द्वितीयोऽध्यायः - प्रथममाह्निकम्

वैशेषिकदर्शनम् या ग्रंथाचे मूळ प्रवर्तक ऋषि कणाद होत. ई.पू. दुसर्‍या शतकात याची निर्मिती केली गेली.


२ - १ - १ रूपरसगन्धस्पर्शवती पृथवी।

२ - १ - २ रूपरसस्पर्शवत्य आपो द्रवाः स्निग्धाः।

२ - १ - ३ तेजो रूपस्पर्शवत्।

२ - १ - ४ स्पर्शवान् वायुः।

२ - १ - ५ त आकाशे न विद्यन्ते।

२ - १ - ६ सर्पिर्जतुमधच्छिष्टानामग्निसंयोगाद् द्रत्वमद्भिः सामान्यम्।

२ - १ - ७ त्रपुसीलोहरजतसुवर्णानामग्निसंयोगाद् द्रवत्वमद्भिः सामान्यम्।

२ - १ - ८ विषाणी ककुद्मान् प्रान्ते वालधिः सास्नावान् इति गोत्वे दृष्टं लिङ्गम्।

२ - १ - ९ स्पर्शश्च वायोः।

२ - १ - १० न च दृष्टानां स्पर्श इत्यदृष्टलिङ्गो वायुः।

२ - १ - ११ अद्रव्यवत्वेन द्रव्यम्।

२ - १ - १२ क्रियावत्त्वाद् गुणवत्त्वाच्च।

२ - १ - १३ अद्रव्यत्वेन नित्यत्वमुक्तम्।

२ - १ - १४ वायोर्वायुसंमूर्च्छनं नानात्वलिङ्गम्।

२ - १ - १५ वायुसन्निकर्षे प्रत्यक्षाभावाद् द़ष्टं लिङ्गं  न विद्यते।

२ - १ - १६ सामान्यतो दृष्टाच्चाविशेषः।

२ - १ - १७ तस्मादागमिकम्।

२ - १ - १८ संज्ञाकर्म त्वस्माद्विशिष्टानां लिङ्गम्।

२ - १ - १९ प्रत्यक्षप्रवृत्तत्वात् संज्ञार्कमणः।

२ - १ - २० निष्क्रमणं प्रवेशनमित्याकासस्य लिङ्गम्।

२ - १ - २१ तदलिङ्गमेकद्रव्यत्वात् कर्मणः।

२ - १ - २२ कारणान्तरानुक्लृप्तिवैधर्म्याच्च।

२ - १ - २३ संयोगादभावः कर्मणः।

२ - १ - २४ कारणगुणपूर्वकः कारयगुणो दृष्टः।

२ - १ - २५ कार्यन्तराप्रदुर्भावाच्च शब्दः स्पर्शवतामगुणः।

२ - १ - २६ परत्र समवायात् प्रत्यक्षत्वाच्च नात्मगुणो न मनोगुणः।

२ - १ - २७ परिशेषाल्लिङ्गमाकाशस्य।

२ - १ - २८ द्रव्यत्वनित्यत्वे वायुना व्याख्याते।

२ - १ - २९ तत्त्वमभावेन।

२ - १ - ३० शब्दलिङ्गाविशेषाद् विशेषलिङ्गाभावाच्च।

२ - १ - ३१ तदनुविधानादेकपृथक्त्वं चेति।

इति काणादसूत्रपाठे द्वितीयोऽध्यास्य प्रथममाह्निकम्।

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP