सत्कर्मसंग्रहः - प्रारंभः

प्रस्तुत ग्रंथात हठ योगासंबंधी विस्तृत माहिती देण्यात आलेली आहे.


श्रीचिद्घनानन्दनाथकृतः सत्कर्मसंग्रहः

य आदिनाथो भगवान्निजभक्तानुकम्पया।

महाकालजयं शास्त्रं कृतवान् तं नमाम्यहम् ॥१॥

भगवद्गगनानन्दनाथपादाम्बुजद्वयम्।

यत्प्रसादात्कतार्थोऽस्मि तं मूर्ध्ना प्रममाम्यहम् ॥२॥

गोरक्षादिमहासिद्धैर्नाथैर्मुनिवरैरपि।

स्वस्वग्रन्थेषुयत्प्रोक्तं तं लब्ध्वा गुरुतोऽखिलम् ॥३॥

मोक्षशास्त्रचतुष्कस्य गुरुतो लब्धवैभवः।

चिद्गनानन्दनाथोऽहं कुर्वे सत्कर्मसंग्रहम् ॥४॥

वायूनां रोधनेनापि करणानां विनिग्रहे।

खेचरीसाधने नृणां वज्रोलीसिद्धिसाधने ॥५॥

पथ्यापथ्यप्रमादैर्वा देशकालप्रमादतः।

दैवविघ्नेन वा लोके जायन्ते व्याधयो मुनेः ॥

तासां निवारणं कार्यमासनैर्दिव्यभेषजैः।

तत्राप्यसिद्धो योगींद्रो चालयेद्दिव्यकर्मिभिः ॥७॥

पूर्वमस्माभिरुक्तानि पीठानि विविधान्यपि।

शारीरज्ञानसंपन्नः कुशलो वायुसाधने ॥८॥

सद्गुरुणां प्रसादेन प्राप्तविद्यो महामतिः।

कुम्भानामासनानां च करणानां च साधने ॥९॥

निवत्तये व्यापदां वा दिव्यकर्माणि साधयेत्।

शीघ्रं नाडीविशुद्धिः स्याद् व्यापदामप्यनुद्भवः ॥१०॥

जातो नो व्यापदां नाशः प्रसादशुचितेष्वपि।

स्वतंत्रत्वात्पाटवं च करणेष्वपि कर्मभिः ॥११॥

जायन्ते तेन कर्माणि कर्तव्यानि विचक्षणैः।

चलमारुतकार्पासतन्तुचालनतः शिवः ॥१२॥

चतुर्धा प्रावदत्पूर्वं वायुसाधनकर्मणि।

व्यापदां वारणे पञ्चविधानि सहभेषजैः ॥१३॥

विषयसूचिः।

अथ वक्ष्यामि कर्माणि योगिनां योगसिद्धये।

यान्याह धूर्जटिः साक्षाल्लोकानुग्रहेतवे ॥१४॥

ऊर्ध्वचक्री मध्यचक्री तथाधश्चक्रिका परा।

त्राटकं च कशाकर्म नेत्रीकरणमुत्तमम् ॥१५॥

कसनं ष्ठीवनं चापि घ्राणवक्त्रविभेदतः।

स्थिरभ्रान्तिविभेदेन बाह्यभस्त्रा द्विधोदिता ॥१६॥

अन्तर्भस्त्रा घ्राणदन्ती धौती नेती द्विधा स्थिता।

त्रोटनं त्रिविं प्रोक्तमूर्ध्वत्रोटनकं तथा ॥१७॥

चक्रत्रोटनकं कर्म सर्वाङ्गत्रोटनं पुनः।

उद्गाराख्यं महत्कर्म शिरासंचालनं तथा ॥१८॥

वाराहं मर्दनं चैव शालाक्यं शंकरोदितम्।

तथोर्ध्वसिद्धिकारिणी कर्माधःसिद्धिकारिणी ॥१९॥

वमनं च विरेकश्च रक्तस्रावः शिवोदितः।

करणाप्यायनाश्च्योतं जलधाराः शिवोदिताः ॥२०॥

वेतण्डकरणी नौली गण्डूषः स्नेहनं परम्।

स्वेदनं धूमनस्ये च तथा च कवलग्रहः ॥२१॥

बस्तयः स्युर्बहुविधास्ते ज्ञेया गुरुवाक्यतः।

नेत्रकर्णशिरोलिङ्गबस्तयः पायुजाः पराः ॥२२॥

वायुबस्तिस्तोयबस्तिः स्नेहबस्तिस्तथाऽपरः।

निरूहणाः स्थापनाद्या द्रव्यभेदैस्तु बस्तयः ॥२३॥

धृतिसंख्याः शम्भुनोक्ताः सर्वामयविनाशनाः।

वज्रोल्यङ्गानि कर्माणि सप्त प्राह सदाशिवः ॥२४॥

तत्कर्म द्विविधं तत्र ध्वजमूलप्रभेदतः।

अपकर्मापि च तथा द्विविधं योगिनां स्मृतम् ॥२५॥

औष्ट्रं नलप्रवेशश्च फूत्कृतिस्तदनन्तरम्।

वज्रोल्यङ्गानि कर्माणि वज्रोल्यामेव वक्ष्यते ॥२६॥

खेचर्यङ्गानि कर्माणि यान्याह स्वयमीश्वरः।

सम्यक्तानि प्रवक्ष्यामि योगिनां हितकाम्यया ॥२७॥

उत्पाटनं छेदनं च गर्भधारमेव च।

दोहनभ्रामणाकर्षकूर्चिकाचालनानि च ॥२८॥

घर्णणं मथनं चेति ज्ञातव्यानीह सद्गुरोः।

सध्यानमंत्रयुक्तानि यथाहान्धकसूदनः ॥२९॥

नान्यथा तानि सिध्यन्ति क्लेशदान भवन्त्यपि।

खेचर्यङ्गानि कर्माणि खेचर्यामेव वक्ष्यते ॥३०॥

नाडीशुद्ध्याख्य कुम्भस्तु कुम्भकेष्वेव वक्ष्यते।

अथैषां लक्षणम्।

अथैषां लक्षणं वक्ष्ये यथाचार्यैः पुरोदितम् ॥३१॥

संप्रदायानुसारेण गुरुभिः शिक्षितो यथा।

N/A

References : N/A
Last Updated : October 04, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP