अथर्ववेदः - काण्डं ५

अथर्ववेदात देवतांची स्तुति तसेच जादू, चमत्कार, चिकित्सा, विज्ञान आणि दर्शनाचे मन्त्र सुद्धा आहेत.  


५,१।१अ - ऋधङ्मन्त्रो योनिं य आबभूवामृतासुर् वर्धमानः सुजन्मा ।
५,१।१च् - अदब्धासुर् भ्राजमानो 'हेव त्रितो धर्ता दाधार त्रीणि ॥१॥

५,१।२अ - आ यो धर्माणि प्रथमः ससाद ततो वपूंषि कृणुषे पुरूणि ।
५,१।२च् - धास्युर् योनिं प्रथम आ विवेशा यो वाचम् अनुदितां चिकेत ॥२॥

५,१।३अ - यस् ते शोकाय तन्वं रिरेच क्षरद् धिरण्यं शुचयो 'नु स्वाः ।
५,१।३च् - अत्रा दधेते अमृतानि नामास्मे वस्त्राणि विश एरयन्ताम् ॥३॥

५,१।४अ - प्र यद् एते प्रतरं पूर्व्यं गुः सदःसद आतिष्ठन्तो अजुर्यम् ।
५,१।४च् - कविः शुषस्य मातरा रिहाणे जाम्यै धुर्यं पतिम् एरयेथाम् ॥४॥

५,१।५अ - तद् ऊ षु ते महत् पृथुज्मन् नमः कविः काव्येना कृणोमि ।
५,१।५च् - यत् सम्यञ्चाव् अभियन्ताव् अभि क्षाम् अत्रा मही रोधचक्रे वावृधेते ॥५॥

५,१।६अ - सप्त मर्यादाः कवयस् ततक्षुस् तासाम् इद् एकाम् अभ्य् अंहुरो गात् ।
५,१।६च् - आयोर् ह स्कम्भ उपमस्य नीढे पथां विसर्गे धरुणेषु तस्थौ ॥६॥

५,१।७अ - उतामृतासुर् व्रत एमि कृन्वन्न् असुर् आत्मा तन्वस् तत् सुमद्गुः ।
५,१।७च् - उत वा शक्रो रत्नं दधात्य् ऊर्जया वा यत् सचते हविर्दाः ॥७॥
५,१।८अ - उत पुत्रः पितरं क्षत्रम् ईढे ज्येष्ठं मर्यादम् अह्वयन्त् स्वस्तये ।
५,१।८च् - दर्शन् नु ता वरुण यास् ते विष्ठा आवर्व्रततः कृणवो वपूंषि ॥८॥

५,१।९अ - अर्धम् अर्धेन पयसा पृणक्ष्य् अर्धेन शुष्म वर्धसे अमुर ।
५,१।९च् - अविं वृधाम शग्मियं सखायं वरुणं पुत्रम् अदित्या इषिरम् ।
५,१।९ए - कविशस्तान्य् अस्मै वपूंष्य् अवोचाम रोदसी सत्यवाचा ॥९॥


५,२।१अ - तद् इद् आस भुवनेषु ज्येष्ठम् यतो यज्ञ उग्रस् त्वेषनृम्णः ।
५,२।१च् - सद्यो जज्ञानो नि रिणाति शत्रून् अनु यद् एनं मदन्ति विश्व ऊमाः ॥१॥

५,२।२अ - ववृधानः शवसा भूर्योजाः शत्रुर् दासाय भियसं दधाति ।
५,२।२च् - अव्यनच् च व्यनच् च सस्नि सं ते नवन्त प्रभृता मदेषु ॥२॥

५,२।३अ - त्वे क्रतुम् अपि पृञ्चन्ति भूरि द्विर् यद् एते त्रिर् भवन्त्य् ऊमाः ।
५,२।३च् - स्वदोः स्वादीयः स्वादुना सृजा सम् अदः सु मधु मधुनाभि योधीः ॥३॥

५,२।४अ - यदि चिन् नु त्वा धना जयन्तं रणेरणे अनुमदन्ति विप्राः ।
५,२।४च् - ओजीयः शुष्मिन्त् स्थिरम् आ तनुष्व मा त्वा दभन् दुरेवासः कशोकाः ॥४॥

५,२।५अ - त्वया वयं शाशद्महे रणेषु प्रपश्यन्तो युधेन्यानि भूरि ।
५,२।५च् - चोदयामि त आयुधा वचोभिः सं ते शिशामि ब्रह्मणा वयांसि ॥५॥

५,२।६अ - नि तद् दधिषे 'वरे परे च यस्मिन्न् आविथावसा दुरोणे ।
५,२।६च् - आ स्थापयत मातरं जिगत्नुम् अत इन्वत कर्वराणि भूरि ॥६॥

५,२।७अ - स्तुष्व वर्ष्मन् पुरुवर्त्मानं सम् ऋभ्वाणम् इनतमम् आप्तम् आप्त्यानाम् ।
५,२।७च् - आ दर्शति शवसा भूर्योजाः प्र सक्षति प्रतिमानं पृथिव्याः ॥७॥

५,२।८अ - इमा ब्रह्म बृहद्दिवः कृणवद् इन्द्राय शूषम् अग्रियः स्वर्षाः ।
५,२।८च् - महो गोत्रस्य क्षयति स्वराजा तुरश् चिद् विश्वम् अर्णवत् तपस्वान् ॥८॥

५,२।९अ - एवा महान् बृहद्दिवो अथर्वावोचत् स्वां तन्वम् इन्द्रम् एव ।
५,२।९च् - स्वसारौ मातरिभ्वरी अरिप्रे हिन्वन्ति चैने शवसा वर्धयन्ति च ॥९॥


५,३।१अ - ममाग्ने वर्चो विहवेष्व् अस्तु वयं त्वेन्धानास् तन्वम् पुषेम ।
५,३।१च् - मह्यं नमन्तां प्रदिशश् चतस्रस् त्वयाध्यक्षेण पृतना जयेम ॥१॥

५,३।२अ - अग्ने मन्युं प्रतिनुदन् परेषां त्वं नो गोपाः परि पाहि विश्वतः ।
५,३।२च् - अपाञ्चो यन्तु निवता दुरस्यवो 'मैषां चित्तं प्रबुधां वि नेशत् ॥२॥

५,३।३अ - मम देवा विहवे सन्तु सर्व इन्द्रवन्तो मरुतो विष्णुर् अग्निः ।
५,३।३च् - ममान्तरिक्षम् उरुलोकम् अस्तु मह्यं वातः पवतां कामायास्मै ॥३॥

५,३।४अ - मह्यं यजन्तां मम यानीष्टाकूतिः सत्या मनसो मे अस्तु ।
५,३।४च् - एनो मा नि गां कतमच् चनाहं विश्वे देवा अभि रक्षन्तु मेह ॥४॥

५,३।५अ - मयि देवा द्रविणम् आ यजन्तां मयि आशीर् अस्तु मयि देवहूतिः ।
५,३।५च् - दैवाः होतारः सनिषन् न एतद् अरिष्टाः स्याम तन्वा सुवीराः ॥५॥

५,३।६अ - दैवीः षढ् उर्वीर् उरु नः कृणोत विश्वे देवास इह मादयध्वम् ।
५,३।६च् - मा नो विदद् अभिभा मो अशस्तिर् मा नो विदद् वृजिना द्वेष्या या ॥६॥

५,३।७अ - तिस्रो देवीर् महि नः शर्म यछत प्रजायै नस् तन्वे यच् च पुष्टम् ।
५,३।७च् - मा हास्महि प्रजया मा तनूभिर् मा रधाम द्विषते सोम राजन् ॥७॥

५,३।८अ - उरुव्यचा नो महिषः शर्म यछत्व् अस्मिन् हवे पुरुहूतः पुरुक्षु ।
५,३।८च् - स नः प्रजायै हर्यश्व मृढेन्द्र मा नो रीरिषो मा परा दाः ॥८॥

५,३।९अ - धाता विधाता भुवनस्य यस् पतिर् देवः सविताभिमातिषाहः ।
५,३।९च् - आदित्या रुद्रा अश्विनोभा देवाः पान्तु यजमानं निरृथात् ॥९॥

५,३।१०अ - ये नः सपत्ना अप ते भवन्त्व् इन्द्राग्निभ्याम् अव बाधामह एनान् ।
५,३।१०च् - आदित्या रुद्रा उपरिस्पृशो नो उग्रं चेत्तारम् अधिराजम् अक्रत ॥१०॥

५,३।११अ - अर्वाञ्चम् इन्द्रम् अमुतो हवामहे यो गोजिद् धनजिद् अश्वजिद् यः ।
५,३।११च् - इमं नो यज्ञं विहवे शृणोत्व् अस्माकम् अभूर् हर्यश्व मेदी ॥११॥


५,४।१अ - यो गिरिष्व् अजायथा वीरुधां बलवत्तमः ।
५,४।१च् - कुष्ठेहि तक्मनाशन तक्मानं नाशयन्न् इतः ॥१॥

५,४।२अ - सुपर्णसुवने गिरौ जातं हिमवतस् परि ।
५,४।२च् - धनैर् अभि श्रुत्वा यन्ति विदुर् हि तक्मनाशनम् ॥२॥

५,४।३अ - अश्वत्थो देवसदनस् तृतीयस्याम् इतो दिवि ।
५,४।३च् - तत्रामृतस्य चक्षणं देवाः कुष्ठम् अवन्वत ॥३॥

५,४।४अ - हिरण्ययी नौर् अचरद् धिरण्यबन्धना दिवि ।
५,४।४च् - तत्रामृतस्य पुष्पं देवाः कुष्ठम् अवन्वत ॥४॥

५,४।५अ - हिरण्ययाः पन्थान आसन्न् अरित्राणि हिरण्यया ।
५,४।५च् - नावो हिरण्ययीर् आसन् याभिः कुष्ठं निरावहन् ॥५॥

५,४।६अ - इमं मे कुष्ठ पूरुषं तम् आ वह तं निष् कुरु ।
५,४।६च् - तम् उ मे अगदं कृधि ॥६॥

५,४।७अ - देवेभ्यो अधि जातो 'सि सोमस्यासि सखा हितः ।
५,४।७च् - स प्राणाय व्यानाय चक्षुषे मे अस्मै मृढ ॥७॥

५,४।८अ - उदङ् जातो हिमवतः स प्राच्यां नीयसे जनम् ।
५,४।८च् - तत्र कुष्ठस्य नामान्य् उत्तमानि वि भेजिरे ॥८॥

५,४।९अ - उत्तमो नाम कुष्ठस्य् उत्तमो नाम ते पिता ।
५,४।९च् - यक्ष्मं च सर्वं नाशय तक्मानं चारसं कृधि ॥९॥

५,४।१०अ - शीर्षामयम् उपहत्याम् अक्ष्योस् तन्वो रपः ।
५,४।१०च् - कुष्ठस् तत् सर्वं निष् करद् दैवं समह वृष्ण्यम् ॥१०॥


५,५।१अ - रात्री माता नभः पितार्यमा ते पितामहः ।
५,५।१च् - सिलाची नाम वा असि सा देवानाम् असि स्वसा ॥१॥

५,५।२अ - यस् त्वा पिबति जीवति त्रायसे पुरुषं त्वम् ।
५,५।२च् - भर्त्री हि शश्वताम् असि जनानां च न्यञ्चनी ॥२॥

५,५।३अ - वृक्षंवृक्षम् आ रोहसि वृषण्यन्तीव कन्यला ।
५,५।३च् - जयन्ती प्रत्यातिष्ठन्ती स्परणी नाम वा असि ॥३॥

५,५।४अ - यद् दण्ढेन यद् इष्वा यद् वारुर् हरसा कृतम् ।
५,५।४च् - तस्य त्वम् असि निष्कृतिः सेमं निष् कृधि पूरुषम् ॥४॥

५,५।५अ - भद्रात् प्लक्षान् निस् तिष्ठस्य् अश्वत्थात् खदिराद् धवात् ।
५,५।५च् - भद्रान् न्यग्रोधात् पर्णात् सा न एह्य् अरुन्धति ॥५॥

५,५।६अ - हिरण्यवर्णे सुभगे सूर्यवर्णे वपुष्टमे ।
५,५।६च् - रुतं गछासि निष्कृते निष्कृतिर् नाम वा असि ॥६॥

५,५।७अ - हिरण्यवर्णे सुभगे शुष्मे लोमशवक्षने ।
५,५।७च् - अपाम् असि स्वसा लाक्षे वातो हात्मा बभूव ते ॥७॥

५,५।८अ - सिलाची नाम कानीनो 'जबभ्रु पिता तव ।
५,५।८च् - अश्वो यमस्य यः श्यावस् तस्य हास्नास्य् उक्षिता ॥८॥

५,५।९अ - अश्वस्यास्नः संपतिता सा वृक्षां अभि सिष्यदे ।
५,५।९च् - सरा पतत्रिणी भूत्वा सा न एह्य् अरुन्धति ॥९॥


५,६।१अ - ब्रह्म जज्ञानं प्रथमं पुरस्ताद् वि सीमतः सुरुचो वेन आवः ।
५,६।१च् - स बुध्न्या उपमा अस्य विष्ठाः सतश् च योनिम् असतश् च वि वः ॥१॥

५,६।२अ - अनाप्ता ये वः प्रथमा यानि कर्माणि चक्रिरे ।
५,६।२च् - वीरान् नो अत्र मा दभन् तद् व एतत् पुरो दधे ॥२॥

५,६।३अ - सहस्रधार एव ते सम् अस्वरन् दिवो नाके मधुजिह्वा असश्चतः ।
५,६।३च् - तस्य स्पशो न नि मिषन्ति भूर्णयः पदेपदे पाशिनः सन्ति सेतवे ॥३॥

५,६।४अ - पर्य् ऊ षु प्र धन्वा वाजसातये परि वृत्राणि सक्षणिः ।
५,६।४च् - द्विषस् तद् अध्य् अर्णवेनेयसे सनिस्रसो नामासि त्रयोदशो मास इन्द्रस्य गृहः ॥४॥

५,६।५अ - न्व् एतेनारात्सीर् असौ स्वाहा ।
५,६।५च् - तिग्मायुधौ तिग्महेती सुशेवौ सोमारुद्राव् इह सु मृढतं नः ॥५॥

५,६।६अ - अवैतेनारात्सीर् असौ स्वाहा ।
५,६।६च् - तिग्मायुधौ तिग्महेती सुशेवौ सोमारुद्राव् इह सु मृढतं नः ॥६॥

५,६।७अ - अपैतेनारात्सीर् असौ स्वाहा ।
५,६।७च् - तिग्मायुधौ तिग्महेती सुशेवौ सोमारुद्राव् इह सु मृढतं नः ॥७॥

५,६।८अ - मुमुक्तम् अस्मान् दुरिताद् अवद्याज् जुषेथाम् यज्ञम् अमृतम् अस्मासु धत्तम् ॥८॥

५,६।९अ - चक्षुषो हेते मनसो हेते ब्रह्मणो हेते तपसश् च हेते ।
५,६।९च् - मेन्या मेनिर् अस्य् अमेनयस् ते सन्तु ये 'स्मां अभ्यघायन्ति ॥९॥

५,६।१०अ - यो 'स्मांश् चक्षुषा मनसा चित्त्याकूत्या च यो अघायुर् अभिदासात् ।
५,६।१०च् - त्वं तान् अग्ने मेन्यामेनीन् कृणु स्वाहा ॥१०॥
५,६।११अ - इन्द्रस्य गृहो 'सि ।
५,६।११च् - तं त्वा प्र पद्ये तं त्वा प्र विशामि सर्वगुः सर्वपूरुषः सर्वात्मा सर्वतनूः सह यन् मे 'स्ति तेन ॥११॥

५,६।१२अ - इन्द्रस्य शर्मासि ।
५,६।१२च् - तं त्वा प्र पद्ये तं त्वा प्र विशामि सर्वगुः सर्वपूरुषः सर्वात्मा सर्वतनूः सह यन् मे 'स्ति तेन ॥१२॥

५,६।१३अ - इन्द्रस्य वर्मासि ।
५,६।१३च् - तं त्वा प्र पद्ये तं त्वा प्र विशामि सर्वगुः सर्वपूरुषः सर्वात्मा सर्वतनूः सह यन् मे 'स्ति तेन ॥१३॥

५,६।१४अ - इन्द्रस्य वरूथम् असि ।
५,६।१४च् - तं त्वा प्र पद्ये तं त्वा प्र विशामि सर्वगुः सर्वपूरुषः सर्वात्मा सर्वतनूः सह यन् मे 'स्ति तेन ॥१४॥


५,७।१अ - आ नो भर मा परि ष्ठा अराते मा नो रक्षीर् दक्षिणां नीयमानाम् ।
५,७।१च् - नमो वीर्त्साया असमृद्धये नमो अस्त्व् अरातये ॥१॥

५,७।२अ - यम् अराते पुरोधत्से पुरुषं परिरापिणम् ।
५,७।२च् - नमस् ते तस्मै कृण्मो मा वनिं व्यथयीर् मम ॥२॥

५,७।३अ - प्र णो वनिर् देवकृता दिवा नक्तं च कल्पताम् ।
५,७।३च् - अरातिम् अनुप्रेमो वयं नमो अस्त्व् अरातये ॥३॥

५,७।४अ - सरस्वतीम् अनुमतिं भगं यन्तो हवामहे ।
५,७।४च् - वाचम् जुष्टां मधुमतीम् अवादिषं देवानां देवहूतिषु ॥४॥

५,७।५अ - यं याचाम्य् अहं वाचा सरस्वत्या मनोयुजा ।
५,७।५च् - श्रद्धा तम् अद्य विन्दतु दत्ता सोमेन बभ्रुणा ॥५॥

५,७।६अ - मा वनिं मा वाचं नो वीर्त्सीर् उभाव् इन्द्राग्नी आ भरतां नो वसूनि ।
५,७।६च् - सर्वे नो अद्य दित्सन्तो 'रातिं प्रति हर्यत ॥६॥

५,७।७अ - परो 'पेह्य् असमृद्धे वि ते हेतिं नयामसि ।
५,७।७च् - वेद त्वाहं निमीवन्तीं नितुदन्तीम् अराते ॥७॥

५,७।८अ - उत नग्ना बोभुवती स्वप्नया सचसे जनम् ।
५,७।८च् - अराते चित्तं वीर्त्सन्त्य् आकूतिं पुरुषस्य च ॥८॥

५,७।९अ - या महती महोन्माना विश्वा आशा व्यानशे ।
५,७।९च् - तस्यै हिरण्यकेश्यै निरृत्या अकरं नमः ॥९॥

५,७।१०अ - हिरण्यवर्णा सुभगा हिरण्यकशिपुर् मही ।
५,७।१०च् - तस्यै हिरण्यद्रापये 'रात्या अकरं नमः ॥१०॥


५,८।१अ - वैकङ्कतेनेध्मेन देवेभ्य आज्यं वह ।
५,८।१च् - अग्ने तां इह मादय सर्व आ यन्तु मे हवम् ॥१॥

५,८।२अ - इन्द्रा याहि मे हवम् इदं करिष्यामि तच् छृणु ।
५,८।२च् - इम अइन्द्रा अतिसरा आकूतिं सं नमन्तु मे ।
५,८।२ए - तेभिः शकेम वीर्यं जातवेदस् तनूवशिन् ॥२॥

५,८।३अ - यद् असाव् अमुतो देवा अदेवः संश्चिकीर्षति ।
५,८।३च् - मा तस्याग्निर् हव्यं वाक्षीद् धवं देवा अस्य मोप गुर् ममैव हवम् एतन ॥३॥

५,८।४अ - अति धावतातिसरा इन्द्रस्य वचसा हत ।
५,८।४च् - अविं वृक इव मथ्नीत स वो जीवन् मा मोचि प्राणम् अस्यापि नह्यत ॥४॥

५,८।५अ - यम् अमी पुरोदधिरे ब्रह्माणम् अपभूतये ।
५,८।५च् - इन्द्र स ते अधस्पदं तं प्रत्य् अस्यामि मृत्यवे ॥५॥

५,८।६अ - यदि प्रेयुर् देवपुरा ब्रह्म वर्माणि चक्रिरे ।
५,८।६च् - तनूपानं परिपाणं कृण्वाना यद् उपोचिरे सर्वं तद् अरसं कृधि ॥६॥

५,८।७अ - यान् असाव् अतिसरांश् चकार कृणवच् च यान् ।
५,८।७च् - त्वं तान् इन्द्र वृत्रहन् प्रतीचः पुनर् आ कृधि यथामुं तृणहां जनम् ॥७॥

५,८।८अ - यथेन्द्र उद्वाचनं लब्ध्वा चक्रे अधस्पदम् ।
५,८।८च् - कृण्वे 'हम् अधरान् तथा अमूञ् छश्वतीभ्यः समाभ्यः ॥८॥

५,८।९अ - अत्रैनान् इन्द्र वृत्रहन्न् उग्रो मर्मणि विध्य ।
५,८।९च् - अत्रैवैनान् अभि तिष्ठेन्द्र मेद्य् अहं तव ।
५,८।९ए - अनु त्वेन्द्रा रभामहे स्याम सुमतौ तव ॥९॥


५,९।१अ - दिवे स्वाहा ॥१॥

५,९।२अ - पृथिव्यै स्वाहा ॥२॥

५,९।३अ - अन्तरिक्षाय स्वाहा ॥३॥

५,९।४अ - अन्तरिक्षाय स्वाहा ॥४॥

५,९।५अ - दिवे स्वाहा ॥५॥

५,९।६अ - पृथिव्यै स्वाहा ॥६॥

५,९।७अ - सूर्यो मे चक्षुर् वातः प्राणो 'न्तरिक्षम् आत्मा पृथिवी शरीरम् ।
५,९।७च् - अस्तृतो नामाहम् अयम् अस्मि स आत्मानं नि दधे द्यावापृथिवीभ्यां गोपीथाय ॥७॥

५,९।८अ - उद् आयुर् उद् बलम् उत् कृतम् उत् कृत्याम् उन् मनीषाम् उद् इन्द्रियम् ।
५,९।८च् - आयुष्कृद् आयुष्पत्नी स्वधावन्तौ गोपा मे स्तं गोपायतं मा ।
५,९।८ए - आत्मसदौ मे स्तं मा मा हिंसिष्टम् ॥८॥


५,१०।१अ - अश्मवर्म मे 'सि यो मा प्राच्या दिशो 'घायुर् अभिदासात् ।
५,१०।१च् - एतत् स ऋछात् ॥१॥

५,१०।२अ - अश्मवर्म मे 'सि यो मा दक्षिणाया दिशो 'घायुर् अभिदासात् ।
५,१०।२च् - एतत् स ऋछात् ॥२॥

५,१०।३अ - अश्मवर्म मे 'सि यो मा प्रतीच्या दिशो 'घायुर् अभिदासात् ।
५,१०।३च् - एतत् स ऋछात् ॥३॥

५,१०।४अ - अश्मवर्म मे 'सि यो मोदीच्या दिशो 'घायुर् अभिदासात् ।
५,१०।४च् - एतत् स ऋछात् ॥४॥

५,१०।५अ - अश्मवर्म मे 'सि यो मा ध्रुवाया दिशो 'घायुर् अभिदासात् ।
५,१०।५च् - एतत् स ऋछात् ॥५॥

५,१०।६अ - अश्मवर्म मे 'सि यो मोर्ध्वाया दिशो 'घायुर् अभिदासात् ।
५,१०।६च् - एतत् स ऋछात् ॥६॥

५,१०।७अ - अश्मवर्म मे 'सि यो मा दिशाम् अन्तर्देशेभ्यो 'घायुर् अभिदासात् ।
५,१०।७च् - एतत् स ऋछात् ॥७॥

५,१०।८अ - बृहता मन उप ह्वये मातरिश्वना प्राणापानौ ।
५,१०।८च् - सूर्याच् चक्षुर् अन्तरिक्षाच् छ्रोत्रं पृथिव्याः शरीरम् ।
५,१०।८ए - सरस्वत्या वाचम् उप ह्वयामहे मनोयुजा ॥८॥


५,११।१अ - कथं महे असुरायाब्रवीर् इह कथं पित्रे हरये त्वेषनृम्णः ।
५,११।१च् - पृश्निं वरुण दक्षिणां ददावान् पुनर्मघ त्वं मनसाचिकित्सीः ॥१॥

५,११।२अ - न कामेन पुनर्मघो भवामि सं चक्षे कं पृश्निम् एताम् उपाजे ।
५,११।२च् - केन नु त्वम् अथर्वन् काव्येन केन जातेनासि जातवेदाः ॥२॥

५,११।३अ - सत्यम् अहं गभीरः काव्येन सत्यं जातेनास्मि जातवेदाः ।
५,११।३च् - न मे दासो नार्यो महित्वा व्रतं मीमाय यद् अहं धरिष्ये ॥३॥

५,११।४अ - न त्वद् अन्यः कवितरो न मेधया धीरतरो वरुण स्वधावन् ।
५,११।४च् - त्वं ता विश्वा भुवनानि वेत्थ स चिन् नु त्वज् जनो मायी बिभाय ॥४॥

५,११।५अ - त्वं ह्य् अङ्ग वरुण स्वधावन् विश्वा वेत्थ जनिम सुप्रणीते ।
५,११।५च् - किं रजस एना परो अन्यद् अस्त्य् एना किं परेणावरम् अमुर ॥५॥

५,११।६अ - एकं रजस एना परो अन्यद् अस्त्य् एना पर एकेन दुर्णशं चिद् अर्वाक् ।
५,११।६च् - तत् ते विद्वान् वरुण प्र ब्रवीम्य् अधोवचसः पणयो भवन्तु नीचैर् दासा उप सर्पन्तु भूमिम् ॥६॥

५,११।७अ - त्वं ह्य् अङ्ग वरुण ब्रवीषि पुनर्मघेष्व् अवद्यानि भूरि ।
५,११।७च् - मो षु पणींर् अभ्य् एतावतो भून् मा त्वा वोचन्न् अराधसं जनासः ॥७॥

५,११।८अ - मा मा वोचन्न् अराधसं जनासः पुनस् ते पृश्निं जरितर् ददामि ।
५,११।८च् - स्तोत्रं मे विश्वम् आ याहि शचीभिर् अन्तर् विश्वासु मानुषीषु दिक्षु ॥८॥

५,११।९अ - आ ते स्तोत्राण्य् उद्यतानि यन्त्व् अन्तर् विश्वासु मानुषीषु दिक्षु ।
५,११।९च् - देहि नु मे यन् मे अदत्तो असि युज्यो मे सप्तपदः सखासि ॥९॥

५,११।१०अ - समा नौ बन्धुर् वरुण समा जा वेदाहं तद् यन् नाव् एषा समा जा ।
५,११।१०च् - ददामि तद् यत् ते अदत्तो अस्मि युज्यस् ते सप्तपदः सखास्मि ॥१०॥

५,११।११अ - देवो देवाय गृणते वयोधा विप्रो विप्राय स्तुवते सुमेधाः ।
५,११।११च् - अजीजनो हि वरुण स्वधावन्न् अथर्वाणं पितरं देवबन्धुम् ।
५,११।११ए - तस्मा उ राधः कृणुहि सुप्रशस्तं सखा नो असि परमं च बन्धुः ॥११॥


५,१२।१अ - समिद्धो अद्य मनुषो दुरोणे देवो देवान् यजसि जातवेदः ।
५,१२।१च् - आ च वह मित्रमहश् चिकित्वान् त्वं दूतः कविर् असि प्रचेताः ॥१॥

५,१२।२अ - तनूनपात् पथ ऋतस्य यानान् मध्वा समञ्जन्त् स्वदया सुजिह्व ।
५,१२।२च् - मन्मानि धीभिर् उत यज्ञम् ऋन्धन् देवत्रा च कृणुह्य् अध्वरम् नः ॥२॥

५,१२।३अ - आजुह्वान ईढ्यो बन्द्यश् चा याह्य् अग्ने वसुभिः सजोषाः ।
५,१२।३च् - त्वं देवानाम् असि यह्व होता स एनान् यक्षीषितो यजीयान् ॥३॥

५,१२।४अ - प्राचीनं बर्हिः प्रदिशा पृथिव्या वस्तोर् अस्या वृज्यते अग्रे अह्नाम् ।
५,१२।४च् - व्य् उ प्रथते वितरं वरीयो देवेभ्यो अदितये स्योनम् ॥४॥

५,१२।५अ - व्यचस्वतीर् उर्विया वि श्रयन्तां पतिभ्यो न जनयः शुम्भमानाः ।
५,१२।५च् - देवीर् द्वारो बृहतीर् विश्वमिन्वा देवेभ्यो भवत सुप्रायणाः ॥५॥

५,१२।६अ - आ सुष्वयन्ती यजते उपाके उषासानक्ता सदतां नि योनौ ।
५,१२।६च् - दिव्ये योषणे बृहती सुरुक्मे अधि श्रियं शुक्रपिशं दधाने ॥६॥

५,१२।७अ - दैव्या होतारा प्रथमा सुवाचा मिमाना यज्ञं मनुषो यजध्यै ।
५,१२।७च् - प्रचोदयन्ता विदथेषु कारू प्राचीनं ज्योतिः प्रदिशा दिशन्ता ॥७॥

५,१२।८अ - आ नो यज्ञं भारती तूयम् एत्व् इढा मनुष्वद् इह चेतयन्ती ।
५,१२।८च् - तिस्रो देवीर् बर्हिर् एदं स्योनं सरस्वतीः स्वपसः सदन्ताम् ॥८॥

५,१२।९अ - य इमे द्यावापृथिवी जनित्री रूपैर् अपिंशद् भुवनानि विश्वा ।
५,१२।९च् - तम् अद्य होतर् इषितो यजीयान् देवं त्वष्टारम् इह यक्षि विद्वान् ॥९॥

५,१२।१०अ - उपावसृज त्मन्या समञ्जन् देवानां पाथ ऋतुथा हवींषि ।
५,१२।१०च् - वनस्पतिः शमिता देवो अग्निः स्वदन्तु हव्यं मधुना घृतेन ॥१०॥

५,१२।११अ - सद्यो जातो व्य् अमिमीत यज्ञम् अग्निर् देवानाम् अभवत् पुरोगाः ।
५,१२।११च् - अस्य होतुः प्रशिष्य् ऋतस्य वाचि स्वाहाकृतं हविर् अदन्तु देवाः ॥११॥


५,१३।१अ - ददिर् हि मह्यं वरुणो दिवः कविर् वचोभिर् उग्रैर् नि रिणामि ते विषम् ।
५,१३।१च् - खातम् अखातम् उत सक्तम् अग्रभम् इरेव धन्वन् नि जजास ते विषम् ॥१॥

५,१३।२अ - यत् ते अपोदकं विषं तत् त एतास्व् अग्रभम् ।
५,१३।२च् - गृह्णामि ते मध्यमम् उत्तमं रसम् उतावमम् भियसा नेशद् आद् उ ते ॥२॥

५,१३।३अ - वृषा मे रवो नभसा न तन्यतुर् उग्रेण ते वचसा बाध आद् उ ते ।
५,१३।३च् - अहं तम् अस्य नृभिर् अग्रभम् रसं तमस इव ज्योतिर् उद् एतु सूर्यः ॥३॥

५,१३।४अ - चक्षुषा ते चक्षुर् हन्मि विषेण हन्मि ते विषम् ।
५,१३।४च् - अहे म्रियस्व मा जीवीः प्रत्यग् अभ्य् एतु त्वा विषम् ॥४॥
५,१३।५अ - कैरात पृश्न उपतृण्य बभ्र आ मे शृणुतासिता अलीकाः ।
५,१३।५च् - मा मे सख्युः स्तामानम् अपि ष्ठाताश्रावयन्तो नि विषे रमध्वम् ॥५॥

५,१३।६अ - असितस्य तैमातस्य बभ्रोर् अपोदकस्य च ।
५,१३।६च् - सात्रासाहस्याहं मन्योर् अव ज्याम् इव धन्वनो वि मुञ्चामि रथां इव ॥६॥

५,१३।७अ - आलिगी च विलिगी च पिता च मता च ।
५,१३।७च् - विद्म वः सर्वतो बन्ध्व् अरसाः किं करिष्यथ ॥७॥

५,१३।८अ - उरुगूलाया दुहिता जाता दास्य् असिक्न्या ।
५,१३।८च् - प्रतङ्कं दद्रुषीणां सर्वासाम् अरसम् विषम् ॥८॥
५,१३।९अ - कर्णा श्वावित् तद् अब्रवीद् गिरेर् अवचरन्तिका ।
५,१३।९च् - याः काश् चेमाः खनित्रिमास् तासाम् अरसतमं विषम् ॥९॥

५,१३।१०अ - ताबुवं न ताबुवं न घेत् त्वम् असि ताबुवम् ।
५,१३।१०च् - ताबुवेनारसं विषम् ॥१०॥

५,१३।११अ - तस्तुवं न तस्तुवं न घेत् त्वम् असि तस्तुवम् ।
५,१३।११च् - तस्तुवेनारसं विषम् ॥११॥


५,१४।१अ - सुपर्णस् त्वान्व् अविन्दत् सूकरस् त्वाखनन् नसा ।
५,१४।१च् - दिप्सौषधे त्वं दिप्सन्तम् अव कृत्याकृतं जहि ॥१॥

५,१४।२अ - अव जहि यातुधानान् अव कृत्याकृतं जहि ।
५,१४।२च् - अथो यो अस्मान् दिप्सति तम् उ त्वं जह्य् ओषधे ॥२॥

५,१४।३अ - रिश्यस्येव परीशासं परिकृत्य परि त्वचः ।
५,१४।३च् - कृत्यां कृत्याकृते देवा निष्कम् इव प्रति मुञ्चत ॥३॥

५,१४।४अ - पुनः कृत्यां कृत्याकृते हस्तगृह्य परा णय ।
५,१४।४च् - समक्षम् अस्मा आ धेहि यथा कृत्याकृतम् हनत् ॥४॥

५,१४।५अ - कृत्याः सन्तु कृत्याकृते शपथः शपथीयते ।
५,१४।५च् - सुखो रथ इव वर्ततां कृत्या कृत्याकृतं पुनः ॥५॥

५,१४।६अ - यदि स्त्री यदि वा पुमान् कृत्यां चकार पाप्मने ।
५,१४।६च् - ताम् उ तस्मै नयामस्य् अश्वम् इवाश्वाभिधान्या ॥६॥

५,१४।७अ - यदि वासि देवकृता यदि वा पुरुषैः कृता ।
५,१४।७च् - तां त्वा पुनर् णयामसीन्द्रेण सयुजा वयम् ॥७॥
५,१४।८अ - अग्ने पृतनाषाट् पृतनाः सहस्व ।
५,१४।८च् - पुनः कृत्यां कृत्याकृते प्रतिहरणेन हरामसि ॥८॥

५,१४।९अ - कृतव्यधनि विध्य तं यश् चकार तम् इज् जहि ।
५,१४।९च् - न त्वाम् अचक्रुषे वयं वधाय सं शिशीमहि ॥९॥

५,१४।१०अ - पुत्र इव पितरं गछ स्वज इवाभिष्ठितो दश ।
५,१४।१०च् - बन्धम् इवावक्रामी गछ कृत्ये कृत्याकृतं पुनः ॥१०॥

५,१४।११अ - उद् एणीव वारण्य् अभिस्कन्दं मृगीव ।
५,१४।११च् - कृत्या कर्तारम् ऋछतु ॥११॥

५,१४।१२अ - इष्वा ऋजीयः पततु द्यावापृथिवी तं प्रति ।
५,१४।१२च् - सा तं मृगम् इव गृह्णातु कृत्या कृत्याकृतं पुनः ॥१२॥

५,१४।१३अ - अग्निर् इवैतु प्रतिकूलम् अनुकूलम् इवोदकम् ।
५,१४।१३च् - सुखो रथ इव वर्ततां कृत्या कृत्याकृतं पुनः ॥१३॥


५,१५।१अ - एका च मे दश च मे 'पवक्तार ओषधे ।
५,१५।१च् - ऋतजात ऋतावरि मधु मे मधुला करः ॥१॥
५,१५।२अ - द्वे च मे विंशतिश् च मे 'पवक्तार ओषधे ।
५,१५।२च् - ऋतजात ऋतावरि मधु मे मधुला करः ॥२॥

५,१५।३अ - तिस्रश् च मे त्रिंशच् च मे 'पवक्तार ओषधे ।
५,१५।३च् - ऋतजात ऋतावरि मधु मे मधुला करः ॥३॥

५,१५।४अ - चतस्रश् च मे चत्वारिंशच् च मे 'पवक्तार ओषधे ।
५,१५।४च् - ऋतजात ऋतावरि मधु मे मधुला करः ॥४॥

५,१५।५अ - पञ्च च मे पञ्चाशच् च मे 'पवक्तार ओषधे ।
५,१५।५च् - ऋतजात ऋतावरि मधु मे मधुला करः ॥५॥

५,१५।६अ - षट् च मे षष्टिश् च मे 'पवक्तार ओषधे ।
५,१५।६च् - ऋतजात ऋतावरि मधु मे मधुला करः ॥६॥

५,१५।७अ - सप्त च मे सप्ततिश् च मे 'पवक्तार ओषधे ।
५,१५।७च् - ऋतजात ऋतावरि मधु मे मधुला करः ॥७॥

५,१५।८अ - अष्ट च मे 'शीतिश् च मे 'पवक्तार ओषधे ।
५,१५।८च् - ऋतजात ऋतावरि मधु मे मधुला करः ॥८॥

५,१५।९अ - नव च मे नवतिश् च मे 'पवक्तार ओषधे ।
५,१५।९च् - ऋतजात ऋतावरि मधु मे मधुला करः ॥९॥

५,१५।१०अ - दश च मे शतं च मे 'पवक्तार ओषधे ।
५,१५।१०च् - ऋतजात ऋतावरि मधु मे मधुला करः ॥१०॥

५,१५।११अ - शतं च मे सहस्रं चापवक्तार ओषधे ।
५,१५।११च् - ऋतजात ऋतावरि मधु मे मधुला करः ॥११॥


५,१६।१अ - यद्य् एकवृषो 'सि सृजारसो 'सि ॥१॥

५,१६।२अ - यदि द्विवृषो 'सि सृजारसो 'सि ॥२॥

५,१६।३अ - यदि त्रिवृसो 'सि सृजारसो 'सि ॥३॥

५,१६।४अ - यदि चतुर्वृषो 'सि सृजारसो 'सि ॥४॥

५,१६।५अ - यदि पञ्चवृषो 'सि सृजारसो 'सि ॥५॥

५,१६।६अ - यदि षढ्वृषो 'सि सृजारसो 'सि ॥६॥

५,१६।७अ - यदि सप्तवृषो 'सि सृजारसो 'सि ॥७॥

५,१६।८अ - यद्य् अष्टवृषो 'सि सृजारसो 'सि ॥८॥

५,१६।९अ - यदि नववृषो 'सि सृजारसो 'सि ॥९॥

५,१६।१०अ - यदि दशवृषो 'सि सृजारसो 'सि ॥१०॥

५,१६।११अ - यद्य् एकादशो 'सि सो 'पोदको 'सि ॥११॥


५,१७।१अ - ते 'वदन् प्रथमा ब्रह्मकिल्बिषे 'कूपारः सलिलो मातरिश्वा ।
५,१७।१च् - वीढुहरास् तप उग्रं मयोभूर् आपो देवीः प्रथमजा ऋतस्य ॥१॥

५,१७।२अ - सोमो राजा प्रथमो ब्रह्मजायां पुनः प्रायछद् अहृणीयमानः ।
५,१७।२च् - अन्वर्तिता वरुणो मित्र आसीद् अग्निर् होता हस्तगृह्या निनाय ॥२॥

५,१७।३अ - हस्तेनैव ग्राह्य आधिर् अस्या ब्रह्मजायेति चेद् अवोचत् ।
५,१७।३च् - न दूताय प्रहेया तस्थ एषा तथा राष्ट्रं गुपितं क्षत्रियस्य ॥३॥

५,१७।४अ - याम् आहुस् तारकैषा विकेशीति दुछुनां ग्रामम् अवपद्यमानाम् ।
५,१७।४च् - सा ब्रह्मजाया वि दुनोति राष्ट्रं यत्र प्रापादि शश उल्कुषीमान् ॥४॥

५,१७।५अ - ब्रह्मचारी चरति वेविषद् विषः स देवानां भवत्य् एकम् अङ्गम् ।
५,१७।५च् - तेन जायाम् अन्व् अविन्दद् बृहस्पतिः सोमेन नीतां जुह्वं न देवाः ॥५॥

५,१७।६अ - देवा वा एतस्याम् अवदन्त पूर्वे सप्तऋषयस् तपसा ये निषेदुः ।
५,१७।६च् - भीमा जाया ब्राह्मणस्यापनीता दुर्धां दधाति परमे व्योमन् ॥६॥

५,१७।७अ - ये गर्भा अवपद्यन्ते जगद् यच् चापलुप्यते ।
५,१७।७च् - वीरा ये तृह्यन्ते मिथो ब्रह्मजाया हिनस्ति तान् ॥७॥

५,१७।८अ - उत यत् पतयो दश स्त्रियाः पूर्वे अब्राह्मणाः ।
५,१७।८च् - ब्रह्मा चेद् धस्तम् अग्रहीत् स एव पतिर् एकधा ॥८॥

५,१७।९अ - ब्राह्मण एव पतिर् न राजन्यो न वैश्यः ।
५,१७।९च् - तत् सूर्यः प्रब्रुवन्न् एति पञ्चभ्यो मानवेभ्यः ॥९॥

५,१७।१०अ - पुनर् वै देवा अददुः पुनर् मनुष्या अददुः ।
५,१७।१०च् - राजानः सत्यं गृह्णाना ब्रह्मजायां पुनर् ददुः ॥१०॥

५,१७।११अ - पुनर्दाय ब्रह्मजायां कृत्वा देवैर् निकिल्बिषम् ।
५,१७।११च् - ऊर्जं पृथिव्या भक्त्वोरुगायम् उपासते ॥११॥

५,१७।१२अ - नास्य जाया शतवाही कल्याणी तल्पम् आ शये ।
५,१७।१२च् - यस्मिन् राष्ट्रे निरुध्यते ब्रह्मजायाचित्त्या ॥१२॥

५,१७।१३अ - न विकर्णः पृथुशिरास् तस्मिन् वेश्मनि जायते ।
५,१७।१३च् - यस्मिन् राष्ट्रे निरुध्यते ब्रह्मजायाचित्त्या ॥१३॥

५,१७।१४अ - नास्य क्षत्ता निष्कग्रीवः सूनानाम् एत्य् अग्रतः ।
५,१७।१४च् - यस्मिन् राष्ट्रे निरुध्यते ब्रह्मजायाचित्त्या ॥१४॥

५,१७।१५अ - नास्य श्वेतः कृष्णकर्णो धुरि युक्तो महीयते ।
५,१७।१५च् - यस्मिन् राष्ट्रे निरुध्यते ब्रह्मजायाचित्त्या ॥१५॥

५,१७।१६अ - नास्य क्षेत्रे पुष्करिणी नाण्ढीकं जायते बिसम् ।
५,१७।१६च् - यस्मिन् राष्ट्रे निरुध्यते ब्रह्मजायाचित्त्या ॥१६॥

५,१७।१७अ - नास्मै पृश्निं वि दुहन्ति ये 'स्या दोहम् उपासते ।
५,१७।१७च् - यस्मिन् राष्ट्रे निरुध्यते ब्रह्मजायाचित्त्या ॥१७॥

५,१७।१८अ - नास्य धेनुः कल्याणी नानढ्वान्त् सहते धुरम् ।
५,१७।१८च् - विजानिर् यत्र ब्रह्मणो रात्रिं वसति पापया ॥१८॥


५,१८।१अ - नैतां ते देवा अददुस् तुभ्यं नृपते अत्तवे ।
५,१८।१च् - मा ब्राह्मणस्य राजन्य गां जिघत्सो अनाद्याम् ॥१॥

५,१८।२अ - अक्षद्रुग्धो राजन्यः पाप आत्मपराजितः ।
५,१८।२च् - स ब्राह्मणस्य गाम् अद्याद् अद्य जीवानि मा श्वः ॥२॥

५,१८।३अ - आविष्टिताघविषा पृदाकूर् इव चर्मणा ।
५,१८।३च् - सा ब्राह्मणस्य राजन्य तृष्टैषा गौर् अनाद्या ॥३॥

५,१८।४अ - निर् वै क्षत्रं नयति हन्ति वर्चो 'ग्निर् इवारब्धो वि दुनोति सर्वम् ।
५,१८।४च् - यो ब्राह्मणं मन्यते अन्नम् एव स विषस्य पिबति तैमातस्य ॥४॥

५,१८।५अ - य एनं हन्ति मृदुं मन्यमानो देवपीयुर् धनकामो न चित्तात् ।
५,१८।५च् - सं तस्येन्द्रो हृदये 'ग्निम् इन्धे उभे एनं द्विष्टो नभसी चरन्तम् ॥५॥

५,१८।६अ - न ब्राह्मणो हिंसितव्यो 'ग्निः प्रियतनोर् इव ।
५,१८।६च् - सोमो ह्य् अस्य दायाद इन्द्रो अस्याभिशस्तिपाः ॥६॥

५,१८।७अ - शतापाष्ठां नि गिरति तां न शक्नोति निःखिदम् ।
५,१८।७च् - अन्नं यो ब्रह्मणाम् मल्वः स्वाद्व् अद्मीति मन्यते ॥७॥

५,१८।८अ - जिह्वा ज्या भवति कुल्मलं वाङ् नाढीका दन्तास् तपसाभिदिग्धाः ।
५,१८।८च् - तेभिर् ब्रह्मा विध्यति देवपीयून् हृद्बलैर् धनुर्भिर् देवजूतैः ॥८॥

५,१८।९अ - तीक्ष्णेषवो ब्राह्मणा हेतिमन्तो याम् अस्यन्ति शरव्यां न सा मृषा ।
५,१८।९च् - अनुहाय तपसा मन्युना चोत दुराद् अव भिन्दन्त्य् एनम् ॥९॥

५,१८।१०अ - ये सहस्रम् अराजन्न् आसन् दशशता उत ।
५,१८।१०च् - ते ब्राह्मणस्य गां जग्ध्वा वैतहव्याः पराभवन् ॥१०॥

५,१८।११अ - गौर् एव तान् हन्यमाना वैतहव्यां अवातिरत् ।
५,१८।११च् - ये केसरप्राबन्धायाश् चरमाजाम् अपेचिरन् ॥११॥

५,१८।१२अ - एकशतं ता जनता या भूमिर् व्यधूनुत ।
५,१८।१२च् - प्रजां हिंसित्वा ब्राह्मणीम् असंभव्यं पराभवन् ॥१२॥

५,१८।१३अ - देवपीयुश् चरति मर्त्येषु गरगीर्णो भवत्य् अस्थिभूयान् ।
५,१८।१३च् - यो ब्राह्मणं देवबन्धुं हिनस्ति न स पितृयाणम् अप्य् एति लोकम् ॥१३॥

५,१८।१४अ - अग्निर् वै नः पदवायः सोमो दायाद उच्यते ।
५,१८।१४च् - हन्ताभिशस्तेन्द्रस् तथा तद् वेधसो विदुः ॥१४॥

५,१८।१५अ - इषुर् इव दिग्धा नृपते पृदाकूर् इव गोपते ।
५,१८।१५च् - सा ब्राह्मणस्येषुर् घोरा तया विध्यति पीयतः ॥१५॥


५,१९।१अ - अतिमात्रम् अवर्धन्त नोद् इव दिवम् अस्पृशन् ।
५,१९।१च् - भृगुं हिंसित्वा सृञ्जया वैतहव्याः पराभवन् ॥१॥

५,१९।२अ - ये बृहत्सामानम् आङ्गिरसम् आर्पयन् ब्राह्मणं जनाः ।
५,१९।२च् - पेत्वस् तेषाम् उभयादम् अविस् तोकान्य् आवयत् ॥२॥

५,१९।३अ - ये ब्राह्मणं प्रत्यष्ठीवन् ये वास्मिञ् छुल्कम् ईषिरे ।
५,१९।३च् - अस्नस् ते मध्ये कुल्यायाः केशान् खादन्त आसते ॥३॥

५,१९।४अ - ब्रह्मगवी पच्यमाना यावत् साभि विजङ्गहे ।
५,१९।४च् - तेजो राष्ट्रस्य निर् हन्ति न वीरो जायते वृषा ॥४॥

५,१९।५अ - क्रूरम् अस्या आशसनं तृष्टं पिशितम् अस्यते ।
५,१९।५च् - क्षीरं यद् अस्याः पीयते तद् वै पितृषु किल्बिषम् ॥५॥

५,१९।६अ - उग्रो राजा मन्यमानो ब्राह्मणं यो जिघत्सति ।
५,१९।६च् - परा तत् सिच्यते राष्ट्रं ब्राह्मणो यत्र जीयते ॥६॥

५,१९।७अ - अष्टापदी चतुरक्षी चतुःश्रोत्रा चतुर्हनुः ।
५,१९।७च् - द्व्यास्या द्विजिह्वा भूत्वा सा राष्ट्रम् अव धूनुते ब्रह्मज्यस्य ॥७॥

५,१९।८अ - तद् वै राष्ट्रम् आ स्रवति नावं भिन्नाम् इवोदकम् ।
५,१९।८च् - ब्रह्माणं यत्र हिंसन्ति तद् राष्ट्रं हन्ति दुछुना ॥८॥

५,१९।९अ - तं वृक्षा अप सेधन्ति छायां नो मोप गा इति ।
५,१९।९च् - यो ब्राह्मणस्य सद् धनम् अभि नारद मन्यते ॥९॥

५,१९।१०अ - विषम् एतद् देवकृतं राजा वरुणो 'ब्रवीत् ।
५,१९।१०च् - न ब्राह्मणस्य गां जग्ध्वा रास्त्रे जागार कश् चन ॥१०॥

५,१९।११अ - नवैव ता नवतयो या भूमिर् व्यधूनुत ।
५,१९।११च् - प्रजां हिंसित्वा ब्राह्मणीम् असंभव्यं पराभवन् ॥११॥

५,१९।१२अ - याम् मृतायानुबध्नन्ति कूद्यं पदयोपनीम् ।
५,१९।१२च् - तद् वै ब्रह्मज्य ते देवा उपस्तरणम् अब्रुवन् ॥१२॥

५,१९।१३अ - अश्रूणि कृपमानस्य यानि जीतस्य वावृतुः ।
५,१९।१३च् - तं वै ब्रह्मज्य ते देवा अपां भागम् अधारयन् ॥१३॥

५,१९।१४अ - येन मृतं स्नपयन्ति श्मश्रूणि येनोन्दते ।
५,१९।१४च् - तं वै ब्रह्मज्य ते देवा अपां भागम् अधारयन् ॥१४॥

५,१९।१५अ - न वर्षं मैत्रावरुणं ब्रह्मज्यम् अभि वर्षति ।
५,१९।१५च् - नास्मै समितिः कल्पते न मित्रं नयते वशम् ॥१५॥


५,२०।१अ - उच्चैर्घोषो दुन्दुभिः सत्वनायन् वानस्पत्यः संभृत उसृइयाभिः ।
५,२०।१च् - वाचं क्षुणुवानो दमयन्त् सपत्नान्त् सिंह इव जेष्यन्न् अभि तंस्तनीहि ॥१॥

५,२०।२अ - सिंह इवास्तानीद् द्रुवयो विबद्धो 'भिक्रन्दन्न् ऋषभो वासिताम् इव ।
५,२०।२च् - वृषा त्वं वध्रयस् ते सपत्ना अइन्द्रस् ते शुष्मो अभिमातिषाहः ॥२॥

५,२०।३अ - वृषेव यूथे सहसा विदानो गव्यन्न् अभि रुव संधनाजित् ।
५,२०।३च् - शुचा विध्य हृदयं परेषां हित्वा ग्रामान् प्रच्युता यन्तु शत्रवः ॥३॥

५,२०।४अ - संजयन् पृतना ऊर्ध्वमायुर् गृह्या गृह्णानो बहुधा वि चक्ष्व ।
५,२०।४च् - दैवीं वाचं दुन्दुभ आ गुरस्व वेधाः शत्रूणाम् उप भरस्व वेदः ॥४॥

५,२०।५अ - दुन्दुभेर् वाचं प्रयतां वदन्तीम् आशृण्वती नाथिता घोषबुद्धा ।
५,२०।५च् - नारी पुत्रं धावतु हस्तगृह्यामित्री भीता समरे वधानाम् ॥५॥

५,२०।६अ - पूर्वो दुन्दुभे प्र वदासि वाचं भूम्याः पृष्ठे वद रोचमानः ।
५,२०।६च् - अमित्रसेनाम् अभिजञ्जभानो द्युमद् वद दुन्दुभे सूनृतावत् ॥६॥

५,२०।७अ - अन्तरेमे नभसी घोषो अस्तु पृथक् ते ध्वनयो यन्तु शीभम् ।
५,२०।७च् - अभि क्रन्द स्तनयोत्पिपानः श्लोककृन् मित्रतूर्याय स्वर्धी ॥७॥

५,२०।८अ - धीभिः कृतः प्र वदाति वाचम् उद् धर्षय सत्वनाम् आयुधानि ।
५,२०।८च् - इन्द्रमेदी सत्वनो नि ह्वयस्व मित्रैर् अमित्रां अव जङ्घनीहि ॥८॥

५,२०।९अ - संक्रन्दनः प्रवदो धृष्णुषेणः प्रवेदकृद् बहुधा ग्रामघोषी ।
५,२०।९च् - श्रियो वन्वनो वयुनानि विद्वान् कीर्तिम् बहुभ्यो वि हर द्विराजे ॥९॥

५,२०।१०अ - श्रेयःकेतो वसुजित् सहीयान्त् संग्रामजित् संशितो ब्रह्मणासि ।
५,२०।१०च् - अंशून् इव ग्रावाधिषवणे अद्रिर् गव्यन् दुन्दुभे'धि नृत्य वेदः ॥१०॥

५,२०।११अ - शत्रूषाण् नीषाद् अभिमातिषाहो गवेषणः सहमान उद्भित् ।
५,२०।११च् - वाग्वीव मन्त्रं प्र भरस्व वाचम् सांग्रामजित्यायेषम् उद् वदेह ॥११॥

५,२०।१२अ - अच्युतच्युत् समदो गमिष्ठो मृधो जेता पुरएतायोध्यः ।
५,२०।१२च् - इन्द्रेण गुप्तो विदथा निचिक्यद् धृद्द्योतनो द्विषतां याहि शीभम् ॥१२॥


५,२१।१अ - विहृदयं वैमनस्यं वदामित्रेषु दुन्दुभे ।
५,२१।१च् - विद्वेषं कश्मशं भयम् अमित्रेषु नि दध्मस्य् अव एनान् दुन्दुभे जहि ॥१॥

५,२१।२अ - उद्वेपमाना मनसा चक्षुषा हृदयेन च ।
५,२१।२च् - धावन्तु बिभ्यतो 'मित्राः प्रत्रासेनाज्ये हुते ॥२॥

५,२१।३अ - वानस्पत्यः संभृत उस्रियाभिर् विश्वगोत्र्यः ।
५,२१।३च् - प्रत्रासम् अमित्रेभ्यो वदाज्येनाभिघारितः ॥३॥

५,२१।४अ - यथा मृगाः संविजन्त आरण्याः पुरुषाद् अधि ।
५,२१।४च् - एव त्वं दुन्दुभे 'मित्रान् अभि क्रन्द प्र त्रासयाथो चित्तानि मोहय ॥४॥

५,२१।५अ - यथा वृकाद् अजावयो धावन्ति बहु बिभ्यतीः ।
५,२१।५च् - एव त्वं दुन्दुभे 'मित्रान् अभि क्रन्द प्र त्रासयाथो चित्तानि मोहय ॥५॥

५,२१।६अ - यथा श्येनात् पतत्रिणः संविजन्ते अहर्दिवि सिंहस्य स्तनथोर् यथा ।
५,२१।६च् - एव त्वं दुन्दुभे 'मित्रान् अभि क्रन्द प्र त्रासयाथो चित्तानि मोहय ॥६॥

५,२१।७अ - परामित्रान् दुन्दुभिना हरिणस्याजिनेन च ।
५,२१।७च् - सर्वे देवा अतित्रसन् ये संग्रामस्येषते ॥७॥

५,२१।८अ - यैर् इन्द्रः प्रक्रीढते पद्घोषैश् छायया सह ।
५,२१।८च् - तैर् अमित्रास् त्रसन्तु नो 'मी ये यन्त्य् अनीकशः ॥८॥
५,२१।९अ - ज्याघोषा दुन्दुभयो 'भि क्रोशन्तु या दिशः ।
५,२१।९च् - सेनाः पराजिता यतीर् अमित्राणाम् अनीकशः ॥९॥

५,२१।१०अ - आदित्य चक्षुर् आ दत्स्व मरीचयो 'नु धावत ।
५,२१।१०च् - पत्सङ्गिनीर् आ सजन्तु विगते बाहुवीर्ये ॥१०॥

५,२१।११अ - यूयम् उग्रा मरुतः पृश्निमातर इन्द्रेण युजा प्र मृनीत शत्रून् ।
५,२१।११च् - सोमो राजा वरुणो राजा महादेव उत मृत्युर् इन्द्रः ॥११॥

५,२१।१२अ - एता देवसेनाः सूर्यकेतवः सचेतसः ।
५,२१।१२च् - अमित्रान् नो जयन्तु स्वाहा ॥१२॥


५,२२।१अ - अग्निस् तक्मानम् अप बाधताम् इतः सोमो ग्रावा वरुणः पूतदक्षाः ।
५,२२।१च् - वेदिर् बर्हिः समिधः शोशुचाना अप द्वेषांस्य् अमुया भवन्तु ॥१॥

५,२२।२अ - अयं यो विश्वान् हरितान् कृणोष्य् उच्छोचयन्न् अग्निर् इवाभिदुन्वन् ।
५,२२।२च् - अधा हि तक्मन्न् अरसो हि भूया अधा न्यङ्ङ् अधरान् वा परेहि ॥२॥

५,२२।३अ - यः परुषः पारुषेयो 'वध्वंस इवारुणः ।
५,२२।३च् - तक्मानं विश्वधावीर्याधराञ्चं परा सुवा ॥३॥

५,२२।४अ - अधराञ्चम् प्र हिणोमि नमः कृत्वा तक्मने ।
५,२२।४च् - शकम्भरस्य मुष्टिहा पुनर् एतु महावृषान् ॥४॥

५,२२।५अ - ओको अस्य मूजवन्त ओको अस्य महावृषाः ।
५,२२।५च् - यावज् जातस् तक्मंस् तावान् असि बल्हिकेषु न्योचरः ॥५॥

५,२२।६अ - तक्मन् व्याल वि गद व्यङ्ग भूरि यावय ।
५,२२।६च् - दासीं निष्टक्वरीम् इछ ताम् वज्रेण सम् अर्पय ॥६॥

५,२२।७अ - तक्मन् मूजवतो गछ बल्हिकान् वा परस्तराम् ।
५,२२।७च् - शूद्राम् इछ प्रफर्व्यं तां तक्मन् वीव धूनुहि ॥७॥

५,२२।८अ - महावृषान् मूजवतो बन्ध्व् अद्धि परेत्य ।
५,२२।८च् - प्रैतानि तक्मने ब्रूमो अन्यक्षेत्राणि वा इमा ॥८॥

५,२२।९अ - अन्यक्षेत्रे न रमसे वशी सन् मृढयासि नः ।
५,२२।९च् - अभूद् उ प्रार्थस् तक्मा स गमिष्यति बल्हिकान् ॥९॥

५,२२।१०अ - यत् त्वं शीतो 'थो रूरः सह कासावेपयः ।
५,२२।१०च् - भीमास् ते तक्मन् हेतयस् ताभिः स्म परि वृङ्ग्धि नः ॥१०॥

५,२२।११अ - मा स्मैतान्त् सखीन् कुरुथा बलासं कासम् उद्युगम् ।
५,२२।११च् - मा स्मातो'र्वाङ् अइः पुनस् तत् त्वा तक्मन्न् उप ब्रुवे ॥११॥

५,२२।१२अ - तक्मन् भ्रात्रा बलासेन स्वस्रा कासिकया सह ।
५,२२।१२च् - पाप्मा भ्रातृव्येण सह गछामुम् अरणं जनम् ॥१२॥

५,२२।१३अ - तृतीयकं वितृतीयं सदन्दिम् उत शारदम् ।
५,२२।१३च् - तक्मानं शीतं रूरं ग्रैष्मं नाशय वार्षिकम् ॥१३॥

५,२२।१४अ - गन्धारिभ्यो मूजवद्भ्यो 'ङ्गेभ्यो मगधेभ्यः ।
५,२२।१४च् - प्रैष्यन् जनम् इव शेवधिं तक्मानं परि दद्मसि ॥१४॥


५,२३।१अ - ओते मे द्यावापृथिवी ओता देवी सरस्वती ।
५,२३।१च् - ओतौ म इन्द्रश् चाग्निश् च क्रिमिं जम्भयताम् इति ॥१॥

५,२३।२अ - अस्येन्द्र कुमारस्य क्रिमीन् धनपते जहि ।
५,२३।२च् - हता विश्वा अरातय उग्रेण वचसा मम ॥२॥

५,२३।३अ - यो अक्ष्यौ परिसर्पति यो नासे परिसर्पति ।
५,२३।३च् - दतां यो मध्यं गछति तं क्रिमिं जम्भयामसि ॥३॥

५,२३।४अ - सरूपौ द्वौ विरूपौ द्वौ कृष्णौ द्वौ रोहितौ द्वौ ।
५,२३।४च् - बभ्रुश् च बभ्रुकर्णश् च गृध्रः कोकश् च ते हताः ॥४॥

५,२३।५अ - ये क्रिमयः शितिकक्षा ये कृष्णाः शितिबाहवः ।
५,२३।५च् - ये के च विश्वरूपास् तान् क्रिमीन् जम्भयामसि ॥५॥

५,२३।६अ - उत् पुरस्तात् सूर्य एति विश्वदृष्टो अदृष्टहा ।
५,२३।६च् - दृष्टांश् च घ्नन्न् अदृष्टांश् च सर्वांश् च प्रमृणन् क्रिमीन् ॥६॥

५,२३।७अ - येवाषासः कष्कषास एजत्काः शिपवित्नुकाः ।
५,२३।७च् - दृष्टश् च हन्यतां क्रिमिर् उतादृष्टश् च हन्यताम् ॥७॥

५,२३।८अ - हतो येवाषः क्रिमीणां हतो नदनिमोत ।
५,२३।८च् - सर्वान् नि मष्मषाकरं दृषदा खल्वां इव ॥८॥

५,२३।९अ - त्रिशीर्षाणं त्रिककुदं क्रिमिं सारङ्गम् अर्जुनम् ।
५,२३।९च् - शृणाम्य् अस्य पृष्टीर् अपि वृश्चामि यच् छिरः ॥९॥

५,२३।१०अ - अत्रिवद् वः क्रिमयो हन्मि कण्ववज् जमदग्निवत् ।
५,२३।१०च् - अगस्त्यस्य ब्रह्मणा सं पिनष्म्य् अहं क्रिमीन् ॥१०॥

५,२३।११अ - हतो राजा क्रिमीणाम् उतैषां स्थपतिर् हतः ।
५,२३।११च् - हतो हतमाता क्रिमिर् हतभ्राता हतस्वसा ॥११॥

५,२३।१२अ - हतासो अस्य वेशसो हतासः परिवेशसः ।
५,२३।१२च् - अथो ये क्षुल्लका इव सर्वे ते क्रिमयो हताः ॥१२॥

५,२३।१३अ - सर्वेषां च क्रिमीणां सर्वासां च क्रिमीनाम् ।
५,२३।१३च् - भिनद्म्य् अश्मना शिरो दहाम्य् अग्निना मुखम् ॥१३॥


५,२४।१अ - सविता प्रसवानाम् अधिपतिः स मावतु ।
५,२४।१च् - अस्मिन् ब्रह्मण्य् अस्मिन् कर्मण्य् अस्यां पुरोधायाम् अस्याम् प्रतिष्ठायाम् अस्यां ।
५,२४।१ए - चित्त्याम् अस्याम् आकूत्याम् अस्याम् आशिष्य् अस्यां देवहूत्यां स्वाहा ॥१॥

५,२४।२अ - अग्निर् वनस्पतीनाम् अधिपतिः स मावतु ।
५,२४।२च् - अस्मिन् ब्रह्मण्य् अस्मिन् कर्मण्य् अस्यां पुरोधायाम् अस्यां प्रतिष्ठायाम् अस्यां ।
५,२४।२ए - चित्त्याम् अस्याम् आकूत्याम् अस्याम् आशिष्य् अस्यां देवहूत्यां स्वाहा ॥२॥

५,२४।३अ - द्यावापृथिवी दातॄणाम् अधिपतिः स मावतु ।
५,२४।३च् - अस्मिन् ब्रह्मण्य् अस्मिन् कर्मण्य् अस्यां पुरोधायाम् अस्यां प्रतिष्ठायाम् अस्यां ।
५,२४।३ए - चित्त्याम् अस्याम् आकूत्याम् अस्याम् आशिष्य् अस्यां देवहूत्यां स्वाहा ॥३॥

५,२४।४अ - वरुणो 'पाम् अधिपतिः स मावतु ।
५,२४।४च् - अस्मिन् ब्रह्मण्य् अस्मिन् कर्मण्य् अस्यां पुरोधायाम् अस्यां प्रतिष्ठायाम् अस्यां ।
५,२४।४ए - चित्त्याम् अस्याम् आकूत्याम् अस्याम् आशिष्य् अस्यां देवहूत्यां स्वाहा ॥४॥

५,२४।५अ - मित्रावरुणौ वृष्ट्याधिपती तौ मावताम् ।
५,२४।५च् - अस्मिन् ब्रह्मण्य् अस्मिन् कर्मण्य् अस्यां पुरोधायाम् अस्यां प्रतिष्ठायाम् अस्यां ।
५,२४।५ए - चित्त्याम् अस्याम् आकूत्याम् अस्याम् आशिष्य् अस्यां देवहूत्यां स्वाहा ॥५॥

५,२४।६अ - मरुतः पर्वतानाम् अधिपतयस् ते मावन्तु ।
५,२४।६च् - अस्मिन् ब्रह्मण्य् अस्मिन् कर्मण्य् अस्यां पुरोधायाम् अस्यां प्रतिष्ठायाम् अस्यां ।
५,२४।६ए - चित्त्याम् अस्याम् आकूत्याम् अस्याम् आशिष्य् अस्यां देवहूत्यां स्वाहा ॥६॥

५,२४।७अ - सोमो वीरुधाम् अधिपतिः स मावतु ।
५,२४।७च् - अस्मिन् ब्रह्मण्य् अस्मिन् कर्मण्य् अस्यां पुरोधायाम् अस्यां प्रतिष्ठायाम् अस्यां ।
५,२४।७ए - चित्त्याम् अस्याम् आकूत्याम् अस्याम् आशिष्य् अस्यां देवहूत्यां स्वाहा ॥७॥

५,२४।८अ - वायुर् अन्तरिक्षस्याधिपतिः स मावतु ।
५,२४।८च् - अस्मिन् ब्रह्मण्य् अस्मिन् कर्मण्य् अस्यां पुरोधायाम् अस्यां प्रतिष्ठायाम् अस्यां ।
५,२४।८ए - चित्त्याम् अस्याम् आकूत्याम् अस्याम् आशिष्य् अस्यां देवहूत्यां स्वाहा ॥८॥

५,२४।९अ - सूर्यश् चक्षुषाम् अधिपतिः स मावतु ।
५,२४।९च् - अस्मिन् ब्रह्मण्य् अस्मिन् कर्मण्य् अस्यां पुरोधायाम् अस्यां प्रतिष्ठायाम् अस्यां ।
५,२४।९ए - चित्त्याम् अस्याम् आकूत्याम् अस्याम् आशिष्य् अस्यां देवहूत्यां स्वाहा ॥९॥

५,२४।१०अ - चन्द्रमा नक्षत्राणाम् अधिपतिः स मावतु ।
५,२४।१०च् - अस्मिन् ब्रह्मण्य् अस्मिन् कर्मण्य् अस्यां पुरोधायाम् अस्यां प्रतिष्ठायाम् अस्यां ।
५,२४।१०ए - चित्त्याम् अस्याम् आकूत्याम् अस्याम् आशिष्य् अस्यां देवहूत्यां स्वाहा ॥१०॥

५,२४।११अ - इन्द्रो दिवो 'धिपतिः स मावतु ।
५,२४।११च् - अस्मिन् ब्रह्मण्य् अस्मिन् कर्मण्य् अस्यां पुरोधायाम् अस्यां प्रतिष्ठायाम् अस्यां ।
५,२४।११ए - चित्त्याम् अस्याम् आकूत्याम् अस्याम् आशिष्य् अस्यां देवहूत्यां स्वाहा ॥११॥

५,२४।१२अ - मरुतां पिता पशूनाम् अधिपतिः स मावतु ।
५,२४।१२च् - अस्मिन् ब्रह्मण्य् अस्मिन् कर्मण्य् अस्याम् पुरोधायाम् अस्यां प्रतिष्ठायाम् अस्यां ।
५,२४।१२ए - चित्त्याम् अस्याम् आकूत्याम् अस्याम् आशिष्य् अस्यां देवहूत्यां स्वाहा ॥१२॥

५,२४।१३अ - मृत्युः प्रजानाम् अधिपतिः स मावतु ।
५,२४।१३च् - अस्मिन् ब्रह्मण्य् अस्मिन् कर्मण्य् अस्याम् पुरोधायाम् अस्यां प्रतिष्ठायाम् अस्यां ।
५,२४।१३ए - चित्त्याम् अस्याम् आकूत्याम् अस्याम् आशिष्य् अस्यां देवहूत्यां स्वाहा ॥१३॥

५,२४।१४अ - यमः पितॄणाम् अधिपतिः स मावतु ।
५,२४।१४च् - अस्मिन् ब्रह्मण्य् अस्मिन् कर्मण्य् अस्यां पुरोधायाम् अस्यां प्रतिष्ठायाम् अस्यां ।
५,२४।१४ए - चित्त्याम् अस्याम् आकूत्याम् अस्याम् आशिष्य् अस्यां देवहूत्यां स्वाहा ॥१४॥

५,२४।१५अ - पितरः परे ते मावन्तु ।
५,२४।१५च् - अस्मिन् ब्रह्मण्य् अस्मिन् कर्मण्य् अस्यां पुरोधायाम् अस्यां प्रतिष्ठायाम् अस्यां ।
५,२४।१५ए - चित्त्याम् अस्याम् आकूत्याम् अस्याम् आशिष्य् अस्यां देवहूत्यां स्वाहा ॥१५॥

५,२४।१६अ - तता अवरे ते मावन्तु ।
५,२४।१६च् - अस्मिन् ब्रह्मण्य् अस्मिन् कर्मण्य् अस्यां पुरोधायाम् अस्यां प्रतिस्ठायाम् अस्यां ।
५,२४।१६ए - चित्त्याम् अस्याम् आकूत्याम् अस्याम् आशिष्य् अस्यां देवहूत्यां स्वाहा ॥१६॥

५,२४।१७अ - ततस् ततामहास् ते मावन्तु ।
५,२४।१७च् - अस्मिन् ब्रह्मण्य् अस्मिन् कर्मण्य् अस्यां पुरोधायाम् अस्यां प्रतिष्ठायाम् अस्यां ।
५,२४।१७ए - चित्त्याम् अस्याम् आकूत्याम् अस्याम् आशिष्य् अस्यां देवहूत्यां स्वाहा ॥१७॥


५,२५।१अ - पर्वताद् दिवो योनेर् अङ्गादङ्गात् समाभृतम् ।
५,२५।१च् - शेपो गर्भस्य रेतोधाः सरौ पर्णम् इवा दधत् ॥१॥

५,२५।२अ - यथेयं पृथिवी मही भूतानां गर्भम् आदधे ।
५,२५।२च् - एवा दधामि ते गर्भं तस्मै त्वाम् अवसे हुवे ॥२॥

५,२५।३अ - गर्भं धेहि सिनीवालि गर्भं धेहि सरस्वति ।
५,२५।३च् - गर्भं ते अश्विनोभा धत्तां पुष्करस्रजा ॥३॥

५,२५।४अ - गर्भं ते मित्रावरुणौ गर्भम् देवो बृहस्पतिः ।
५,२५।४च् - गर्भं त इन्द्रश् चाग्निश् च गर्भं धाता दधातु ते ॥४॥

५,२५।५अ - विष्णुर् योनिं कल्पयतु त्वष्टा रूपाणि पिंशतु ।
५,२५।५च् - आ सिञ्चतु प्रजापतिर् धाता गर्भं दधातु ते ॥५॥

५,२५।६अ - यद् वेद राजा वरुणो यद् वा देवी सरस्वती ।
५,२५।६च् - यद् इन्द्रो वृत्रहा वेद तद् गर्भकरणं पिब ॥६॥

५,२५।७अ - गर्भो अस्य् ओषधीनां गर्भो वनस्पतीनाम् ।
५,२५।७च् - गर्भो विश्वस्य भूतस्य सो अग्ने गर्भम् एह धाः ॥७॥

५,२५।८अ - अधि स्कन्द वीरयस्व गर्भम् आ धेहि योन्याम् ।
५,२५।८च् - वृषासि वृष्ण्यावन् प्रजायै त्वा नयामसि ॥८॥

५,२५।९अ - वि जिहीष्व बार्हत्सामे गर्भस् ते योनिम् आ शयाम् ।
५,२५।९च् - अदुष् टे देवाः पुत्रं सोमपा उभयाविनम् ॥९॥

५,२५।१०अ - धातः श्रेष्ठेन रूपेणास्या नार्या गवीन्योः ।
५,२५।१०च् - पुमांसं पुत्रम् आ धेहि दशमे मासि सूतवे ॥१०॥

५,२५।११अ - त्वष्टः श्रेष्ठेन रूपेणास्या नार्या गवीन्योः ।
५,२५।११च् - पुमांसं पुत्रम् आ धेहि दशमे मासि सूतवे ॥११॥

५,२५।१२अ - सवितः श्रेष्ठेन रूपेणास्या नार्या गवीन्योः ।
५,२५।१२च् - पुमांसं पुत्रम् आ धेहि दशमे मासि सूतवे ॥१२॥

५,२५।१३अ - प्रजापते श्रेष्ठेन रूपेणास्या नार्या गवीन्योः ।
५,२५।१३च् - पुमांसं पुत्रम् आ धेहि दशमे मासि सूतवे ॥१३॥


५,२६।१अ - यजूंषि यज्ञे समिधः स्वाहाग्निः प्रविद्वान् इह वो युनक्तु ॥१॥

५,२६।२अ - युनक्तु देवः सविता प्रजानन्न् अस्मिन् यज्ञे महिषः स्वाहा ॥२॥

५,२६।३अ - इन्द्र उक्थामदान्य् अस्मिन् यज्ञे प्रविद्वान् युनक्तु सुयुजः स्वाहा ॥३॥

५,२६।४अ - प्रैषा यज्ञे निविदः स्वाहा शिष्टाः पत्नीभिर् वहतेह युक्ताः ॥४॥

५,२६।५अ - छन्दांसि यज्ञे मरुतः स्वाहा मातेव पुत्रं पिपृतेह युक्ताः ॥५॥

५,२६।६अ - एयम् अगन् बर्हिषा प्रोक्षणीभिर् यज्ञं तन्वानादितिः स्वाहा ॥६॥

५,२६।७अ - विष्णुर् युनक्तु बहुधा तपांस्य् अस्मिन् यज्ञे सुयुजः स्वाहा ॥७॥

५,२६।८अ - त्वष्टा युनक्तु बहुधा नु रूपा अस्मिन् यज्ञे युनक्तु सुयुजः स्वाहा ॥८॥

५,२६।९अ - भगो युनक्त्वाशिषो न्व् अस्मा अस्मिन् यज्ञे प्रविद्वान् युनक्तु सुयुजः स्वाहा ॥९॥

५,२६।१०अ - सोमो युनक्तु बहुधा पयांस्य् अस्मिन् यज्ञे सुयुजः स्वाहा ॥१०॥

५,२६।११अ - इन्द्रो युनक्तु बहुधा पयांस्य् अस्मिन् यज्ञे सुयुजः स्वाहा ॥११॥

५,२६।१२अ - अश्विना ब्रह्मणा यातम् अर्वाञ्चौ वषट्कारेण यज्ञं वर्धयन्तौ ।
५,२६।१२च् - बृहस्पते ब्रह्मणा याह्य् अर्वाङ् यज्ञो अयं स्वर् इदं यजमानाय स्वाहा ॥१२॥


५,२७।१अ - ऊर्ध्वा अस्य समिधो भवन्त्य् ऊर्ध्वा शुक्रा शोचीष्य् अग्नेः ।
५,२७।१च् - द्युमत्तमा सुप्रतीकः ससूनुस् तनूनपाद् असुरो भूरिपाणिः ॥१॥

५,२७।२अ - देवो देवेषु देवः पथो अनक्ति मध्वा घृतेन ॥२॥

५,२७।३अ - मध्वा यज्ञम् नक्षति प्रैणानो नराशंसो अग्निः सुकृद् देवः सविता विश्ववारः ॥३॥

५,२७।४अ - अछायम् एति शवसा घृता चिद् ईदानो वह्निर् नमसा ॥४॥

५,२७।५अ - अग्निः स्रुचो अध्वरेषु प्रयक्षु स यक्षद् अस्य महिमानम् अग्नेः ॥५॥

५,२७।६अ - तरी मन्द्रासु प्रयक्षु वसवश् चातिष्ठन् वसुधातरश् च ॥६॥

५,२७।७अ - द्वारो देवीर् अन्व् अस्य विश्वे व्रतं रक्षन्ति विश्वहा ॥७॥

५,२७।८अ - उरुव्यचसाग्नेर् धाम्ना पत्यमाने ।
५,२७।८च् - आ सुष्वयन्ती यजते उपाके उषासानक्तेमं यज्ञम् अवताम् अध्वरम् नः ॥८॥
५,२७।९अ - दैवा होतार ऊर्ध्वम् अध्वरं नो 'ग्नेर् जिह्वयाभि गृनत गृनता नः स्विष्टये ।
५,२७।९च् - तिस्रो देवीर् बर्हिर् एदं सदन्ताम् इढा सरस्वती मही भारती गृणाना ॥९॥

५,२७।१०अ - तन् नस् तुरीपम् अद्भुतं पुरुक्षु ।
५,२७।१०च् - देव त्वष्टा रायस् पोषं वि ष्य नाभिम् अस्य ॥१०॥

५,२७।११अ - वनस्पते 'व सृजा रराणः ।
५,२७।११च् - त्मना देवेभ्यो अग्निर् हव्यं शमिता स्वदयतु ॥११॥

५,२७।१२अ - अग्ने स्वाहा कृणुहि जातवेदः ।
५,२७।१२च् - इन्द्राय यज्ञं विश्वे देवा हविर् इदं जुषन्ताम् ॥१२॥


५,२८।१अ - नव प्राणान् नवभिः सं मिमीते दीर्घायुत्वाय शतशारदाय ।
५,२८।१च् - हरिते त्रीणि रजते त्रीण्य् अयसि त्रीणि तपसाविष्टितानि ॥१॥

५,२८।२अ - अग्निः सूर्यश् चन्द्रमा भूमिर् आपो द्यौर् अन्तरिक्षं प्रदिशो दिशश् च ।
५,२८।२च् - आर्तवा ऋतुभिः संविदाना अनेन मा त्रिवृता पारयन्तु ॥२॥

५,२८।३अ - त्रयः पोषास् त्रिवृति श्रयन्ताम् अनक्तु पूषा पयसा घृतेन ।
५,२८।३च् - अन्नस्य भूमा पुरुषस्य भूमा भूमा पशूनां त इह श्रयन्ताम् ॥३॥

५,२८।४अ - इमम् आदित्या वसुना सम् उक्षतेमम् अग्ने वर्धय ववृधानः ।
५,२८।४च् - इमम् इन्द्र सं सृज वीर्येणास्मिन् त्रिवृच् छ्रयतां पोषयिष्णु ॥४॥

५,२८।५अ - भूमिष् ट्वा पातु हरितेन विश्वभृद् अग्निः पिपर्त्व् अयसा सजोषाः ।
५,२८।५च् - वीरुद्भिष् टे अर्जुनं संविदानं दक्षं दधातु सुमनस्यमानम् ॥५॥

५,२८।६अ - त्रेधा जातम् जन्मनेदं हिरण्यम् अग्नेर् एकं प्रियतमं बभूव सोमस्यैकं हिंसितस्य परापतत् ।
५,२८।६च् - अपाम् एकं वेधसां रेत आहुस् तत् ते हिरण्यं त्रिवृद् अस्त्व् आयुषे ॥६॥

५,२८।७अ - त्र्यायुषं जमदग्नेः कश्यपस्य त्र्यायुषम् ।
५,२८।७च् - त्रेधामृतस्य चक्षणं त्रीण्य् आयूंषि ते 'करम् ॥७॥

५,२८।८अ - त्रयः सुपर्णास् त्रिवृता यद् आयन्न् एकाक्षरम् अभिसंभूय शक्राः ।
५,२८।८च् - प्रत्य् अउहन् मृत्युम् अमृतेन साकम् अन्तर्दधाना दुरितानि विश्वा ॥८॥

५,२८।९अ - दिवस् त्वा पातु हरितं मध्यात् त्वा पात्व् अर्जुनम् ।
५,२८।९च् - भूम्या अयस्मयं पातु प्रागाद् देवपुरा अयम् ॥९॥

५,२८।१०अ - इमास् तिस्रो देवपुरास् तास् त्वा रक्षन्तु सर्वतः ।
५,२८।१०च् - तास् त्वं बिभ्रद् वर्चस्व्य् उत्तरो द्विषतां भव ॥१०॥

५,२८।११अ - पुरं देवानाम् अमृतं हिरण्यम् य आबेधे प्रथमो देवो अग्रे ।
५,२८।११च् - तस्मै नमो दश प्राचीः कृणोम्य् अनु मन्यतां त्रिवृद् आबधे मे ॥११॥

५,२८।१२अ - आ त्वा चृतत्व् अर्यमा पूषा बृहस्पतिः ।
५,२८।१२च् - अहर्जातस्य यन् नाम तेन त्वाति चृतामसि ॥१२॥

५,२८।१३अ - ऋतुभिष् ट्वार्तवैर् आयुषे वर्चसे त्वा ।
५,२८।१३च् - संवत्सरस्य तेजसा तेन संहनु कृण्मसि ॥१३॥

५,२८।१४अ - घृताद् उल्लुप्तम् मधुना समक्तं भूमिदृंहम् अच्युतम् पारयिष्णु ।
५,२८।१४च् - भिन्दत् सपत्नान् अधरांश् च कृण्वद् आ मा रोह महते सौभगाय ॥१४॥


५,२९।१अ - पुरस्ताद् युक्तो वह जातवेदो 'ग्ने विद्धि क्रियमाणम् यथेदम् ।
५,२९।१च् - त्वं भिषग् भेषजस्यासि कर्ता त्वया गाम् अश्वं पुरुषं सनेम ॥१॥

५,२९।२अ - तथा तद् अग्ने कृणु जातवेदो विश्वेभिर् देवैः सह संविदानः ।
५,२९।२च् - यो नो दिदेव यतमो जघास यथा सो अस्य परिधिष् पताति ॥२॥

५,२९।३अ - यथा सो अस्य परिधिष् पताति तथा तद् अग्ने कृणु जातवेदः ।
५,२९।३च् - विश्वेभिर् देवैर् सह संविदानः ॥३॥

५,२९।४अ - अक्ष्यौ नि विध्य हृदयं नि विध्य जिह्वां नि तृन्द्धि प्र दतो मृणीहि ।
५,२९।४च् - पिशाचो अस्य यतमो जघासाग्ने यविष्ठ प्रति शृणीहि ॥४॥

५,२९।५अ - यद् अस्य हृतं विहृतं यत् पराभृतम् आत्मनो जग्धं यतमत् पिशाचैः ।
५,२९।५च् - तद् अग्ने विद्वान् पुनर् आ भर त्वं शरीरे मांसम् असुम् एरयामः ॥५॥

५,२९।६अ - आमे सुपक्वे शबले विपक्वे यो मा पिशाचो अशने ददम्भ ।
५,२९।६च् - तद् आत्मना प्रजया पिशाचा वि यातयन्ताम् अगदो 'यम् अस्तु ॥६॥

५,२९।७अ - क्षिरे मा मन्थे यतमो ददम्भाकृष्टपच्ये अशने धान्ये यः ।
५,२९।७च् - तद् आत्मना प्रजया पिशाचा वि यातयन्ताम् अगदो 'यम् अस्तु ॥७॥

५,२९।८अ - अपां मा पाने यतमो ददम्भ क्रव्याद् यातूनाम् शयने शयानम् ।
५,२९।८च् - तद् आत्मना प्रजया पिशाचा वि यातयन्ताम् अगदो 'यम् अस्तु ॥८॥

५,२९।९अ - दिवा मा नक्तं यतमो ददम्भ क्रव्याद् यातूनाम् शयने शयानम् ।
५,२९।९च् - तद् आत्मना प्रजया पिशाचा वि यातयन्ताम् अगदो 'यम् अस्तु ॥९॥

५,२९।१०अ - क्रव्यादम् अग्ने रुधिरं पिशाचं मनोहनं जहि जातवेदः ।
५,२९।१०च् - तम् इन्द्रो वाजी वज्रेण हन्तु छिनत्तु सोमः शिरो अस्य धृष्णुः ॥१०॥

५,२९।११अ - सनाद् अग्ने मृणसि यातुधानान् न त्वा रक्षांसि पृतनासु जिग्युः ।
५,२९।११च् - सहमूरान् अनु दह क्रव्यादो मा ते हेत्या मुक्षत दैव्यायाः ॥११॥

५,२९।१२अ - समाहर जातवेदो यद् धृतं यत् पराभृतम् ।
५,२९।१२च् - गात्राण्य् अस्य वर्धन्ताम् अंशुर् इवा प्यायताम् अयम् ॥१२॥

५,२९।१३अ - सोमस्येव जातवेदो अंशुर् आ प्यायताम् अयम् ।
५,२९।१३च् - अग्ने विरप्शिनं मेध्यम् अयक्ष्मं कृणु जीवतु ॥१३॥

५,२९।१४अ - एतास् ते अग्ने समिधः पिशाचजम्भनीः ।
५,२९।१४च् - तास् त्वं जुषस्व प्रति चैना गृहाण जातवेदः ॥१४॥

५,२९।१५अ - तार्ष्टाघीर् अग्ने समिधः प्रति गृह्णाह्य् अर्चिषा ।
५,२९।१५च् - जहातु क्रव्याद् रूपं यो अस्य मांसं जिहीर्षति ॥१५॥


५,३०।१अ - आवतस् त आवतः परावतस् त आवतः ।
५,३०।१च् - इहैव भव मा नु गा मा पूर्वान् अनु गाः पितॄन् असुं बध्नामि ते दृडम् ॥१॥

५,३०।२अ - यत् त्वाभिचेरुः पुरुषः स्वो यद् अरणो जनः ।
५,३०।२च् - उन्मोचनप्रमोचने उभे वाचा वदामि ते ॥२॥

५,३०।३अ - यद् दुद्रोहिथ शेपिषे स्त्रियै पुंसे अचित्त्या ।
५,३०।३च् - उन्मोचनप्रमोचने उभे वाचा वदामि ते ॥३॥

५,३०।४अ - यत् एनसो मातृकृताच् छेषे पितृकृताच् च यत् ।
५,३०।४च् - उन्मोचनप्रमोचने उभे वाचा वदामि ते ॥४॥

५,३०।५अ - यत् ते माता यत् ते पिता जमिर् भ्राता च सर्जतः ।
५,३०।५च् - प्रत्यक् सेवस्व भेषजं जरदष्टिं कृणोमि त्वा ॥५॥

५,३०।६अ - इहैधि पुरुष सर्वेण मनसा सह ।
५,३०।६च् - दूतौ यमस्य मानु गा अधि जीवपुरा इहि ॥६॥

५,३०।७अ - अनुहूतः पुनर् एहि विद्वान् उदयनं पथः ।
५,३०।७च् - आरोहणम् आक्रमणं जीवतोजीवतो 'यनम् ॥७॥

५,३०।८अ - मा बिभेर् न मरिष्यसि जरदष्टिं कृणोमि त्वा ।
५,३०।८च् - निर् अवोचम् अहं यक्ष्मम् अङ्गेभ्यो अङ्गज्वरं तव ॥८॥

५,३०।९अ - अङ्गभेदो अङ्गज्वरो यश् च ते हृदयामयः ।
५,३०।९च् - यक्ष्मः श्येन इव प्रापप्तद् वचा साडः परस्तराम् ॥९॥

५,३०।१०अ - ऋषी बोधप्रतीबोधाव् अस्वप्नो यश् च जागृविः ।
५,३०।१०च् - तौ ते प्राणस्य गोप्तारौ दिवा नक्तं च जागृताम् ॥१०॥

५,३०।११अ - अयम् अग्निर् उपसद्य इह सूर्य उद् एतु ते ।
५,३०।११च् - उदेहि मृत्योर् गम्भीरात् कृष्णाच् चित् तमसस् परि ॥११॥

५,३०।१२अ - नमो यमाय नमो अस्तु मृत्यवे नमः पितृभ्य उत ये नयन्ति ।
५,३०।१२च् - उत्पारणस्य यो वेद तम् अग्निं पुरो दधे 'स्मा अरिष्टतातये ॥१२॥

५,३०।१३अ - अइतु प्राण अइतु मन अइतु चक्षुर् अथो बलम् ।
५,३०।१३च् - शरीरम् अस्य सम् विदां तत् पद्भ्यां प्रति तिष्ठतु ॥१३॥

५,३०।१४अ - प्राणेनाग्ने चक्षुषा सं सृजेमं सम् ईरय तन्वा सं बलेन ।
५,३०।१४च् - वेत्थामृतस्य मा नु गान् मा नु भूमिगृहो भुवत् ॥१४॥

५,३०।१५अ - मा ते प्राण उप दसन् मो अपानो 'पि धायि ते ।
५,३०।१५च् - सूर्यस् त्वाधिपतिर् मृत्योर् उदायछतु रश्मिभिः ॥१५॥

५,३०।१६अ - इयम् अन्तर् वदति जिह्वा बद्धा पनिष्पदा ।
५,३०।१६च् - त्वया यक्ष्मम् निर् अवोचं शतं रोपीश् च तक्मनः ॥१६॥

५,३०।१७अ - अयं लोकः प्रियतमो देवानाम् अपराजितः ।
५,३०।१७च् - यस्मै त्वम् इह मृत्यवे दिष्टः पुरुष जज्ञिषे ।
५,३०।१७ए - स च त्वानु ह्वयामसि मा पुरा जरसो मृथाः ॥१७॥


५,३१।१अ - यां ते चक्रुर् आमे पात्रे यां चक्रुर् मिश्रधान्ये ।
५,३१।१च् - आमे मांसे कृत्यां यां चक्रुः पुनः प्रति हरामि ताम् ॥१॥

५,३१।२अ - यां ते चक्रुः कृकवाकाव् अजे वा यां कुरीरिणि ।
५,३१।२च् - अव्यां ते कृत्यां याम् चक्रुः पुनः प्रति हरामि ताम् ॥२॥

५,३१।३अ - यां ते चक्रुर् एकशफे पशूनाम् उभयादति ।
५,३१।३च् - गर्दभे कृत्यां यां चक्रुः पुनः प्रति हरामि ताम् ॥३॥

५,३१।४अ - यां ते चक्रुर् अमूलायां वलगं वा नराच्याम् ।
५,३१।४च् - क्षेत्रे ते कृत्यां यां चक्रुः पुनः प्रति हरामि ताम् ॥४॥
५,३१।५अ - यां ते चक्रुर् गार्हपत्ये पूर्वाग्नाव् उत दुश्चितः ।
५,३१।५च् - शालायां कृत्यां याम् चक्रुः पुनः प्रति हरामि ताम् ॥५॥

५,३१।६अ - यां ते चक्रुः सभायां याम् चक्रुर् अधिदेवने ।
५,३१।६च् - अक्षेषु कृत्यां यां चक्रुः पुनः प्रति हरामि ताम् ॥६॥

५,३१।७अ - यां ते चक्रुः सेनायां यां चक्रुर् इष्वायुधे ।
५,३१।७च् - दुन्दुभौ कृत्यां यां चक्रुः पुनः प्रति हरामि ताम् ॥७॥

५,३१।८अ - यां ते कृत्याम् कूपे 'वदधुः श्मशाने वा निचख्नुः ।
५,३१।८च् - सद्मनि कृत्याम् यां चक्रुः पुनः प्रति हरामि ताम् ॥८॥

५,३१।९अ - यां ते चक्रुः पुरुषास्थे अग्नौ संकसुके च याम् ।
५,३१।९च् - म्रोकं निर्दाहं क्रव्यादं पुनः प्रति हरामि ताम् ॥९॥
५,३१।१०अ - अपथेना जभारैनां तां पथेतः प्र हिण्मसि ।
५,३१।१०च् - अधीरो मर्याधीरेभ्यः सं जभाराचित्त्या ॥१०॥

५,३१।११अ - यश् चकार न शशाक कर्तुं शश्रे पादम् अङ्गुरिम् ।
५,३१।११च् - चकार भद्रम् अस्मभ्यम् अभगो भगवद्भ्यः ॥११॥

५,३१।१२अ - कृत्याकृतं वलगिनं मूलिनं शपथेय्यम् ।
५,३१।१२च् - इन्द्रस् तं हन्तु महता वधेनाग्निर् विध्यत्व् अस्तया ॥१२॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP