार्दितम् ।
मेहस् तृड्-दाह-पिटिका-मांस-कोथातिसारिणम् ॥८५॥
पिटिका मर्म-हृत्-पृष्ठ-स्तनांस-गुद-मूर्ध-गाः ।
पर्व-पाद-कर-स्था वा मन्दोत्साहं प्रमेहिणम् ॥८६॥
५.८स्तनांस-गुद-मूर्ध-जाः ५.८ पर्व-पाद-कर-स्थाश् च सर्वं च मांस-संकोथ-दाह-तृष्णा-मद-ज्वरैः ।
विसर्प-मर्म-संरोध-हिध्मा-श्वास-भ्रम-क्लमैः ॥८७॥
५.८ सर्वं च मांस-संकोच- गुल्मः पृथु-परीणाहो घनः कूर्म इवोन्नतः ।
सिरा-नद्धो ज्वर-च्छर्दि-हिध्माध्मान-रुजान्वितः ॥८८॥
कास-पीनस-हृल्-लास-श्वासातीसार-शोफ-वान् ।
विण्-मूत्र-संग्रह-श्वास-शोफ-हिध्मा-ज्वर-भ्रमैः ॥८९॥
मूर्छा-छर्द्य्-अतिसारैश् च जठरं हन्ति दुर्-बलम् ।
शूनाक्षं कुटिलोपस्थम् उपक्लिन्न-तनु-त्वचम् ॥९०॥
विरेचन-हृतानाहम् आनह्यन्तं पुनः पुनः ।
पाण्डु-रोगः श्वयथु-मान् पीताक्षि-नख-दर्शनम् ॥९१॥
५.९ विरेचन-हतानाहम् तन्द्रा-दाहा-रुचि-च्छर्दि-मूर्छाध्मानातिसार-वान् ।
अनेकोपद्रव-युतः पादाभ्यां प्रसृतो नरम् ॥९२॥
नारीं शोफो मुखाद् धन्ति कुक्षि-गुह्याद् उभाव् अपि ।
राजी-चितः स्रवंश् छर्दि-ज्वर-श्वासातिसारिणम् ॥९३॥
ज्वरातीसारौ शोफान्ते श्वयथुर् वा तयोः क्षये ।
दुर्-बलस्य विशेषेण जायन्ते ऽन्ताय देहिनः ॥९४॥
श्वयथुर् यस्य पाद-स्थः परिस्रस्ते च पिण्डिके ।
सीदतः सक्थिनी चैव तं भिषक् परिवर्जयेत् ॥९५॥
आननं हस्त-पादं च विशेषाद् यस्य शुष्यतः ।
शूयेते वा विना देहात् स मासाद् याति पञ्च-ताम् ॥९६॥
५.९ विशेषाद् यस्य शुष्यति विसर्पः कास-वैवर्ण्य-ज्वर-मूर्छाङ्ग-भङ्ग-वान् ।
भ्रमास्य-शोफ-हृल्-लास-देह-सादातिसार-वान् ॥९७॥
५.९ भ्रमास्य-शोष-हृल्-लास- कुष्ठं विशीर्यमाणाङ्गं रक्त-नेत्रं हत-स्वरम् ।
मन्दाग्निं जन्तुभिर् जुष्टं हन्ति तृष्णातिसारिणम् ॥९८॥
वायुः सुप्त-त्वचं भुग्नं कम्प-शोफ-रुजातुरम् ।
वातास्रं मोह-मूर्छाय-मदा-स्वप्न-ज्वरान्वितम् ॥९९॥
५.९ वायुः सुप्त-त्वचं भग्नं शिरो-ग्रहा-रुचि-श्वास-संकोच-स्फोट-कोथ-वत् ।
शिरो-रोगा-रुचि-श्वास-मोह-विड्-भेद-तृड्-भ्रमैः ॥१००॥
घ्नन्ति सर्वामयाः क्षीण-स्वर-धातु-बलानलम् ।
वात-व्याधिर् अपस्मारी कुष्ठी रक्त्य् उदरी क्षयी ॥१०१॥
गुल्मी मेही च तान् क्षीणान् विकारे ऽल्पे ऽपि वर्जयेत् ।
बल-मांस-क्षयस् तीव्रो रोग-वृद्धिर् अ-रोचकः ॥१०२॥
यस्यातुरस्य लक्ष्यन्ते त्रीन् पक्षान् न स जीवति ।
वाताष्ठीलाति-संवृद्धा तिष्ठन्ति दारुणा हृदि ॥१०३॥
तृष्णयानुपरीतस्य सद्यो मुष्णाति जीवितम् ।
शैथिल्यं पिण्डिके वायुर् नीत्वा नासां च जिह्म-ताम् ॥१०४॥
५.१० तृष्णया तु परीतस्य क्षीणस्यायम्य मन्ये वा सद्यो मुष्णाति जीवितम् ।
नाभि-गुदान्तरं गत्वा वङ्क्षणौ वा समाश्रयन् ॥१०५॥
५.१० क्षीणस्यायस्य मन्ये वा गृहीत्वा पायु-हृदये क्षीण-देहस्य वा बली ।
मलान् वस्ति-शिरो नाभिं विबध्य जनयन् रुजम् ॥१०६॥
कुर्वन् वङ्क्षणयोः शूलं तृष्णां भिन्न-पुरीष-ताम् ।
श्वासं वा जनयन् वायुर् गृहीत्वा गुद-वङ्क्षणम् ॥१०७॥
५.१० गृहीत्वा गुद-वङ्क्षणौ वितत्य पर्शुकाग्राणि गृहीत्वोरश् च मारुतः ।
स्तिमितस्यातताक्षस्य सद्यो मुष्णाति जीवितम् ॥१०८॥
५.१० वितत्य पार्श्वकाग्राणि सहसा ज्वर-संतापस् तृष्णा मूर्छा बल-क्षयः ।
विश्लेषणं च संधीनां मुमूर्षोर् उपजायते ॥१०९॥
गो-सर्गे वदनाद् यस्य स्वेदः प्रच्यवते भृशम् ।
लेप-ज्वरोपतप्तस्य दुर्-लभं तस्य जीवितम् ॥११०॥
प्रवाल-गुटिकाभासा यस्य गात्रे मसूरिकाः ।
उत्पद्याशु विनश्यन्ति न चिरात् स विनश्यति ॥१११॥
मसूर-विदल-प्रख्यास् तथा विद्रुम-संनिभाः ।
अन्तर्-वक्त्राः किणाभाश् च विस्फोटा देह-नाशनाः ॥११२॥
कामलाक्ष्णोर् मुखं पूर्णं शङ्खयोर् मुक्त-मांस-ता ।
संत्रासश् चोष्ण-ताङ्गे च यस्य तं परिवर्जयेत् ॥११३॥
अ-कस्माद् अनुधावच् च विघृष्टं त्वक्-समाश्रयम् ।
यो वात-जो न शूलाय स्यान् न दाहाय पित्त-जः ॥११४॥
चन्दनोशीर-मदिरा-कुणप-ध्वाङ्क्ष-गन्धयः ।
शैवाल-कुक्कुट-शिखा-कुङ्कुमाल-मषी-प्रभाः ॥११४.१॥
५.१द्व् -नक्तमाल-मषी-प्रभाः ५.१द्व् -कुन्द-शालि-मय-प्रभाः अन्तर्-दाहा निर्-ऊष्मणः प्राण-नाश-करा व्रणाः ॥११४.१॥
कफ-जो न च पूयाय मर्म-जश् च रुजे न यः ।
अ-चूर्णश् चूर्ण-कीर्णाभो यत्राकस्माच् च दृश्यते ॥११५॥
रूपं शक्ति-ध्वजादीनां सर्वांस् तान् वर्जयेद् व्रणान् ।
विण्-मूत्र-मारुत-वहं कृमिणं च भगन्दरम् ॥११६॥
घट्टयञ् जानुना जानु पादाव् उद्यम्य पातयन् ।
यो ऽपास्यति मुहुर् वक्त्रम् आतुरो न स जीवति ॥११७॥
दन्तैश् छिन्दन् नखाग्राणि तैश् च केशांस् तृणानि च ।
भूमिं काष्ठेन विलिखन् लोष्टं लोष्टेन ताडयन् ॥११८॥
५.११ तैश् च केशांस् तृणानि वा हृष्ट-रोमा सान्द्र-मूत्रः शुष्क-कासी ज्वरी च यः ।
मुहुर् हसन् मुहुः क्ष्वेडन् शय्यां पादेन हन्ति यः ॥११९॥
५.११ शय्यां पादेन हन्ति च मुहुश् छिद्राणि विमृशन्न् आतुरो न स जीवति ।
मृत्यवे सहसार्तस्य तिलक-व्यङ्ग-विप्लवः ॥१२०॥
मुखे दन्त-नखे पुष्पं जठरे विविधाः सिराः ।
ऊर्ध्व-श्वासं गतोष्माणं शूलोपहत-वङ्क्षणम् ॥१२१॥
शर्म चान्-अधिगच्छन्तं बुद्धि-मान् परिवर्जयेत् ।
विकारा यस्य वर्धन्ते प्रकृतिः परिहीयते ॥१२२॥
५.१२ शर्म वान्-अधिगच्छन्तं सहसा सहसा तस्य मृत्युर् हरति जीवितम् ।
यम् उद्दिश्यातुरं वैद्यः संपादयितुम् औषधम् ॥१२३॥
यतमानो न शक्नोति दुर्-लभं तस्य जीवितम् ।
विज्ञातं बहु-शः सिद्धं विधि-वच् चावचारितम् ॥१२४॥
न सिध्यत्य् औषधं यस्य नास्ति तस्य चिकित्सितम् ।
भवेद् यस्यौषधे ऽन्ने वा कल्प्यमाने विपर्ययः ॥१२५॥
अ-कस्माद् वर्ण-गन्धादेः स्वस्थो ऽपि न स जीवति ।
निवाते सेन्धनं यस्य ज्योतिश् चाप्य् उपशाम्यति ॥१२६॥
आतुरस्य गृहे यस्य भिद्यन्ते वा पतन्ति वा ।
अति-मात्रम् अमत्राणि दुर्-लभं तस्य जीवितम् ॥१२७॥
यं नरं सहसा रोगो दुर्-बलं परिमुञ्चति ।
संशय-प्राप्तम् आत्रेयो जीवितं तस्य मन्यते ॥१२८॥
५.१२ संशयं प्राप्तम् आत्रेयो कथयेन् न च पृष्टो ऽपि दुः-श्रवं मरणं भिषक् ।
गतासोर् बन्धु-मित्राणां न चेच्छेत् तं चिकित्सितुम् ॥१२९॥
५.१२ कथयेन् नैव पृष्टो ऽपि यम-दूत-पिशाचाद्यैर् यत् परासुर् उपास्यते ।
घ्नद्भिर् औषध-वीर्याणि तस्मात् तं परिवर्जयेत् ॥१३०॥
आयुर्-वेद-फलं कृत्स्नं यद् आयुर्-ज्ञे प्रतिष्ठितम् ।
रिष्ट-ज्ञानादृतस् तस्मात् सर्व-दैव भवेद् भिषक् ॥१३१॥
मरणं प्राणिनां दृष्टम् आयुः-पुण्योभय-क्षयात् ।
तयोर् अप्य् अ-क्षयाद् दृष्टं विषमा-परिहारिणाम् ॥१३२॥
N/A
References : N/A
Last Updated : June 24, 2015
TOP