८,१।१अ - अन्तकाय मृत्यवे नमः प्राना अपाना इह ते रमन्ताम् ।
८,१।१च् - इहायम् अस्तु पुरुषः सहासुना सूर्यस्य भागे अमृतस्य लोके ॥१॥
८,१।२अ - उद् एनं भगो अग्रभीद् उद् एनं सोमो अंशुमान् ।
८,१।२च् - उद् एनं मरुतो देवा उद् इन्द्राग्नी स्वस्तये ॥२॥
८,१।३अ - इह ते 'सुर् इह प्राण इहायुर् इह ते मनः ।
८,१।३च् - उत् त्वा निरृत्याः पाशेभ्यो दैव्या वचा भरामसि ॥३॥
८,१।४अ - उत् क्रामातः पुरुष माव पत्था मृत्योः पढ्वीषम् अवमुञ्चमानः ।
८,१।४च् - मा छित्था अस्माल् लोकाद् अग्नेः सूर्यस्य संदृशः ॥४॥
८,१।५अ - तुभ्यं वातः पवतां मातरिश्वा तुभ्यं वर्षन्त्व् अमृतान्य् आपः ।
८,१।५च् - सूर्यस् ते तन्वे शं तपाति त्वाम् मृत्युर् दयतां मा प्र मेष्ठाः ॥५॥
८,१।६अ - उद्यानं ते पुरुष नावयानं जीवातुं ते दक्षतातिं कृनोमि ।
८,१।६च् - आ हि रोहेमम् अमृतं सुखं रथम् अथ जिर्विर् विदथम् आ वदासि ॥६॥
८,१।७अ - मा ते मनस् तत्र गान् मा तिरो भून् मा जीवेभ्यः प्र मदो मानु गाः पितॄन् ।
८,१।७च् - विश्वे देवा अभि रक्षन्तु त्वेह ॥७॥
८,१।८अ - मा गतानाम् आ दीधीथा ये नयन्ति परावतम् ।
८,१।८च् - आ रोह तमसो ज्योतिर् एह्य् आ ते हस्तौ रभामहे ॥८॥
८,१।९अ - श्यामश् च त्वा मा शबलश् च प्रेषितौ यमस्य यौ पथिरक्षी श्वानौ ।
८,१।९च् - अर्वाङ् एहि मा वि दीध्यो मात्र तिष्ठः पराङ्मनाः ॥९॥
८,१।१०अ - मैतं पन्थाम् अनु गा भीम एष येन पूर्वं नेयथ तं ब्रवीमि ।
८,१।१०च् - तम एतत् पुरुष मा प्र पत्था भयं परस्ताद् अभयं ते अर्वाक् ॥१०॥ (१)
८,१।११अ - रक्षन्तु त्वाग्नयो ये अप्स्व् अन्ता रक्षतु त्वा मनुष्या यम् इन्धते ।
८,१।११च् - वैश्वानरो रक्षतु जातवेदा दिव्यस् त्वा मा प्र धाग् विद्युता सह ॥११॥
८,१।१२अ - मा त्वा क्रव्याद् अभि मंस्तारात् संकसुकाच् चर रक्षतु त्वा द्यौ रक्षतु ।
८,१।१२च् - पृथिवी सूर्यश् च त्वा रक्षतां चन्द्रमाश् च ।
८,१।१२ए - अन्तरिक्षं रक्षतु देवहेत्याः ॥१२॥
८,१।१३अ - बोधश् च त्वा प्रतिबोधश् च रक्षताम् अस्वप्नश् च त्वानवद्राणश् च रक्षताम् ।
८,१।१३च् - गोपायंश् च त्वा जागृविश् च रक्षताम् ॥१३॥
८,१।१४अ - ते त्वा रक्षन्तु ते त्वा गोपायन्तु तेभ्यो नमस् तेभ्यः स्वाहा ॥१४॥
८,१।१५अ - जीवेभ्यस् त्वा समुदे वायुर् इन्द्रो धाता दधातु सविता त्रायमाणः ।
८,१।१५च् - मा त्वा प्राणो बलं हासीद् असुं ते 'नु ह्वयामसि ॥१५॥
८,१।१६अ - मा त्वा जम्भः संहनुर् मा तमो विदन् मा जिह्वा बर्हिस् प्रमयुः कथा स्याः ।
८,१।१६च् - उत् त्वादित्या वसवो भरन्तूद् इन्द्राग्नी स्वस्तये ॥१६॥
८,१।१७अ - उत् त्वा द्यौर् उत् पृथिव्य् उत् प्रजापतिर् अग्रभीत् ।
८,१।१७च् - उत् त्वा मृत्योर् ओषधयः सोमराज्ञीर् अपीपरन् ॥१७॥
८,१।१८अ - अयं देवा इहैवास्त्व् अयं मामुत्र गाद् इतः ।
८,१।१८च् - इमं सहस्रवीर्येण मृत्योर् उत् पारयामसि ॥१८॥
८,१।१९अ - उत् त्वा मृत्योर् अपीपरं सं धमन्तु वयोधसः ।
८,१।१९च् - मा त्वा व्यस्तकेश्यो मा त्वाघरुदो रुदन् ॥१९॥
८,१।२०अ - आहार्षम् अविदं त्वा पुनर् आगाः पुनर्णवः ।
८,१।२०च् - सर्वाङ्ग सर्वं ते चक्षुः सर्वम् आयुश् च ते 'विदम् ॥२०॥
८,१।२१अ - व्य् अवात् ते ज्योतिर् अभूद् अप त्वत् तमो अक्रमीत् ।
८,१।२१च् - अप त्वन् मृत्युं निरृतिम् अप यक्ष्मं नि दध्मसि ॥२१॥ (२)
८,२।१अ - आ रभस्वेमाम् अमृतस्य श्नुष्टिम् अछिद्यमाना जरदष्टिर् अस्तु ते ।
८,२।१च् - असुं त आयुः पुनर् आ भरामि रजस् तमो मोप गा मा प्र मेष्ठाः ॥१॥
८,२।२अ - जीवतां ज्योतिर् अभ्येह्य् अर्वाङ् आ त्वा हरामि शतशारदाय ।
८,२।२च् - अवमुञ्चन् मृत्युपाशान् अशस्तिं द्राघीय आयुः प्रतरं ते दधामि ॥२॥
८,२।३अ - वातात् ते प्रानम् अविदं सूर्याच् चक्षुर् अहं तव ।
८,२।३च् - यत् ते मनस् त्वयि तद् धारयामि सं वित्स्वाङ्गैर् वद जिह्वयालपन् ॥३॥
८,२।४अ - प्राणेन त्वा द्विपदां चतुष्पदाम् अग्निम् इव जातम् अभि सं धमामि ।
८,२।४च् - नमस् ते मृत्यो चक्षुषे नमः प्राणाय ते 'करम् ॥४॥
८,२।५अ - अयं जीवतु मा मृतेमं सम् ईरयामसि ।
८,२।५च् - कृणोम्य् अस्मै भेषजं मृत्यो मा पुरुषं वधीः ॥५॥
८,२।६अ - जीवलां नघारिषां जीवन्तीम् ओषधीम् अहम् ।
८,२।६च् - त्रायमाणां सहमानां सहस्वतीम् इह हुवे 'स्मा अरिष्टतातये ॥६॥
८,२।७अ - अधि ब्रूहि मा रभथाः सृजेमं तवैव सन्त् सर्वहायाः इहास्तु ।
८,२।७च् - भवाशर्वौ मृढतं शर्म यछतम् अपसिध्य दुरितं धत्तम् आयुः ॥७॥
८,२।८अ - अस्मै मृत्यो अधि ब्रूहीमं दयस्वोद् इतो 'यम् एतु ।
८,२।८च् - अरिष्टः सर्वाङ्गः सुश्रुज् जरसा शतहायन आत्मना भुजम् अश्नुताम् ॥८॥
८,२।९अ - देवानां हेतिः परि त्वा वृणक्तु पारयामि त्वा रजस उत् त्वा मृत्योर् अपीपरम् ।
८,२।९च् - आराद् अग्निं क्रव्यादं निरूहं जीवातवे ते परिधिं दधामि ॥९॥
८,२।१०अ - यत् ते नियानं रजसं मृत्यो अनवधर्ष्यम् ।
८,२।१०च् - पथ इमं तस्माद् रक्षन्तो ब्रह्मास्मै वर्म कृण्मसि ॥१०॥ (३)
८,२।११अ - कृणोमि ते प्राणापानौ जरां मृत्युं दीर्घम् आयुः स्वस्ति ।
८,२।११च् - वैवस्वतेन प्रहितान् यमदूतांश् चरतो 'प सेधामि सर्वान् ॥११॥
८,२।१२अ - आराद् अरातिं निरृतिं परो ग्राहिं क्रव्यादः पिशाचान् ।
८,२।१२च् - रक्षो यत् सर्वं दुर्भूतं तत् तम इवाप हन्मसि ॥१२॥
८,२।१३अ - अग्नेष् ट प्रानम् अमृताद् आयुष्मतो वन्वे जातवेदसः ।
८,२।१३च् - यथा न रिष्या अमृतः सजूर् असस् तत् ते कृणोमि तद् उ ते सम् ऋध्यताम् ॥१३॥
८,२।१४अ - शिवे ते स्तां द्यावापृथिवी असंतापे अभिश्रियौ ।
८,२।१४च् - शं ते सूर्य आ तपतु शं वातो वातु ते हृदे ।
८,२।१४ए - शिवा अभि क्षरन्तु त्वापो दिव्याः पयस्वतीः ॥१४॥
८,२।१५अ - शिवास् ते सन्त्व् ओषधय उत् त्वाहार्षम् अधरस्या उत्तरां पृथिवीम् अभि ।
८,२।१५च् - तत्र त्वादित्यौ रक्षतां सूर्याचन्द्रमसाव् उभा ॥१५॥
८,२।१६अ - यत् ते वासः परिधानं यां नीविं कृणुषे त्वम् ।
८,२।१६च् - शिवं ते तन्वे तत् कृण्मः संस्पर्शे 'द्रूक्ष्णम् अस्तु ते ॥१६॥
८,२।१७अ - यत् क्षुरेण मर्चयता सुतेजसा वप्ता वपसि केशश्मश्रु ।
८,२।१७च् - शुभं मुखं मा न आयुः प्र मोषीः ॥१७॥
८,२।१८अ - शिवौ ते स्तां व्रीहियवाव् अबलासाव् अदोमधौ ।
८,२।१८च् - एतौ यक्ष्मं वि बाधेते एतौ मुञ्चतो अंहसः ॥१८॥
८,२।१९अ - यद् अश्नासि यत् पिबसि धान्यं कृष्याः पयः ।
८,२।१९च् - यद् आद्यं यद् अनाद्यं सर्वं ते अन्नम् अविषं कृणोमि ॥१९॥
८,२।२०अ - अह्ने च त्वा रात्रये चोभाभ्यां परि दद्मसि ।
८,२।२०च् - अरायेभ्यो जिघत्सुभ्य इमं मे परि रक्षत ॥२०॥ (४)
८,२।२१अ - शतं ते 'युतं हायनान् द्वे युगे त्रीणि चत्वारि कृण्मः ।
८,२।२१च् - इन्द्राग्नी विश्वे देवास् ते 'नु मन्यन्ताम् अहृणीयमानाः ॥२१॥
८,२।२२अ - शरदे त्वा हेमन्ताय वसन्ताय ग्रीष्माय परि दद्मसि ।
८,२।२२च् - वर्षाणि तुभ्यं स्योनानि येषु वर्धन्त ओषधीः ॥२२॥
८,२।२३अ - मृत्युर् ईशे द्विपदां मृत्युर् ईशे चतुष्पदाम् ।
८,२।२३च् - तस्मात् त्वां मृत्योर् गोपतेर् उद् भरामि स मा बिभेः ॥२३॥
८,२।२४अ - सो 'रिष्ट न मरिष्यसि न मरिष्यसि मा बिभेः ।
८,२।२४च् - न वै तत्र म्रियन्ते नो यन्ति अधमं तमः ॥२४॥
८,२।२५अ - सर्वो वै तत्र जीवति गौर् अश्वः पुरुषः पशुः ।
८,२।२५च् - यत्रेदं ब्रह्म क्रियते परिधिर् जीवनाय कम् ॥२५॥
८,२।२६अ - परि त्वा पातु समानेभ्यो 'भिचारात् सबन्धुभ्यः ।
८,२।२६च् - अमम्रिर् भवामृतो 'तिजीवो मा ते हासिषुर् असवः शरीरम् ॥२६॥
८,२।२७अ - ये मृत्यव एकशतं या नाष्ट्रा अतितार्याः ।
८,२।२७च् - मुञ्चन्तु तस्मात् त्वां देवा अग्नेर् वैश्वानराद् अधि ॥२७॥
८,२।२८अ - अग्नेः शरीरम् असि पारयिष्णु रक्षोहासि सपत्नहा ।
८,२।२८च् - अथो अमीवचातनः पूतुद्रुर् नाम भेषजम् ॥२८॥ (५)
८,३।१अ - रक्षोहणं वाजिनम् आ जिघर्मि मित्रं प्रथिष्ठम् उप यामि शर्म ।
८,३।१च् - शिशानो अग्निः क्रतुभिः समिद्धः स नो दिवा स रिषः पातु नक्तम् ॥१॥
८,३।२अ - अयोदंष्ट्रो अर्चिषा यातुधानान् उप स्पृश जातवेदः समिद्धः ।
८,३।२च् - आ जिह्वया मूरदेवान् रभस्व क्रव्यादो वृष्ट्वापि धत्स्वासन् ॥२॥
८,३।३अ - उभोभयाविन्न् उप धेहि दंष्ट्रौ हिंस्रः शिशानो 'वरं परं च ।
८,३।३च् - उतान्तरिक्षे परि याह्य् अग्ने जम्भैः सं धेह्य् अभि यातुधानान् ॥३॥
८,३।४अ - अग्ने त्वचं यातुधानस्य भिन्धि हिंस्राशनिर् हरसा हन्त्व् एनम् ।
८,३।४च् - प्र पर्वाणि जातवेदः शृणीहि क्रव्यात् क्रविष्णुर् वि चिनोत्व् एनम् ॥४॥
८,३।५अ - यत्रेदानीं पश्यसि जातवेदस् तिष्ठन्तम् अग्न उत वा चरन्तम् ।
८,३।५च् - उतान्तरिक्षे पतन्तं यातुधानं तम् अस्ता विध्य शर्वा शिशानः ॥५॥
८,३।६अ - यज्ञैर् इषूः संनममानो अग्ने इवाचा शल्यां अशनिभिर् दिहानः ।
८,३।६च् - ताभिर् विध्य हृदये यातुधानान् प्रतीचो बाहून् प्रति भङ्ग्ध्य् एषाम् ॥६॥
८,३।७अ - उतारब्धान्त् स्पृनुहि जातवेद उतारेभाणां ऋष्टिभिर् यातुधानान् ।
८,३।७च् - अग्ने पूर्वो नि जहि शोशुचान आमादः क्ष्विङ्कास् तम् अदन्त्व् एनीः ॥७॥
८,३।८अ - इह प्र ब्रूहि यतमः सो अग्ने यातुधानो य इदं कृणोति ।
८,३।८च् - तम् आ रभस्व समिधा यविष्ठ नृचक्षसश् चक्षुषे रन्धयैनम् ॥८॥
८,३।९अ - तीक्ष्णेनाग्ने चक्षुषा रक्ष यज्ञं प्राञ्चं वसुभ्यः प्र णय प्रचेतः ।
८,३।९च् - हिंस्रं रक्षांस्य् अभि शोशुचानं मा त्वा दभन् यातुधाना नृचक्षः ॥९॥
८,३।१०अ - नृचक्षा रक्षः परि पश्य विक्षु तस्य त्रीणि प्रति शृणीह्य् अग्रा ।
८,३।१०च् - तस्याग्ने पृष्टीर् हरसा शृणीहि त्रेधा मूलं यातुधानस्य वृश्च ॥१०॥ (६)
८,३।११अ - त्रिर् यातुधानः प्रसितिं त एत्व् ऋतं यो अग्ने अनृतेन हन्ति ।
८,३।११च् - तम् अर्चिषा स्फूर्जयन् जातवेदः समक्षम् एनम् गृणते नि युङ्ग्धि ॥११॥
८,३।१२अ - यद् अग्ने अद्य मिथुना शपातो यद् वाचस् तृष्टं जनयन्त रेभाः ।
८,३।१२च् - मन्योर् मनसः शरव्या जायते या तया विध्य हृदये यातुधानान् ॥१२॥
८,३।१३अ - परा शृणीहि तपसा यातुधानान् पराग्ने रक्षो हरसा शृणीहि ।
८,३।१३च् - परार्चिषा मूरदेवान् छृणीहि परासुतृपः शोशुचतः शृणीहि ॥१३॥
८,३।१४अ - पराद्य देवा वृजिनं शृणन्तु प्रत्यग् एनं शपथा यन्तु सृष्टाः ।
८,३।१४च् - वाचास्तेनं शरव ऋछन्तु मर्मन् विश्वस्यैतु प्रसितिं यातुधानः ॥१४॥
८,३।१५अ - यः पौरुषेयेण क्रविषा समङ्क्ते यो अश्व्येन पशुना यातुधानः ।
८,३।१५च् - यो अघ्न्याया भरति क्षीरम् अग्ने तेषां शीर्षाणि हरसापि वृश्च ॥१५॥
८,३।१६अ - विषं गवां यातुधाना भरन्ताम् आ वृश्चन्ताम् अदितये दुरेवाः ।
८,३।१६च् - परैणान् देवः सविता ददातु परा भागम् ओषधीनां जयन्ताम् ॥१६॥
८,३।१७अ - संवत्सरीणं पय उस्रियायास् तस्य माशीद् यातुधानो नृचक्षः ।
८,३।१७च् - पीयूषम् अग्ने यतमस् तितृप्सात् तं प्रत्यञ्चम् अर्चिषा विध्य मर्मणि ॥१७॥
८,३।१८अ - सनाद् अग्ने मृणसि यातुधानान् न त्वा रक्षांसि पृतनासु जिग्युः ।
८,३।१८च् - सहमूरान् अनु दह क्रव्यादो मा ते हेत्या मुक्षत दैव्यायाः ॥१८॥
८,३।१९अ - त्वं नो अग्ने अधराद् उदक्तस् त्वं पश्चाद् उत रक्षा पुरस्तात् ।
८,३।१९च् - प्रति त्ये ते अजरासस् तपिष्ठा अघशंसं शोशुचतो दहन्तु ॥१९॥
८,३।२०अ - पश्चात् पुरस्ताद् अधराद् उतोत्तरात् कविः काव्येन परि पाह्य् अग्ने ।
८,३।२०च् - सखा सखायम् अजरो जरिम्ने अग्ने मर्तां अमर्त्यस् त्वं नः ॥२०॥ (७)
८,३।२१अ - तद् अग्ने चक्षुः प्रति धेहि रेभे शफारुजो येन पश्यसि यातुधानान् ।
८,३।२१च् - अथर्ववज् ज्योतिषा दैव्येन सत्यं धूर्वन्तम् अचितं न्योष ॥२१॥
८,३।२२अ - परि त्वाग्ने पुरं वयं विप्रं सहस्य धीमहि ।
८,३।२२च् - धृषद्वर्णं दिवेदिवे हन्तारं भङ्गुरावतः ॥२२॥
८,३।२३अ - विषेण भङ्गुरावतः प्रति स्म रक्षसो जहि ।
८,३।२३च् - अग्ने तिग्मेन शोचिषा तपुरग्राभिर् अर्चिभिः ॥२३॥
८,३।२४अ - वि ज्योतिषा बृहता भात्य् अग्निर् आविर् विश्वानि कृणुते महित्वा ।
८,३।२४च् - प्रादेवीर् मायाः सहते दुरेवाः शिशीते शृङ्गे रक्षोभ्यो विनिक्षे ॥२४॥
८,३।२५अ - ये ते शृङ्गे अजरे जातवेदस् तिग्महेती ब्रह्मसंशिते ।
८,३।२५च् - ताभ्यां दुर्हार्दम् अभिदासन्तं किमीदिनं ।
८,३।२५ए - प्रत्यञ्चम् अर्चिषा जातवेदो वि निक्ष्व ॥२५॥
८,३।२६अ - अग्नी रक्षांसि सेधति शुक्रशोचिर् अमर्त्यः ।
८,३।२६च् - शुचिः पावक ईढ्यः ॥२६॥ (८)
८,४।१अ - इन्द्रासोमा तपतं रक्ष उब्जतं न्य् अर्पयतं वृषणा तमोवृधः ।
८,४।१च् - परा शृणीतम् अचितो न्य् ओषतं हतं नुदेथां नि शिशीतम् अत्त्रिणः ॥१॥
८,४।२अ - इन्द्रासोमा सम् अघशंसम् अभ्य् अघं तपुर् ययस्तु चरुर् अग्निमां इव ।
८,४।२च् - ब्रह्मद्विषे क्रव्यादे घोरचक्षसे द्वेषो धत्तम् अनवायं किमीदिने ॥२॥
८,४।३अ - इन्द्रासोमा दुष्कृतो वव्रे अन्तर् अनारम्भणे तमसि प्र विध्यतम् ।
८,४।३च् - यतो नैषां पुनर् एकश् चनोदयत् तद् वाम् अस्तु सहसे मन्युमच् छवः ॥३॥
८,४।४अ - इन्द्रासोमा वर्तयतं दिवो वधं सं पृथिव्या अघशंसाय तर्हणम् ।
८,४।४च् - उत् तक्षतं स्वर्यं१ पर्वतेभ्यो येन रक्षो वावृधानं निजूर्वथः ॥४॥
८,४।५अ - इन्द्रासोमा वर्तयतं दिवस् पर्य् अग्नितप्तेभिर् युवम् अश्महन्मभिः ।
८,४।५च् - तपुर्वधेभिर् अजरेभिर् अत्त्रिणो नि पर्शाने विध्यतं यन्तु निस्वरम् ॥५॥
८,४।६अ - इन्द्रासोमा परि वां भूतु विश्वत इयं मतिः कक्ष्याश्वेव वाजिना ।
८,४।६च् - यां वां होत्रां परिहिनोमि मेधयेमा ब्रह्माणि नृपती इव जिन्वतम् ॥६॥
८,४।७अ - प्रति स्मरेथां तुजयद्भिर् एवैर् हतं द्रुहो रक्षसो भङ्गुरावतः ।
८,४।७च् - इन्द्रासोमा दुष्कृते मा सुगं भूद् यो मा कदा चिद् अभिदासति द्रुहुः ॥७॥
८,४।८अ - यो मा पाकेन मनसा चरन्तम् अभिचष्टे अनृतेभिर् वचोभिः ।
८,४।८च् - आप इव काशिना सम्गृभीता असन्न् अस्त्व् असतः इन्द्र वक्ता ॥८॥
८,४।९अ - ये पाकशंसं विहरन्त एवैर् ये वा भद्रं दूषयन्ति स्वधाभिः ।
८,४।९च् - अहये वा तान् प्रददातु सोम आ वा दधातु निरृतेर् उपष्ठे ॥९॥
८,४।१०अ - यो नो रसं दिप्सति पित्वो अग्ने अश्वानां गवां यस् तनूनाम् ।
८,४।१०च् - रिपु स्तेन स्तेयकृद् दभ्रम् एतु नि ष हीयतां तन्वा तना च ॥१०॥ (९)
८,४।११अ - परः सो अस्तु तन्वा तना च तिस्रः पृथिवीर् अधो अस्तु विश्वाः ।
८,४।११च् - प्रति शुष्यतु यशो अस्य देवा यो मा दिवा दिप्सति यश् च नक्तम् ॥११॥
८,४।१२अ - सुविज्ञानं चिकितुषे जनाय सच् चासच् च वचसी पस्पृधाते ।
८,४।१२च् - तस्योर् यत् सत्यं यतरद् ऋजीयस् तद् इत् सोमो 'वति हन्त्य् असत् ॥१२॥
८,४।१३अ - न वा उ सोमो वृजिनं हिनोति न क्षत्रियम् मिथुया धारयन्तम् ।
८,४।१३च् - हन्ति रक्षो हन्त्य् आसद् वदन्तम् उभाव् इन्द्रस्य प्रसितौ शयाते ॥१३॥
८,४।१४अ - यदि वाहम् अनृतदेवो अस्मि मोघं वा देवां अप्यूहे अग्ने ।
८,४।१४च् - किम् अस्मभ्यं जातवेदो हृणीषे द्रोघवाचस् ते निरृथं सचन्ताम् ॥१४॥
८,४।१५अ - अद्या मुरीय यदि यातुधानो अस्मि यदि वायुस् ततप पुरुषस्य ।
८,४।१५च् - अधा स वीरैर् दशभिर् वि यूया यो मा मोघं यातुधानेत्य् आह ॥१५॥
८,४।१६अ - यो मायातुं यातुधानेत्य् आह यो वा रक्षाः शिचिर् अस्मीत्य् आह ।
८,४।१६च् - इन्द्रस् तं हन्तु महता वधेन विश्वस्य जन्तोर् अधमस् पदीष्ट ॥१६॥
८,४।१७अ - प्र या जिगाति खर्गलेव नक्तम् अप द्रुहुस् तन्वं१ गूहमाना ।
८,४।१७च् - वव्रम् अनन्तम् अव सा पदीष्टिअ ग्रावाणो घ्नन्तु रक्षस उपब्दैः ॥१७॥
८,४।१८अ - वि तिष्ठध्वम् मरुतो विक्ष्व् इछत गृभायत रक्षसः सं पिनष्टन् ।
८,४।१८च् - वयो ये भूत्वा पतयन्ति नक्तभिर् ये वा रिपो दधिरे देवे अध्वरे ॥१८॥
८,४।१९अ - प्र वर्तय दिवो 'श्मानम् इन्द्र सोमशितं मघवन्त् सं शिशाधि ।
८,४।१९च् - प्राक्तो अपाक्तो अधराद् उदक्तो 'भि जहि रक्षसः पर्वतेन ॥१९॥
८,४।२०अ - एत उ त्ये पतयन्ति श्वयातव इन्द्रं दिप्सन्ति दिप्सवो 'दाभ्यम् ।
८,४।२०च् - शिशीते शक्रः पिशुनेभ्यो वधं नुनं सृजद् अशनिं यातुमद्भ्यः ॥२०॥ (१०)
८,४।२१अ - इन्द्रो यातूनाम् अभवत् पराशरो हविर्मथीनाम् अभ्य् आविवासताम् ।
८,४।२१च् - अभीद् उ शक्रः परशुर् यथा वनं पात्रेव भिन्दन्त् सत एतु रक्षसः ॥२१॥
८,४।२२अ - उलूकयातुं शुशुलूकयातुं जहि श्वयातुम् उत कोकयातुम् ।
८,४।२२च् - सुपर्णयातुम् उत गृध्रयातुं दृषदेव प्र मृण रक्ष इन्द्र ॥२२॥
८,४।२३अ - मा नो रक्षो अभि नढ् यातुमावद् अपोछन्तु मिथुना ये किमीदिनः ।
८,४।२३च् - पृथिवी नः पार्थिवात् पात्व् अंहसो 'न्तरिक्षं दिव्यात् पात्व् अस्मान् ॥२३॥
८,४।२४अ - इन्द्र जहि पुमांसं यातुधानम् उत स्त्रियं मायया शाशदानाम् ।
८,४।२४च् - विग्रीवासो मूरदेवा ऋदन्तु मा ते दृशन्त् सूर्यम् उच्चरन्तम् ॥२४॥
८,४।२५अ - प्रति चक्ष्व वि चक्ष्वेन्द्रश् च सोम जागृतम् ।
८,४।२५च् - रक्षोभ्यो वधम् अस्यतम् अशनिं यातुमद्भ्यः ॥२५॥ (११)
८,५।१अ - अयं प्रतिसरो मणिर् वीरो वीराय बध्यते ।
८,५।१च् - वीर्यवान्त् सपत्नहा शूरवीरः परिपाणः सुमङ्गलः ॥१॥
८,५।२अ - अयं मणिः सपत्नहा सुवीरः सहस्वान् वाजी सहमान उग्रः ।
८,५।२च् - प्रत्यक् कृत्या दूषयन्न् एति वीरः ॥२॥
८,५।३अ - अनेनेन्द्रो मणिना वृत्रम् अहन्न् अनेनासुरान् पराभावयन् मनीषी ।
८,५।३च् - अनेनाजयद् द्यावापृथिवी उभे इमे अनेनाजयत् प्रदिशश् चतस्रः ॥३॥
८,५।४अ - अयं स्राक्त्यो मणिः प्रतीवर्तः प्रतिसरः ।
८,५।४च् - ओजस्वान् विमृधो वशी सो अस्मान् पातु सर्वतः ॥४॥
८,५।५अ - तद् अग्निर् आह तद् उ सोम आह बृहस्पतिः सविता तद् इन्द्रः ।
८,५।५च् - ते मे देवाः पुरोहिताः प्रतीचीः कृत्याः प्रतिसरैर् अजन्तु ॥५॥
८,५।६अ - अन्तर् दधे द्यावापृथिवी उताहर् उत सूर्यम् ।
८,५।६च् - ते मे देवाः पुरोहिताः प्रतीचीः कृत्याः प्रतिसरैर् अजन्तु ॥६॥
८,५।७अ - ये स्राक्त्यं मणिं जना वर्माणि कृण्वते ।
८,५।७च् - सूर्य इव दिवम् आरुह्य वि कृत्या बाधते वशी ॥७॥
८,५।८अ - स्राक्त्येन मणिना ऋषिणेव मनीषिणा ।
८,५।८च् - अजैषं सर्वाः पृतना वि मृधो हन्मि रक्षसः ॥८॥
८,५।९अ - याः कृत्या आङ्गिरसीर् याः कृत्या आसुरीर् याः ।
८,५।९च् - कृत्याः स्वयंकृता या उ चान्येभिर् आभृताः ।
८,५।९ए - उभयीस् ताः परा यन्तु परावतो नवतिं नाव्या अति ॥९॥
८,५।१०अ - अस्मै मणिं वर्म बध्नन्तु देवा इन्द्रो विष्णुः सविता रुद्रो अग्निः ।
८,५।१०च् - प्रजापतिः परमेष्ठी विराढ् वैश्वानर ऋषयश् च सर्वे ॥१०॥ (१२)
८,५।११अ - उत्तमो अस्य् ओषधीनाम् अनढ्वान् जगताम् इव व्याघ्रः श्वपदाम् इव ।
८,५।११ढ् - यम् अइछामाविदाम तं प्रतिस्पाशनम् अन्तितम् ॥११॥
८,५।१२अ - स इद् व्याघ्रो भवत्य् अथो सिंहो अथो वृषा ।
८,५।१२च् - अथो सपत्नकर्शनो यो बिभर्तीमं मणिम् ॥१२॥
८,५।१३अ - नैनं घ्नन्त्य् अप्सरसो न गन्धर्वा न मर्त्याः ।
८,५।१३च् - सर्वा दिशो वि राजति यो बिभर्तीमं मणिम् ॥१३॥
८,५।१४अ - कश्यपस् त्वाम् असृजत कश्यपस् त्वा सम् अइरयत् ।
८,५।१४च् - अबिभस् त्वेन्द्रो मानुषे बिभ्रत् संश्रेषिणे 'जयत् ।
८,५।१४ए - मणिं सहस्रवीर्यं वर्म देवा अकृण्वत ॥१४॥
८,५।१५अ - यस् त्वा कृत्याभिर् यस् त्वा दीक्षाभिर् यज्ञैर् यस् त्वा जिघांसति ।
८,५।१५च् - प्रत्यक् त्वम् इन्द्र तं जहि वज्रेण शतपर्वणा ॥१५॥
८,५।१६अ - अयम् इद् वै प्रतीवर्त ओजस्वान् संजयो मणिः ।
८,५।१६च् - प्रजां धनं च रक्षतु परिपाणः सुमङ्गलः ॥१६॥
८,५।१७अ - असपत्नं नो अधराद् असपत्नं न उत्तरात् ।
८,५।१७च् - इन्द्रासपत्नं नः पश्चाज् ज्योतिः शूर पुरस् कृधि ॥१७॥
८,५।१८अ - वर्म मे द्यावापृथिवी वर्माहर् वर्म सूर्यः ।
८,५।१८च् - वर्म म इन्द्रश् चाग्निश् च वर्म धाता दधातु मे ॥१८॥
८,५।१९अ - अइन्द्राग्नं वर्म बहुलं यद् उग्रं विश्वे देवा नातिविध्यन्ति सर्वे ।
८,५।१९च् - तन् मे तन्वं त्रायतां सर्वतो बृहद् आयुष्मां जरदष्टिर् यथासानि ॥१९॥
८,५।२०अ - आ मारुक्षद् देवमणिर् मह्या अरिष्टतातये ।
८,५।२०च् - इमं मेथिम् अभिसंविशध्वं तनूपानं त्रिवरूथम् ओजसे ॥२०॥
८,५।२१अ - अस्मिन्न् इन्द्रो नि दधातु नृम्णम् इमं देवासो अभिसंविशध्वम् ।
८,५।२१च् - दीर्घायुत्वाय शतशारदायायुष्मान् जरदष्टिर् यथासत् ॥२१॥
८,५।२२अ - स्वस्तिदा विशां पतिर् वृत्रहा विमृधो वशी ।
८,५।२२च् - इन्द्रो बध्नातु ते मणिं जिगीवां अपराजितः ।
८,५।२२ए - सोमपा अभयङ्करो वृषा ।
८,६।१अ - यौ ते मातोन्ममार्ज जातायाः पतिवेदनौ ।
८,६।१च् - दुर्णामा तत्र मा गृधद् अलिंश उत वत्सपः ॥१॥
८,६।२अ - पलालानुपलालौ शर्कुं कोकं मलिम्लुचं पलीजकम् ।
८,६।२च् - आश्रेषं वव्रिवाससम् ऋक्षग्रीवं प्रमीलिनम् ॥२॥
८,६।३अ - मा सं वृतो मोप सृप ऊरू माव सृपो 'न्तरा ।
८,६।३च् - कृणोम्य् अस्यै भेषजं बजं दुर्णामचातनम् ॥३॥
८,६।४अ - दुर्णामा च सुनामा चोभा सम्वृतम् इछतः ।
८,६।४च् - अरायान् अप हन्मः सुनामा स्त्रैणम् इछताम् ॥४॥
८,६।५अ - यः कृष्णः केश्य् असुर स्तम्बज उत तुण्ढिकः ।
८,६।५च् - अरायान् अस्या मुष्काभ्यां भंससो 'प हन्मसि ॥५॥
८,६।६अ - अनुजिघ्रं प्रमृशन्तं क्रव्यादम् उत रेरिहम् ।
८,६।६च् - अरायां छ्वकिष्किणो बजः पिङ्गो अनीनशत् ॥६॥
८,६।७अ - यस् त्वा स्वप्ने निपद्यते भ्राता भूत्वा पितेव च ।
८,६।७च् - बजस् तान्त् सहताम् इतः क्लीबरूपांस् तिरीटिनः ॥७॥
८,६।८अ - यस् त्वा स्वपन्तीं त्सरति यस् त्वा दिप्सति जाग्रतीम् ।
८,६।८च् - छायाम् इव प्र तान्त् सूर्यः परिक्रामन्न् अनीनशत् ॥८॥
८,६।९अ - यः कृणोति मृतवत्साम् अवतोकाम् इमां स्त्रियम् ।
८,६।९च् - तम् ओषधे त्वं नाशयास्याः कमलम् अञ्जिवम् ॥९॥
८,६।१०अ - ये शालाः परिनृत्यन्ति सायं गर्दभनादिनः ।
८,६।१०च् - कुसूला ये च कुक्षिलाः ककुभाः करुमाः स्रिमाः ।
८,६।१०ए - तान् ओषधे त्वं गन्धेन विषूचीनान् वि नाशय ॥१०॥ (१४)
८,६।११अ - ये कुकुन्धाः कुकिरभाः कृत्तीर् दूर्शानि बिभ्रति ।
८,६।११च् - क्लीबा इव प्रनृत्यन्तो वने ये कुर्वते घोषं तान् इतो नाशयामसि ॥११॥
८,६।१२अ - ये सूर्यं न तितिक्षन्त आतपन्तम् अमुं दिवः ।
८,६।१२च् - अरायान् बस्तवासिनो दुर्गन्धींल् लोहितास्यान् मककान् नाशयामसि ॥१२॥
८,६।१३अ - य आत्मानम् अतिमात्रम् अंस आधाय बिभ्रति ।
८,६।१३च् - स्त्रीणां श्रोणिप्रतोदिन इन्द्र रक्षांसि नाशय ॥१३॥
८,६।१४अ - ये पूर्वे बध्वो यन्ति हस्ते शृङ्गानि बिभ्रतः ।
८,६।१४च् - आपाकेस्थाः प्रहासिन स्तम्बे ये कुर्वते ज्योतिस् तान् इतो नाशयामसि ॥१४॥
८,६।१५अ - येषाम् पश्चात् प्रपदानि पुरः पार्ष्णीः पुरो मुखा ।
८,६।१५च् - खलजाः शकधूमजा उरुण्ढा ये च मट्मटाः कुम्भमुष्का अयाशवः ।
८,६।१५ए - तान् अस्या ब्रह्मणस् पते प्रतीबोधेन नाशय ॥१५॥
८,६।१६अ - पर्यस्ताक्षा अप्रचङ्कशा अस्त्रैणाः सन्तु पण्ढगाः ।
८,६।१६च् - अव भेषज पादय य इमां संविवृत्सत्य् अपतिः स्वपतिं स्त्रियम् ॥१६॥
८,६।१७अ - उद्धर्षिणं मुनिकेशं जम्भयन्तं मरीमृशम् ।
८,६।१७च् - उपेषन्तम् उदुम्बलं तुण्ढेलम् उत शालुढम् ।
८,६।१७ए - पदा प्र विध्य पार्ष्ण्या स्थालीं गौर् इव स्पन्दना ॥१७॥
८,६।१८अ - यस् ते गर्भं प्रतिमृशाज् जातं वा मारयाति ते ।
८,६।१८च् - पिङ्गस् तम् उग्रधन्वा कृणोतु हृदयाविधम् ॥१८॥
८,६।१९अ - ये अम्नो जतान् मारयन्ति सूतिका अनुशेरते ।
८,६।१९च् - स्त्रीभागान् पिङ्गो गन्धर्वान् वातो अभ्रम् इवाजतु ॥१९॥
८,६।२०अ - परिसृष्टं धरयतु यद् धितं माव पादि तत् ।
८,६।२०च् - गर्भं त उग्रौ रक्षताम् भेषजौ नीविभार्यौ ॥२०॥ (१५)
८,६।२१अ - पवीनसात् तङ्गल्वाच् छायकाद् उत नग्नकात् ।
८,६।२१च् - प्रजायै पत्ये त्वा पिङ्गः परि पातु किमीदिनः ॥२१॥
८,६।२२अ - द्व्यास्याच् चतुरक्षात् पञ्चपदाद् अनङ्गुरेः ।
८,६।२२च् - वृन्ताद् अभि प्रसर्पतः परि पाहि वरीवृतात् ॥२२॥
८,६।२३अ - य आमं मांसम् अदन्ति पौरुषेयं च ये क्रविः ।
८,६।२३च् - गर्भान् खादन्ति केशवास् तान् इतो नाशयामसि ॥२३॥
८,६।२४अ - ये सूर्यात् परिसर्पन्ति स्नुषेव श्वशुराद् अधि ।
८,६।२४च् - बजश् च तेषां पिङ्गश् च हृदये 'धि नि विध्यताम् ॥२४॥
८,६।२५अ - पिङ्ग रक्ष जायमानं मा पुमांसं स्त्रियं क्रन् ।
८,६।२५च् - आण्ढादो गर्भान् मा दभन् बाधस्वेतः किमीदिनः ॥२५॥
८,६।२६अ - अप्रजास्त्वं मार्तवत्सम् आद् रोदम् अघम् आवयम् ।
८,६।२६च् - वृक्षाद् इव स्रजम् कृत्वाप्रिये प्रति मुञ्च तत् ॥२६॥ (१६)
८,७।१अ - या बभ्रवो याश् च शुक्रा रोहिणीर् उत पृश्नयः ।
८,७।१च् - असिक्नीः कृष्णा ओषधीः सर्वा अछावदामसि ॥१॥
८,७।२अ - त्रायन्ताम् इमं पुरुसं यक्ष्माद् देवेषिताद् अधि ।
८,७।२च् - यासाम् द्यौः पिता पृथिवी माता समुद्रो मूलं वीरुधां बभूव ॥२॥
८,७।३अ - आपो अग्रं दिव्या ओषधयः ।
८,७।३च् - तास् ते यक्ष्मम् एनस्यम् अङ्गादङ्गाद् अनीनशन् ॥३॥
८,७।४अ - प्रस्तृणती स्तम्बिनीर् एकशुङ्गाः प्रतन्वतीर् ओषधीर् आ वदामि ।
८,७।४च् - अंशुमतीः कण्ढिनीर् या विशाखा ह्वयामि ते वीरुधो वैश्वदेवीर् उग्राः पुरुषजीवनीः ॥४॥
८,७।५अ - यद् वः सहः सहमाना वीर्यं१ यच् च वो बलम् ।
८,७।५च् - तेनेमम् अस्माद् यक्ष्मात् पुरुषं मुञ्चतौषधीर् अथो कृणोमि भेषजम् ॥५॥
८,७।६अ - जीवलां नघारिषां जीवन्तीम् ओषधीम् अहम् ।
८,७।६च् - अरुन्धतीम् उन्नयन्तीं पुष्पाम् मधुमतीम् इह हुवे 'स्मा अरिष्टतातये ॥६॥
८,७।७अ - इहा यन्तु प्रचेतसो मेदिनीर् वचसो मम ।
८,७।७च् - यथेमं पारयामसि पुरुषं दुरिताद् अधि ॥७॥
८,७।८अ - अग्नेर् घासो अपां गर्भो या रोहन्ति पुनर्णवाः ।
८,७।८च् - ध्रुवाः सहस्रनाम्नीर् भेषजीः सन्त्व् आभृताः ॥८॥
८,७।९अ - अवकोल्बा उदकात्मान ओषधयः ।
८,७।९च् - व्यृषन्तु दुरितं तीक्ष्णशृङ्ग्यः ॥९॥
८,७।१०अ - उन्मुञ्चन्तीर् विवरुणा उग्रा या विषदूषनीः ।
८,७।१०च् - अथो बलासनाशनीः कृत्यादूषणीश् च यास् ता इहा यन्त्व् ओषधीः ॥१०॥ (१७)
८,७।११अ - अपक्रीताः सहीयसीर् वीरुधो या अभिष्टुताः ।
८,७।११च् - त्रायन्ताम् अस्मिन् ग्रामे गाम् अश्वं पुरुषं पशुम् ॥११॥
८,७।१२अ - मधुमन् मूलं मधुमद् अग्रम् आसाम् मधुमन् मध्यं वीरुधां बभूव ।
८,७।१२च् - मधुमत् पर्णं मधुमत् पुष्पम् आसां मधोः सम्भक्ता अमृतस्य भक्षो घृतम् अन्नं दुह्रतां गोपुरोगवम् ॥१२॥
८,७।१३अ - यावतीः कियतीश् चेमाः पृथिव्याम् अध्य् ओषधीः ।
८,७।१३च् - ता मा सहस्रपर्ण्यो मृत्योर् मुञ्चन्त्व् अंहसः ॥१३॥
८,७।१४अ - वैयाघ्रो मणिर् वीरुधां त्रायमानो 'भिशस्तिपाः ।
८,७।१४च् - अमीवाः सर्वा रक्षांस्य् अप हन्त्व् अधि दूरम् अस्मत् ॥१४॥
८,७।१५अ - सिंहस्येव स्तनथोः सं विजन्ते 'ग्नेर् इव विजन्ते आभृताभ्यः ।
८,७।१५च् - गवां यक्ष्मः पुरुषाणां वीरुद्भिर् अतिनुत्तो नाव्या एतु स्रोत्याः ॥१५॥
८,७।१६अ - मुमुचाना ओषधयो 'ग्नेर् वैश्वानराद् अधि ।
८,७।१६च् - भूमिं संतन्वतीर् इत यासां राजा वनस्पतिः ॥१६॥
८,७।१७अ - या रोहन्त्य् आङ्गिरसीः पर्वतेषु समेषु च ।
८,७।१७च् - ता नः पयस्वतीः शिवा ओषधीः सन्तु शं हृदे ॥१७॥
८,७।१८अ - याश् चाहं वेद वीरुधो याश् च पश्यामि चक्षुषा ।
८,७।१८च् - अज्ञाता जानीमश् च या यासु विद्म च संभृतम् ॥१८॥
८,७।१९अ - सर्वाः समग्रा ओषधीर् बोधन्तु वचसो मम ।
८,७।१९च् - यथेमं पारयामसि पुरुषम् दुरिताद् अधि ॥१९॥
८,७।२०अ - अश्वत्थो दर्भो वीरुधां सोमो राजामृतं हविः ।
८,७।२०च् - व्रीहिर् यवश् च भेषजौ दिवसि पुत्राव् अमर्त्यौ ॥२०॥ (१८)
८,७।२१अ - उज् जिहीध्वे स्तनयत्य् अभिक्रन्दत्य् ओषधीः ।
८,७।२१च् - यदा वः पृश्निमातरः पर्जन्यो रेतसावति ॥२१॥
८,७।२२अ - तस्यामृतस्येमं बलं पुरुषं पययामसि ।
८,७।२२च् - अथो कृणोमि भेषजं यथासच् छतहायनः ॥२२॥
८,७।२३अ - वराहो वेद वीरुधं नकुलो वेद भेषजीम् ।
८,७।२३च् - सर्पा गन्धर्वा या विदुस् ता अस्मा अवसे हुवे ॥२३॥
८,७।२४अ - याः सुपर्णा आङ्गिरसीर् दिव्या या रघतो विदुः ।
८,७।२४च् - वयांसि हंसा या विदुर् यास् च सर्वे पतत्रिणः ।
८,७।२४ए - मृगा या विदुर् ओषधीस् ता अस्मा अवसे हुवे ॥२४॥
८,७।२५अ - यावतीनाम् ओषधीनां गावः प्राश्नन्त्य् अघ्न्या यवतीनाम् अजावयः ।
८,७।२५च् - तावतीस् तुभ्यम् ओषधीः शर्म यछन्त्व् आभृताः ॥२५॥
८,७।२६अ - यावतीषु मनुष्या भेषजं भिषजो विदुः ।
८,७।२६च् - तावतीर् विश्वभेषजीर् आ भरामि त्वाम् अभि ॥२६॥
८,७।२७अ - पुष्पवतीः प्रसूमतीः फलिनीर् अफला उत ।
८,७।२७च् - संमातर इव दुह्राम् अस्मा अरिष्टतातये ॥२७॥
८,७।२८अ - उत् त्वाहार्षं पञ्चशलाद् अथो दशशलाद् उत ।
८,७।२८च् - अथो यमस्य पढ्वीशाद् विश्वस्माद् देवकिल्बिषात् ॥२८॥ (१९)
८,८।१अ - इन्द्रो मन्थतु मन्थिता शक्रः शूरः पुरंदरः ।
८,८।१च् - यथा हनाम सेना अमित्राणां सहस्रशः ॥१॥
८,८।२अ - पूतिरज्जुर् उपध्मानी पूतिं सेनां कृणोत्व् अमूम् ।
८,८।२च् - धूमम् अग्निम् परादृश्या 'मित्रा हृत्स्व् आ दधतां भयम् ॥२॥
८,८।३अ - अमून् अश्वत्थ निः शृणीहि खादामून् खदिराजिरम् ।
८,८।३च् - ताजद्भङ्ग इव भजन्तां हन्त्व् एनान् वधको वधैः ॥३॥
८,८।४अ - परुषान् अमून् परुषाह्वः कृणोतु हन्त्व् एनान् वधको वधैः ।
८,८।४च् - क्षिप्रं शर इव भजन्तां बृहज्जालेन संदिताः ॥४॥
८,८।५अ - अन्तरिक्षं जालम् आसीज् जालदण्ढा दिशो महीः ।
८,८।५च् - तेनाभिधाय दस्यूनां शक्रः सेनाम् अपावपत् ॥५॥
८,८।६अ - बृहद् धि जालं बृहतः शक्रस्य वाजिनीवतः ।
८,८।६च् - तेन शत्रून् अभि सर्वान् न्य् उब्ज यथा न मुच्यातै कतमश् चनैषाम् ॥६॥
८,८।७अ - बृहत् ते जालं बृहत इन्द्र शूर सहस्रार्घस्य शतवीर्यस्य ।
८,८।७च् - तेन शतं सहस्रम् अयुतं न्यर्बुदं जघान शक्रो दस्यूनाम् अभिधाय सेनया ॥७॥
८,८।८अ - अयं लोको जालम् आसीच् छक्रस्य महतो महान् ।
८,८।८च् - तेनाहम् इन्द्रजालेनामूंस् तमसाभि दधामि सर्वान् ॥८॥
८,८।९अ - सेदिर् उग्रा व्यृद्धिर् आर्तिश् चानपवाचना ।
८,८।९च् - श्रमस् तन्द्रीश् च मोहश् च तैर् अमून् अभि दधामि सर्वान् ॥९॥
८,८।१०अ - मृत्यवे 'मून् प्र यछामि मृत्युपाशैर् अमी सिताः ।
८,८।१०च् - मृत्योर् ये अघला दूतास् तेभ्य एनान् प्रति नयामि बद्ध्वा ॥१०॥ (२०)
८,८।११अ - नयतामून् मृत्युदूता यमदूता अपोम्भत ।
८,८।११च् - परःसहस्रा हन्यन्तां तृणेढ्ह्व् एनान् मत्यं भवस्य ॥११॥
८,८।१२अ - साध्या एकं जालदण्ढम् उद्यत्य यन्त्य् ओजसा ।
८,८।१२च् - रुद्रा एकं वसव एकम् आदित्यैर् एक उद्यतः ॥१२॥
८,८।१३अ - विश्वे देवाः उपरिष्टाद् उब्जन्तो यन्त्व् ओजसा ।
८,८।१३च् - मध्येन घ्नन्तो यन्तु सेनाम् अङ्गिरसो महीम् ॥१३॥
८,८।१४अ - वनस्पतीन् वानस्पत्यान् ओषधीर् उत वीरुधः ।
८,८।१४च् - द्विपाच् चतुष्पाद् इष्णामि यथा सेनाम् अमूं हनन् ॥१४॥
८,८।१५अ - गन्धर्वाप्सरसः सर्पान् देवान् पुण्यजनान् पितॄन् ।
८,८।१५च् - दृष्टान् अदृष्टान् इष्णामि यथा सेनाम् अमूं हनन् ॥१५॥
८,८।१६अ - इम उप्ता मृत्युपाशा यान् आक्रम्य न मुच्यसे ।
८,८।१६च् - अमुष्या हन्तु सेनाया इदं कूटं सहस्रशः ॥१६॥
८,८।१७अ - घर्मः समिद्धो अग्निनायं होमः सहस्रहः ।
८,८।१७च् - भवश् च पृश्निबाहुश् च शर्व सेनाम् अमूं हतम् ॥१७॥
८,८।१८अ - मृत्योर् आषम् आ पद्यन्तां क्षुधं सेदिं वधम् भयम् ।
८,८।१८च् - इन्द्रश् चाक्षुजालाभ्यां शर्व सेनाम् अमूं हतम् ॥१८॥
८,८।१९अ - पराजिताः प्र त्रसतामित्रा नुत्ता धावत ब्रह्मणा ।
८,८।१९च् - बृहस्पतिप्रनुत्तानां मामीषां मोचि कश् चन ॥१९॥
८,८।२०अ - अव पद्यन्ताम् एषाम् आयुधानि मा शकन् प्रतिधाम् इषुम् ।
८,८।२०च् - अथैषां बहु बिभ्यताम् इषवः घ्नन्तु मर्मणि ॥२०॥
८,८।२१अ - सं क्रोशताम् एनान् द्यावापृथिवी सम् अन्तरिक्षं सह देवताभिः ।
८,८।२१च् - मा ज्ञातारं मा प्रतिष्ठां विदन्त मिथो विघ्नाना उप यन्तु मृत्युम् ॥२१॥
८,८।२२अ - दिशश् चतस्रो 'श्वतर्यो देवरथस्य पुरोदाशाः शफा अन्तरिक्षम् उद्धिः ।
८,८।२२च् - द्यावापृथिवी पक्षसी ऋतवो 'भीशवो 'न्तर्देशाः किम्करा वाक् परिरथ्यम् ॥२२॥
८,८।२३अ - संवत्सरो रथः परिवत्सरो रथोपस्थो विराढ् ईषाग्नी रथमुखम् ।
८,८।२३च् - इन्द्रः सव्यष्ठाश् चन्द्रमाः सारथिः ॥२३॥
८,८।२४अ - इतो जयेतो वि जय सं जय जय स्वाहा ।
८,८।२४च् - इमे जयन्तु परामी जयन्तां स्वाहैभ्यो दुराहामीभ्यः ।
८,८।२४ए - नीललोहितेनामून् अभ्यवतनोमि ॥२४॥ (२१)
८,९।१अ - कुतस् तौ जातौ कतमः सो अर्धः कस्माल् लोकात् कतमस्याः पृथिव्याः ।
८,९।१च् - वत्सौ विराजः सलिलाद् उद् अइतां तौ त्वा पृछामि कतरेण दुग्धा ॥१॥
८,९।२अ - यो अक्रन्दयत् सलिलं महित्वा योनिं कृत्वा त्रिभुजं शयानः ।
८,९।२च् - वत्सः कामदुघो विराजः स गुहा चक्रे तन्वः पराचैः ॥२॥
८,९।३अ - यानि त्रीणि बृहन्ति येषां चतुर्थं वियुनक्ति वाचम् ।
८,९।३च् - ब्रह्मैनद् विद्यात् तपसा विपश्चिद् यस्मिन्न् एकं युज्यते यस्मिन्न् एकम् ॥३॥
८,९।४अ - बृहतः परि सामानि षष्ठात् पञ्चाधि निर्मिता ।
८,९।४च् - बृहद् बृहत्या निर्मितं कुतो 'धि बृहती मिता ॥४॥
८,९।५अ - बृहती परि मात्राया मातुर् मात्राधि निर्मिता ।
८,९।५च् - माया ह जज्ञे मायाया मायाया मातली परि ॥५॥
८,९।६अ - वैश्वानरस्य प्रतिमोपरि द्यौर् यावद् रोदसी विबबाधे अग्निः ।
८,९।६च् - ततः षष्ठाद् आमुतो यन्ति स्तोमा उद् इतो यन्त्य् अभि षष्ठम् अह्नः ॥६॥
८,९।७अ - षट् त्वा पृछाम ऋषयः कश्यपेमे त्वं हि युक्तं युयुक्षे योग्यं च ।
८,९।७च् - विराजम् आहुर् ब्रह्मणः पितरं तां नो वि धेहि यतिधा सखिभ्यः ॥७॥
८,९।८अ - यां प्रच्युताम् अनु यज्ञाः प्रच्यवन्त उपतिष्ठन्त उपतिष्ठमानाम् ।
८,९।८च् - यस्या व्रते प्रसवे यक्षम् एजति सा विराट् ऋषयः परमे व्योमन् ॥८॥
८,९।९अ - अप्राणैति प्राणेन प्राणतीनां विराट् स्वराजम् अभ्य् एति पश्चात् ।
८,९।९च् - विश्वं मृशन्तीम् अभिरूपां विराजं पश्यन्ति त्वे न त्वे पश्यन्त्य् एनाम् ॥९॥
८,९।१०अ - को विराजो मिथुनत्वं प्र वेद क ऋतून् क उ कल्पम् अस्याः ।
८,९।१०च् - क्रमान् को अस्याः कतिधा विदुग्धान् को अस्या धाम कतिधा व्युष्टीः ॥१०॥ (२२)
८,९।११अ - इयम् एव सा या प्रथमा व्यौछद् आस्व् इतरासु चरति प्रविष्टा ।
८,९।११च् - महान्तो अस्यां महिमानो अन्तर् वधूर् जिगाय नवगज् जनित्री ॥११॥
८,९।१२अ - छन्दःपक्षे उषसा पेपिशाने समानं योनिम् अनु सं चरेमे ।
८,९।१२च् - सूर्यपत्नी सं चरतः प्रजानती केतुमती अजरे भूरिरेतसा ॥१२॥
८,९।१३अ - ऋतस्य पन्थाम् अनु तिस्र आगुस् त्रयो घर्मा अनु रेत आगुः ।
८,९।१३च् - प्रजाम् एका जिन्वत्य् ऊर्जम् एका राष्ट्रम् एका रक्षति देवयूनाम् ॥१३॥
८,९।१४अ - अग्नीषोमाव् अदधुर् या तुरीयासीद् यज्ञस्य पक्षाव् ऋषयः कल्पयन्तः ।
८,९।१४च् - गायत्रीं त्रिष्टुभं जगतीम् अनुष्टुभं बृहदर्कीं यजमानाय स्वर् आभरन्तीम् ॥१४॥
८,९।१५अ - पञ्च व्युष्टीर् अनु पञ्च दोहा गां पञ्चनाम्नीम् ऋतवो 'नु पञ्च ।
८,९।१५च् - पञ्च दिशः पञ्चदशेन कॢप्तास् ता एकमूर्ध्नीर् अभि लोकम् एकम् ॥१५॥
८,९।१६अ - षट् जाता भूता प्रथमजा ऋतस्य षट् उ सामानि षटहं वहन्ति ।
८,९।१६च् - षट्योगं सीरम् अनु सामसाम षट् आहुर् द्यावापृथिवीः षट् उर्वीः ॥१६॥
८,९।१७अ - षढ् आहुः शीतान् षढ् उ मास उष्णान् ऋतुं नो ब्रूत यतमो 'तिरिक्तः ।
८,९।१७च् - सप्त सुपर्णाः कवयो नि षेदुः सप्त छन्दांस्य् अनु सप्त दीक्षाः ॥१७॥
८,९।१८अ - सप्त होमाः समिधो ह सप्त मधूनि सप्त ऋतवो ह सप्त ।
८,९।१८च् - सप्ताज्यानि परि भूतम् आयन् ताः सप्तगृध्रा इति शुश्रुमा वयम् ॥१८॥
८,९।१९अ - सप्त छन्दांसि चतुरुत्तराण्य् अन्यो अन्यस्मिन्न् अध्य् आर्पितानि ।
८,९।१९च् - कथं स्तोमाः प्रति तिष्ठन्ति तेषु तानि स्तोमेषु कथम् आर्पितानि ॥१९॥
८,९।२०अ - कथं गायत्री त्रिवृतं व्य् आप कथं त्रिष्टुप् पञ्चदशेन कल्पते ।
८,९।२०च् - त्रयस्त्रिंशेन जगती कथम् अनुष्टुप् कथम् एकविंशः ॥२०॥ (२३)
८,९।२१अ - अष्ट जाता भूता प्रथमजा ऋतस्याष्टेन्द्र ऋत्विजो दैव्या ये ।
८,९।२१च् - अष्टयोनिर् अदितिर् अष्टपुत्रास्तमीं रात्रिम् अभि हव्यम् एति ॥२१॥
८,९।२२अ - इत्थं श्रेयो मन्यमानेदम् आगमं युष्माकं सख्ये अहम् अस्मि शेवा ।
८,९।२२च् - समानजन्मा क्रतुर् अस्ति वः शिवः स वः सर्वाः सं चरति प्रजानन् ॥२२॥
८,९।२३अ - अष्टेन्द्रस्य षढ् यमस्य ऋषीणां सप्त सप्तधा ।
८,९।२३च् - अपो मनुष्यान् ओषधीस् तां उ पञ्चानु सेचिरे ॥२३॥
८,९।२४अ - केवलीन्द्राय दुदुहे हि गृष्टिर् वशम् पीयूषं प्रथमं दुहाना ।
८,९।२४च् - अथातर्पयच् चतुरश् चतुर्धा देवान् मनुष्यां असुरान् उत ऋषीन् ॥२४॥
८,९।२५अ - को नु गौः क एकऋषिः किम् उ धाम का आशिषः ।
८,९।२५च् - यक्षम् पृथिव्याम् एकवृद् एकर्तुः कतमो नु सः ॥२५॥
८,९।२६अ - एको गौर् एक एकऋषिर् एकं धामैकधाशिषः ।
८,९।२६च् - यक्षं पृथिव्याम् एकवृद् एकर्तुर् नाति रिच्यते ॥२६॥ (२४)
८,१०।१अ - विराढ् वा इदम् अग्र आसीत् तस्या जातायाः सर्वम् अबिभेद् इयम् एवेदं भविष्यतीति ॥१॥
८,१०।२अ - सोद् अक्रामत् सा गार्हपत्ये न्य् अक्रामत् ।
८,१०।२च् - गृहमेधी गृहपतिर् भवति य एवं वेद ॥२॥
८,१०।३अ - सोद् अक्रामत् साहवनीये न्य् अक्रामत् ।
८,१०।३च् - यन्त्य् अस्य देवा देवहूतिं प्रियो देवानां भवति य एवं वेद ॥३॥
८,१०।४अ - सोद् अक्रामत् सा दक्षिणाग्नौ न्य् अक्रामत् ।
८,१०।४च् - यज्ञर्तो दक्षिणीयो वासतेयो भवति य एवं वेद ॥४॥
८,१०।५अ - सोद् अक्रामत् सा सभायां न्य् अक्रामत् ।
८,१०।५च् - यन्त्य् अस्य सभां सभ्यो भवति य एवं वेद ॥५॥
८,१०।६अ - सोद् अक्रामत् सा समितौ न्य् अक्रामत् ।
८,१०।६च् - यन्त्य् अस्य समितिं सामित्यो भवति य एवं वेद ॥६॥
८,१०।७अ - सोद् अक्रामत् सामन्त्रणे न्य् अक्रामत् ।
८,१०।७च् - यन्त्य् अस्यामन्त्रणम् आमन्त्रणीयो भवति य एवं वेद ॥७॥ (२५)
८,१०।८अ - सोद् अक्रामत् सान्तरिक्षे चतुर्धा विक्रान्तातिष्ठत् ॥८॥
८,१०।९अ - तां देवमनुष्या अब्रुवन्न् इयम् एव तद् वेद यद् उभय उपजीवेमेमाम् उप ह्वयामहा इति ॥९॥
८,१०।१०अ - ताम् उपाह्वयन्त ॥१०॥
८,१०।११अ - ऊर्ज एहि स्वध एहि सूनृत एहीरावत्य् एहीति ॥११॥
८,१०।१२अ - तस्या इन्द्रो वत्स आसीद् गायत्र्य् अभिधान्य् अभ्रम् ऊधः ॥१२॥
८,१०।१३अ - बृहच् च रथंतरं च द्वौ स्तनाव् आस्तां यज्ञायज्ञियं च वामदेव्यं च द्वौ ॥१३॥
८,१०।१४अ - ओषधीर् एव रथंतरेण देवा अदुह्रन् व्यचो बृहता ॥१४॥
८,१०।१५अ - अपो वामदेव्येन यज्ञं यज्ञायज्ञियेन ॥१५॥
८,१०।१६अ - ओषधीर् एवास्मै रथंतरं दुहे व्यचो बृहत् ॥१६॥
८,१०।१७अ - अपो वामदेव्यं यज्ञं यज्ञायज्ञियं य वेद ॥१७॥ (२६)
८,१०।१८अ - सोद् अक्रामत् सा वनस्पतीन् आगछत् तां वनस्पतयो 'घ्नत सा संवत्सरे सम् अभवत् ।
८,१०।१८च् - तस्माद् वनस्पतीनां संवत्सरे वृक्णम् अपि रोहति वृश्चते 'स्याप्रियो भ्रातृव्यो य एवं वेद ॥१८॥
८,१०।१९अ - सोद् अक्रामत् सा पितॄन् आगछत् तां पितरो 'घ्नत सा मासि सम् अभवत् ।
८,१०।१९च् - तस्मात् पितृभ्यो मास्य् उपमास्यं ददति प्र पितृयाणं पन्थां जानाति य एवं वेद ॥१९॥
८,१०।२०अ - सोद् अक्रामत् सा देवान् आगछत् तां देवा अघ्नत सार्धमासे सम् अभवत् ।
८,१०।२०च् - तस्माद् देवेभ्यो 'र्धमासे वषट् कुर्वन्ति प्र देवयानं पन्थां जानाति य एवं वेद ॥२०॥
८,१०।२१अ - सोद् अक्रामत् सा मनुष्यान् आगछत् तां मनुष्या अघ्नत सा सद्यः सम् अभवत् ।
८,१०।२१च् - तस्मान् मनुष्येभ्य उभयद्युर् उप हरन्त्य् उपास्य गृहे हरन्ति य एवं वेद ॥२१॥ (२७)
८,१०।२२अ - सोद् अक्रामत् सासुरान् आगछत् ताम् असुरा उपाह्वयन्त माय एहीति ।
८,१०।२२च् - तस्या विरोचनः प्राह्रादिर् वत्स आसीद् अयस्पात्रं पात्रम् ।
८,१०।२२ए - तां द्विमूर्धार्त्व्यो 'धोक् तां मायाम् एवाधोक् ॥
८,१०।२२ग् - तां मायाम् असुरा उप जीवन्त्य् उपजीवनीयो भवति य एवं वेद ॥२२॥
८,१०।२३अ - सोद् अक्रामत् सा पितॄन् आगछत् तां पितर उपाह्वयन्त स्वध एहीति ।
८,१०।२३च् - तस्या यमो राजा वत्स आसीद् रजतपात्रं पात्रम् ।
८,१०।२३ए - ताम् अन्तको मार्त्यवो 'धोक् तां स्वधाम् एवाधोक् ।
८,१०।२३ग् - तां स्वधां पितर उप जीवन्त्य् उपजीवनीयो भवति य एवं वेद ॥२३॥
८,१०।२४अ - सोद् अक्रामत् सा मनुष्यान् आगछत् तां मनुष्या उपाह्वयन्तेरावत्य् एहीति ।
८,१०।२४च् - तस्या मनुर् वैवस्वतो वत्स आसीत् पृथिवी पात्रम् ।
८,१०।२४ए - तां पृथी वैन्यो 'धोक् तां कृषिं च सस्यं चाधोक् ।
८,१०।२४ग् - ते स्वधां कृषिं च सस्यं च मनुष्या उप जीवन्ति कृष्टराधिर् उपजीवनीयो भवति य एवं वेद ॥२४॥
८,१०।२५अ - सोद् अक्रामत् सा सप्तऋषीन् आगछत् तां सप्तऋषय उपाह्वयन्त ब्रह्मण्वत्य् एहीति ।
८,१०।२५च् - तस्याः सोमो राजा वत्स आसीच् छन्दः पात्रम् ।
८,१०।२५ए - तां बृहस्पतिर् आङ्गिरसो 'धोक् तां ब्रह्म च तपश् चाधोक् ।
८,१०।२५ग् - तद् ब्रह्म च तपश् च सप्तऋषय उप जीवन्ति ब्रह्मवर्चस्य् उपजीवनीयो भवति य एवं वेद ॥२५॥ (२८)
८,१०।२६अ - सोद् अक्रामत् सा देवान् आगछत् तां देवा उपाह्वयन्तोर्ज एहीति ।
८,१०।२६च् - तस्या इन्द्रो वत्स आसीच् चमसः पात्रम् ।
८,१०।२६ए - तां देवः सविताधोक् ताम् ऊर्जाम् एवाधोक् ।
८,१०।२६ग् - तां ऊर्जां देवा उप जीवन्त्य् उपजीवनीयो भवति य एवं वेद ॥२६॥
८,१०।२७अ - सोद् अक्रामत् सा गन्धर्वाप्सरस आगछत् तां गन्धर्वाप्सरस उपाह्वयन्त पुण्यगन्ध एहीति ।
८,१०।२७च् - तस्याश् चित्ररथः सौर्यवर्चसो वत्स आसीत् पुष्करपर्णं पात्रम् ।
८,१०।२७ए - तां वसुरुचिः सौर्यवर्चसो 'धोक् तां पुण्यम् एव गन्धम् अधोक् ।
८,१०।२७ग् - तं पुण्यं गन्धं गन्धर्वाप्सरस उप जीवन्ति पुण्यगन्धिर् उपजीवनीयो भवति य एवं वेद ॥२७॥
८,१०।२८अ - सोद् अक्रामत् सेतरजनान् आगछत् ताम् इतरजना उपाह्वयन्त तिरोध एहीति ।
८,१०।२८च् - तस्याः कुबेरो वैश्रवणो वत्स आसीद् आमपात्रं पात्रम् ।
८,१०।२८ए - तां रजतनाभिः कबेरको 'धोक् तां तिरोधाम् एवाधोक् ।
८,१०।२८ग् - तां तिरोधाम् अतिरजना पितर उप जीवन्ति तिरो धत्ते सर्वं पाप्मानम् उपजीवनीयो भवति य एवं वेद ॥२८॥
८,१०।२९अ - सोद् अक्रामत् सा सर्पान् आगछत् तां सर्पा उपाह्वयन्त विषवत्य् एहीति ।
८,१०।२९च् - तस्यास् तक्षको वैशलेयो वत्स आसीद् अलाबुपात्रं पात्रं ।
८,१०।२९ए - तां धृतराष्ट्र अइरावतो 'धोक् तां विषम् एवाधोक् ।
८,१०।२९ग् - तद् विषं सर्वा उप जीवन्त्य् उपजीवनीयो भवति य एवं वेद ॥२९॥ (२९)
८,१०।३०अ - तद् यस्मा एवं विदुषे 'लाबुनाभिषिञ्चेत् प्रत्याहन्यात् ॥३०॥
८,१०।३१अ - न च प्रत्याहन्यान् मनसा त्वा प्रत्याहन्मीति प्रत्याहन्यात् ॥३१॥
८,१०।३२अ - यत् प्रत्याहन्ति विषम् एव तत् प्रत्याहन्ति ॥३२॥
८,१०।३३अ - विषम् एवास्याप्रियं भ्रातृव्यम् अनुविषिच्यते य एवं वेद ॥३३॥ (३०)