प्रसन्न काण्ड: - सर्ग १०

`भट्टिकाव्यं' हे संस्कृत भाषेतील एक उत्कृष्ट काव्य आहे.


११०-१ "दूतमेकं कपिं बद्धमानीतं वेश्म पश्यतः
११०-२ लोक-त्रय-पतेः क्रोधः कथं तृण-लघुस् तव.
१११-१ अग्न्याहित-जन-प्रह्वे विजिगीषा-पराङ्मुखे.
१११-२ कस्माद् वा नीति-निष्णस्य संरम्भस् तव तापसे.
११२-१ न सर्व-रात्र-कल्यान्यः स्त्रियो वा रत्न-भूमयः
११२-२ यं विनिर्जित्य लभ्यन्ते, कः कुर्यात् तेन विग्रहम्.
११३-१ संगच्छ राम-सुग्रीवौ भुवनस्य समृद्धये
११३-२ रत्न-पूर्णाविवा ऽम्भोधी हिमवान् पूर्व-पश्चिमौ.
११४-१ सुहृदौ राम-सुग्रीवौ, किंकराः कपि-यूथ-पाः,
११४-२ पर-दाराऽर्पणेनैव-लभ्यन्ते, मुञ्च मैथिलीम्.
११५-१ धर्मं प्रत्यर्पयन् सीतामर्थं रामेण मित्रताम्
११५-२ कामं विश्वास-वासेन सीतां दत्त्वा ऽऽप्नुहि त्रयम्.
११६-१ विराध-ताडका-वालि-कबन्ध-खर-दूषणैः
११६-२ न च न ज्ञापितो यादृड् मारीचेना ऽपि ते रिपुः
११७-१ खराऽऽदि-निधनं चा ऽपि मा मंस्था वैर-कारणम्,
११७-२ आत्मानं रक्षितुं यस्मात् कृतं तन् न जिगीषया".
११८-१ ततः क्रोधाऽनिलाऽऽपात- कम्प्राऽऽस्याऽम्भोज-संहतिः
११८-२ महा-ह्रद इव क्षुभ्यन् कपिमाह स्म रावणः.
११९-१ "हत-राक्षस-योधस्य विरुग्णोद्यान-शाखिनः
११९-२ दूतोऽस्मीति ब्रुवाणस्य किं ? दूत-सदृशं तव.
१२०-१ पङ्गु-बाल-स्त्रियो निघ्नन् कबन्ध खर-ताडकाः
१२०-२ तपस्वी यदि काकुत्स्थः, कीदृक् ? कथय पातकी.
१२१-१ अभिमान-फलं जानन् महत्त्वं कथमुक्तवान्
१२१-२ रत्नाऽऽदि-लाभ-शून्य-त्वान् निष्फलं राम-विग्रहम्
१२२-१ पर-स्त्री-भोग-हरणं धर्म एव नराऽशिनाम्,
१२२-२ मुखमस्तीत्यभाषिष्ठाः, का ? मेसाऽऽशङ्कता त्वयि.
१२३-१ ब्रूहि दूर-विभिन्नानामृद्धि-शील-क्रियाऽन्वयैः.
१२३-२ हनूमन् ! कीदृशं ? सख्यं नर-वानर-रक्षसाम्.
१२४-१ एको द्वाभ्यां विराधस् तु जिताभ्याम-विवक्षितः
१२४-२ हतश् छलेन मूढोऽयं, तेना ऽपि तव कः ? स्मयः
१२५-१ मन्-नियोगाच् च मारीचः पलायन-परायणः
१२५-२ युयुत्सा-रहितो रामं ममारा ऽपहरन् वने.
१२६-१ निजघाना ऽन्य-संसक्तं सत्यं रामो लता-मृगम्
१२६-२ त्वमेव ब्रूहि संचिन्त्य, युक्तं तन् महतां यदि.
१२७-१ पुंसा भक्ष्येण बन्धूनामात्मानं रक्षितुं वधः
१२७-२ क्षमिष्यते दशाऽऽस्येन, क्व-त्येयं तव दुर्-मतिः."
१२८-१ कपिर् जगाद-"दूतो ऽहमुपायं तव दर्शने
१२८-२ द्रुम-राक्षस-विध्वंसमकार्षं बुद्धि-पूर्वकम्.
१२९-१ आ-त्रिकूटमकार्षुर् ये त्वत्-का निर्-जङ्गमं जगत्,
१२९-२ दशग्रीव ! कथं ब्रूषे ? तान-वध्याम् मही-पतेः.
१३०-१ अभिमान-फलं प्रोक्तं यत् त्वया राम-विग्रहे,
१३०-२ विनेशुस् तेन शत-शः कुलान्यसुर-रक्षसाम्.
१३१-१ यत् स्व-धर्मम-धर्मं त्वं दुर्-बलं प्रत्यपद्यथाः
१३१-२ रिपौ रामे च निः-शङ्को, नैतत् क्षेमंकरं चिरम्
१३२-१ अन्वयाऽऽदि-विभिन्नानां यथा सख्यमनीप्सितम्
१३२-२ नैषीर्, विरोधमप्येवं सार्धं पुरुष-वानरैः.
१३३-१ विराधं तपसां विघ्नं जघान विजितो यदि
१३३-२ वरो धनुर्-भृतां रामः, स कथं न विवक्षितः ?
१३४-१ प्रणश्यन्नपि ना ऽशक्नोदत्येतुं बाण-गोचरम्
१३४-२ त्वयैवोक्तं महा-मायो मारीचो राम-हस्तिनः.
१३५-१ अन्याऽऽसक्तस्य यद् वीर्यं न त्वं स्मरसि वालिनः
१३५-२ मूर्च्छा-वान् नमतः संध्यां ध्रुवं तद् बाहु-पीडितः.
१३६-१ अ-सद्-बन्धु-विधोपज्ञं विमुञ्च बलि-विग्रहम्,
१३६-२ सीतामर्पय नन्तव्ये कोश-दण्डाऽऽत्म-भूमिभिः."
१३७-१ स्फुट-परुषम-सह्यमित्थमुच्चैः सदसि मरुत्-तनयेन भाष्यमाणः
१३७-२ परिजनमभितो विलोक्य दाहं दश-वदनः प्रदिदेश वानरस्य.

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP