प्रथमः अध्यायः - प्रथमम् आह्निकम्
शब्द, अनुमान, प्रत्यक्ष, आणि उपमान रूप हे न्यायसूत्राचे प्रसिद्ध चार भाग आहेत.
(अनुबन्धचतुष्टयप्रकरणम्]
१.१ - प्रमाण-प्रमेय-संशय-प्रयोजन-दृष्टान्त-सिद्धान्तावयव-तर्क-निर्णय-वाद-जल्प-वितण्डाहेत्वाभास-च्छल-जाति-निग्रहस्थानानाम्तत्त्वज्ञानात् निःश्रेयसाधिगमः
(पदार्थोद्देशसूत्रम्)
१.२ - दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानाम् उत्तरोत्तरापाये तदनन्तरा पायात् अपवर्गः
(पदार्थोद्देशसूत्रम्)
(प्रमाणप्रकरणम्]
१.३ - प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानि
(प्रमाण-उद्देश-सूत्रम्)
१.४ - इन्द्रियार्थसन्निकर्षोत्पन्नम् ज्ञानम् अव्यपदेश्यम् अव्यभिचारि व्यवसायात्मकम् प्रत्यक्षम्
(प्रत्यक्षलक्षणम्)
१.५ - अथ तत्पूर्वकं त्रिविधम् अनुमानं पूर्ववत् शेषवत् सामान्यतोदृष्टं च
(अनुमानलक्षणम्)
१.६ - प्रसिद्धसाधर्म्यात् साध्यसाधनम् उपमानम्
(उपमानलक्षणम्)
१.७ - आप्तोपदेशः शब्दः
(शब्दलक्षणम्)
१.८ - सः द्विविधः दृष्टादृष्टार्थत्वात्
(शब्दभेदः)
(प्रमेयप्रकरणम्]
१.९ - आत्मशरीरेन्द्रियार्थबुद्धिमनःप्रवृत्तिदोषप्रेत्यभावफलदुःखापवर्गाः तु प्रमेयम्
(प्रमेय-उद्देश-सूत्रम्)
१.१० - इच्छाद्वेषप्रयत्नसुखदुःखज्ञानानि आत्मनः लिङ्गम् इति
(आत्मलक्षणम्)
१.११ - चेष्टेन्द्रियार्थाश्रयः शरीरम्
(शरीरलक्षणम्)
१.१२ - घ्राणरसनचक्षुस्त्वक्श्रोत्राणि इन्द्रियाणि भूतेभ्यः
(इन्द्रियलक्षणम्)
१.१३ - पृथिवी आपः तेजः वायुः आकाशम् इति भूतानि
(भूतलक्षणम्)
१.१४ - गन्धरसरूपस्पर्शशब्दाः पृथिव्यादिगुणाः तदर्थाः
(अर्थ(विषय)लक्षणम्)
१.१५ - बुद्धिः उपलब्धिः ज्ञानम् इति अनर्थान्तरम्
(बुद्धिलक्षणम्)
१.१६ - युगपत् ज्ञानानुत्पत्तिः मनसः लिङ्गम्
(मनोलक्षणम्)
१.१७ - प्रवृत्तिः वाग्बुद्धिशरीरारम्भः
(प्रवृत्तिलक्षणम्)
१.१८ - प्रवर्त्तनालक्षणाः दोषाः
(दोषलक्षणम्)
१.१९ - पुनरुत्पत्तिः प्रेत्यभावः
(प्रेत्यभावलक्षणम्)
१.२० - प्रवृत्तिदोषजनितः अर्थः फलम्
(फललक्षणम्)
१.२१ - बाधनालक्षणम् दुःखम्
(दुःखलक्षणम्)
१.२२ - तदत्यन्तविमोक्षः अपवर्गः
(अपवर्गलक्षणम्)
(न्यायपूर्वाङ्गलक्षणप्रकरणम्]
१.२३ - समानानेकधर्मोपपत्तेः विप्रतिपत्तेः उपलब्ध्यनुपलब्ध्यव्यवस्थातः च विशेषापेक्षः विमर्शः संशयः
(संशयलक्षणम्)
१.२४ - यम् अर्थम् अधिकृत्य प्रवर्तते तत् प्रयोजनम्
(प्रयोजनलक्षणम्)
१.२५ - लौकिकपरीक्षकाणां यस्मिन् अर्थे बुद्धिसाम्यम् सः दृष्टान्तः
(दृष्टान्तलक्षणम्)
(न्यायाश्रयसिद्धान्तलक्षणप्रकरणम्]
१.२६ - तन्त्राधिकरणाभ्युपगमसंस्थितिः सिद्धान्तः
(अभ्युपगमसिद्धान्तलक्षणम्)
१.२७ - सः चतुर्विधः सर्वतन्त्रप्रतितन्त्राधिकरणाभ्युपगमसंस्थित्यर्थान्तरभावात्
(तन्त्रभेद-उद्देशसूत्रम्)
१.२८ - सर्वतन्त्राविरुद्धः तन्त्रे अधिकृतः अर्थः सर्वतन्त्रसिद्धान्तः
(सर्वतन्त्रसिद्धान्त-लक्षणम्)
१.२९ - समानतन्त्रसिद्धः परतन्त्रासिद्धः प्रतितन्त्रसिद्धान्तः
(प्रतितन्त्रसिद्धान्त-लक्षणम्)
१.३० - यत्सिद्धौ अन्यप्रकरणसिद्धिः सः अधिकरणसिद्धान्तः
(अधिकरणसिद्धान्त-लक्षणम्)
१.३१ - अपरीक्षिताभ्युपगमात् तद्विशेषपरीक्षणम् अभ्युपगमसिद्धान्तः
(अभ्युपगमसिद्धान्त-लक्षणम्)
(न्यायप्रकरणम्]
१.३२ - प्रतिज्ञाहेतूदाहरणोपनयनिगमनानि अवयवाः
(अवयव-उद्देशसूत्रम्)
१.३३ - साध्यनिर्देशः प्रतिज्ञा
(प्रतिज्ञा-लक्षणम्)
१.३४ - उदाहरणसाधर्म्यात् साध्यसाधनं हेतुः
(हेतु-लक्षणम्)
१.३५ - तथा वैधर्म्यात्
(हेतु-लक्षणम्)
१.३६ - साध्यसाधर्म्यात् तद्धर्मभावी दृष्टान्तः उदाहरणम्
(उदाहरण-लक्षणम्)
१.३७ - तद्विपर्ययात् वा विपरीतम्
(उदाहरण-लक्षणम्)
१.३८ - उदाहरणापेक्षः तथा इति उपसंहारः न तथा इति वा साध्यस्य उपनयः
(उपनय-लक्षणम्)
१.३९ - हेत्वपदेशात् प्रतिज्ञायाः पुनर्वचनम् निगमनम्
(निगमन-लक्षणम्)
(न्यायोत्तराङ्गप्रकरणम्]
१.४० - अविज्ञाततत्वे अर्थे कारणोपपत्तितः तत्त्वज्ञानार्थम् उहः तर्कः
(तर्क-लक्षणम्)
१.४१ - विमृश्य पक्षप्रतिपक्षाभ्याम् अर्थावधारणम् निर्णयः
(निर्णय-लक्षणम्)
इति न्यायसूत्रे प्रथमाध्यायस्य प्रथमम् आह्निकम्
N/A
References : N/A
Last Updated : November 11, 2016
TOP