संस्कृत सूची|शास्त्रः|आयुर्वेदः|रसमञ्जरी| अध्याय २ रसमञ्जरी अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० रसमञ्जरी - अध्याय २ शालिनाथ कृत ‘रसमञ्जरी’ ग्रंथात रसविद्या संबंधित वेगवेगळ्या क्रिया सविस्तर वर्णिल्या आहेत. Tags : rasamanjariVedआयुर्वेदरसमञ्जरी अध्याय २ Translation - भाषांतर अथातः सम्प्रवक्ष्यामि रसजारणमुत्तमम् ।अथाजीर्णम् अबीजं च सूतकं यस्तु घातयेत् ॥१॥ब्रह्महा स दुराचारी मम द्रोही महेश्वरि ।तस्मात्सर्वप्रयत्नेन जारितं मारयेद्रसम् ॥२॥पारदबलिजारणंप्रक्षिप्य तोयं मृत्कुण्डे तस्योपरि शरावकम् ।संचूर्णमेखलायुक्तं स्थापयेत्तस्य चान्तरे ॥३॥रसं क्षिप्त्वा गन्धकस्य रजस्तस्योपरि क्षिपेत् ।समं भागं ततो दद्याच्छरावेण पिधापयेत् ॥४॥लघ्वीयसीं भस्ममुद्रां ततः कुर्याद् भिषग्वरः ।आरण्योपलकैः सम्यक् चतुर्भिः पुटमाचरेत् ॥५॥एवं पुनः पुनर् गन्धं दत्त्वा दत्त्वा भिषग्वरः ।सम्यक् कुर्वीत सूतस्य देवि षड्गुणजारणम् ॥६॥पारदसुवर्णजारणंरसः स्यात् पटुशिग्रुतुत्थैः सराजिकैर्व्योषणकैस् त्रिरात्रम् ।पिष्टस्ततः स्विन्नतनु सुवर्णमुख्यानयं खादति सर्वधातून् ॥७॥पारदजारणअथवा बिडयोगेन शिखिपित्तेन लेपितम् ।चरेत् सुवर्णं रसराट् तप्तखल्वे यथासुखम् ॥८॥निर्दग्धशंखचूर्णं च रविक्षीरेण संप्लुतम् ।पुटितं शतशो देवि प्रशस्तं जारणं विदुः ॥९॥स्वर्णाभ्रसर्वलोहानि यथेष्टानि च जारयेत् ।अनेकविधिना सूतं चतुःषष्ट्यंशकादिना ।द्वात्रिंशत् षोडशांशेन जारयेत् कनकं बुधः ॥१०॥रसमारणंद्विपलं शुद्धसूतं च सूतार्धं शुद्धगन्धकम् ।कन्यानीरेण संमर्द्य दिनमेकं निरन्तरम् ॥११॥रुद्ध्वा तद्भूधरे यन्त्रे दिनैकं मारयेत् पुटान् ।रसमारण (२)भुजङ्गवल्लीनीरेण मर्दितं पारदं दृढम् ॥१२॥कर्कोटीकन्दमृन्मूषासम्पुटस्थं पुटे गजे ।भस्म तद्योगवाहि स्यात्सर्वकर्मसु योजयेत् ॥१३॥रसमारण (३)श्वेताङ्कोलजटावारि मर्द्यः सूतो दिनत्रयम् ।पुटितश्चान्धमूषायां सूतो भस्मत्वमाप्नुयात् ॥१४॥प्रत्यहं रक्तिकापञ्च भक्षयेन्मधु सर्पिषा ।को वा तस्य गुणान् वक्तुं भुवि शक्नोति मानवः ॥१५॥रससिन्दूरनिर्माण (१)पलमत्र रसं शुद्धं तावन्मात्रं सुगन्धकम् ।विधिवत् कज्जलीं कृत्वा न्यग्रोधाङ्कुरवारिभिः ॥१६॥भावनात्रितयं दत्त्वा स्थालीमध्ये निधापयेत् ।विरच्य कवचीयन्त्रं वालुकाभिः प्रपूरयेत् ॥१७॥जायते रससिन्दूरं तरुणारुणसन्निभम् ।अनुपानविशेषेण करोति विविधान् गुणान् ॥१८॥रससिन्दूर (२)गन्धकेन समः सूतो निर्गुण्डीरसमर्दितः ।पाचितो वालुकायन्त्रे रक्तं भस्म प्रजायते ॥१९॥रससिन्दूरसूतार्द्धं गन्धकं शुद्धं माक्षिकोद्भूतसत्त्वकम् ।गन्धतुल्यं विमर्द्याथ दिनं निर्गुण्डिकाद्रवैः ॥२०॥स्थापयेद्वालुकायन्त्रे काचकूप्यां विपाचयेत् ।अन्धमूषागतं वाथ वालुकायन्त्रके दिनम् ॥२१॥पक्वं संजायते भस्म दाडिमीकुसुमोपमम् ।रससिन्दूरपृथक् समं समं कृत्वा पारदं गन्धकं तथा ॥२२॥नवसारं धूमसारं स्फटिकीं याममात्रके ।निम्बुनीरेण संमर्द्य काचकुप्यां विपाचयेत् ॥२३॥मुखे पाषाणवटिकां दत्त्वा मुद्रां प्रलेपयेत् ।सप्तभिर् मृत्तिकावस्त्रैः पृथक् संशोष्य वेष्टयेत् ॥२४॥सच्छिद्रायां मृदः स्थाल्यां कूपिकां संनिवेशयेत् ।पूरयेत् सिकतापुरैर् आ गलं मतिमान् भिषक् ॥२५॥निवेश्य चुल्ल्यां दहनं मन्दमध्यखरं क्रमात् ।प्रज्वाल्य द्वादशं यामं स्वाङ्गशीतलम् उद्धरेत् ॥२६॥स्फोटयित्वा पुनः स्थालीमूर्ध्वगं गन्धकं त्यजेत् ।अधस्थं रससिन्दूरं सर्वकर्मसु योजयेत् ॥२७॥रससिन्दूरगन्धकं धूम [... औ१ Zएइछेन्झ्] रं च शुद्धसूतं समं समम् ।यामैकं मर्दयेत्खल्वे काचकुप्यां निवेशयेत् ॥२८॥रुद्ध्वा द्वादशयामं तु वालुकायन्त्रगं पचेत् ।स्फोटयेत् स्वाङ्गशीतं तमूर्ध्वलग्नं तु तं त्यजेत् ।अधस्थं मृतसूतं च सर्वयोगेषु योजयेत् ॥२९॥रससिन्दूरभागौ रसस्य त्रय एव भागा गन्धस्य भागं पवनासनस्य ।संमर्द्य गाढं सकलं सुभाण्डे तां कज्जलीं काचकृते विदध्यात् ॥३०॥संवेष्ट्य मृत्कर्पटकैः स्वयं तां मुखे सुचूर्णां खटिकां च कृत्वा ।क्रमाग्निना त्रीणि दिनानि पक्त्वा तां वालुकायन्त्रगतां ततः स्यात् ॥३१॥बन्धूकपुष्पारुणम् ईशजस्य भस्म प्रयोज्यं सकलामयेषु ।निजानुपानैर् मरणं जरां च निहन्ति वल्लक्रमसेवनेन ॥३२॥रससिन्दूरपक्वमूषागतं सूतं गन्धकं चाधरोत्तरम् ।तुल्यं सुचूर्णितं कृत्वा काकमाचीद्रवं पुनः ॥३३॥द्वाभ्यां चतुर्गुणं देयं द्रवं मूषां निरुध्य च ।पाचयेद् वालुकायन्त्रे क्रमवृद्धाग्निना दिनम् ।आरक्तं जायते भस्म सर्वयोगेषु योजयेत् ॥३४॥रससिन्दूरअश्वगन्धादिवर्गेण रसं स्वेद्यं प्रयत्नतः ।रसतुल्यं गन्धकं च मर्दयेत् कुशलो भिषक् ॥३५॥पाचयेद्रससिन्दूरं जायतेऽरुणसन्निभम् ।श्रेष्ठं सर्वरसानां हि पुष्टिकामबलप्रदम् ॥३६॥इदमेवायुषो वृद्धिं कर्तुं नान्यदलं भवेत् ।विनापि स्वर्णराजेन मुनिभिः परिकीर्तितम् ॥३७॥रसकर्पूरटङ्कणं मधु लाक्षाथ ऊर्णा गुञ्जायुतो रसः ।मर्दयेद् भृङ्गजैर्द्रावैर्दिनैकं वा धमेत् पुनः ॥३८॥ध्मातो भस्मत्वमायाति शुद्धः कर्पूरसन्निभः ।रसकर्पूरखटीष्टिगैरिकावल्मीमृत्तिका सैन्धवं समम् ॥३९॥भागद्वयमितो गन्धो रसभागद्वयं स्मृतम् ।हण्डिकायां विनिःक्षिप्य पार्श्वे पार्श्वे च खर्पटान् ॥४०॥दग्ध्वाथ हण्डिकां दत्त्वा द्विरष्टप्रहरं पचेत् ।मृतसूतं तु गृह्णीयाच्छुद्धः कर्पूरसन्निभम् ॥४१॥कल्कादिवेष्टितं कृत्वा निर्गिलेद् उपदंशके ।रसकर्पूरपिष्टं पांशुपटुप्रगाढममलं वज्र्यम्बुनानेकशः सूतं धातुयुतं खटीकवलितं तं सम्पुटे रोधयेत् ।अन्तःस्थं लवणस्य तस्य च तले प्रज्वाल्य वह्णिं हठात् भस्म ग्राह्यमथेन्दुकुन्दधवलं भस्मोपरिस्थं शनैः ॥४२॥तद्वल्लद्वितयं लवङ्गसहितं प्रातः प्रभुक्तं नृणाम् ऊर्ध्वं रेचयति द्वियाममसकृत्पेयं जलं शीतलम् ।एतद्धन्ति च वत्सरावधि विषं षाण्मासिकं मासिकं शैलोत्थं गरलं मृगेन्द्रकुटिलोद्भूतं च तात्कालिकम् ॥४३॥रसमूर्छनमेघनादवचाहिङ्गुलशुनैर् मर्दयेद् रसम् ।नष्टपिष्टं तु तद्गोलं हिङ्गुना वेष्टयेद्बहिः ॥४४॥पचेल्लवणयन्त्रस्थं दिनैकं चण्डवह्णिना ।ऊर्ध्वलग्नं समादाय दृढं वस्त्रेण वेष्टयेत् ॥४५॥ऊर्ध्वाधो गन्धकं तुल्यं दत्त्वा सौम्यानले पचेत् ।जीर्णे गन्धे पुनर्देयं षड्भिर् वारैः समं समम् ॥४६॥षड्गुणे गन्धके जीर्णे मूर्छितो रोगहा भवेत् ।रसमूर्छनलोहपात्रेऽथवा ताम्रे पलैकं शुद्धगन्धकम् ॥४७॥मृद्वग्निना द्रुते तस्मिञ्छुद्धं सूतपलत्रयम् ।क्षिप्त्वाथ चालयेत् किंचिल्लोहदर्व्या पुनः पुनः ॥४८॥गोमयं कदलीपत्रं तस्योपरि च ढालयेत् ।इत्येवं गन्धबद्धं च सर्वरोगेषु योजयेत् ॥४९॥मारितो देहसिद्ध्यर्थं मूर्छितो व्याधिघातने ।रसभस्म क्वचिद्रोगे देहार्थं मूर्छितं क्वचित् ।बद्धो द्वाभ्यां प्रयुञ्जीत शास्त्रदृष्टेन कर्मणा ॥५०॥बद्धपारदलक्षणानिअक्षयी च लघुर्द्रावी तेजस्वी निर्मलो गुरुः ।स्फुटनं पुनरावृत्तिर्बद्धसूतस्य लक्षणम् ॥५१॥मूर्छितपारदलक्षणानिकज्जलाभो यदा सूतो विहाय घनचापलम् ।दृश्यतेऽसौ तदा ज्ञेयो मूर्छितः सुतरां बुधैः ॥५२॥मृतपारदलक्षणानिआर्द्रत्वं च घनत्वं च चापल्यं गुरुतैजसम् ।यस्यैतानि न दृश्यन्ते तं विद्यान्मृतसूतकम् ॥५३॥निर्बीजबद्धपारदःरसस्तु पादांशसुवर्णजीर्णः पिष्टीकृतो गन्धकयोगतश्च ।तुल्यांशगन्धैः पुटितं क्रमेण निर्बीजनामाखिलरोगहन्ता ॥५४॥सबीजबद्धपारदःबीजीकृतैर् अभ्रकसत्त्वहेमतारार्ककान्तैः सह साधितोऽयम् ।पुनस्ततः षड्गुणगन्धचूर्णैः सबीजबद्धो ऽप्यधिकप्रभावः ॥५५॥रसवीर्यविपाकेषु विद्यात्सूतं सुधामयम् ।सेवितोऽसौ सदा देहे रोगनाशाय कल्पते ॥५६॥ककाराष्टककूष्माण्डं कर्कटीं चैव कलिङ्गं कारवेल्लकम् ।कुसुम्भिकं च कर्कोटीं कदलीं काकमाचिकाम् ॥५७॥ककाराष्टकमेतद्धि वर्जयेद्रसभक्षकः ।हितं मुद्गाम्बुदुग्धाज्यं शाल्यन्नं च विशेषतः ॥५८॥शाकं पुनर्नवायास्तु मेघनादं च चिल्लिकाम् ।सैन्धवं नागरं मुस्तं पद्ममूलानि भक्षयेत् ॥५९॥अभ्यङ्गं मैथुनं स्नानं यथेष्टं च सुखाम्बुना ।रूपयौवनसम्पन्नां सानुकूलां प्रियां भजेत् ॥६०॥बुद्धिः प्रज्ञा बलं कान्तिः प्रभा चैवं वयस्तथा ।वर्धन्ते सर्व एवैते रससेवाविधौ नृणाम् ॥६१॥यस्य रोगस्य यो योगस्तेनैव सह योजयेत् ।रसेन्द्रो हरते रोगान्नरकुञ्जरवाजिनाम् ॥६२॥ N/A References : N/A Last Updated : June 24, 2015 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP