शृङ्गारतिलक - प्रथमः परिच्छेदः

संस्कृत भाषेतील काव्य, महाकाव्य म्हणजे साहित्य  विश्वातील मैलाचा दगड होय, काय आनंद मिळतो त्याचा रसास्वाद घेताना, स्वर्गसुखच. शृङ्गारतिलक काव्याचे कवी आहेत,रुद्रभट्ट.


शृङ्गारी गिरिजानने सकरुणो रत्यां प्रवीरः स्मरे
बीभत्सोऽस्थिभिरुत्फणी च भयकृन्मूर्त्याद्भुतस्तुङ्गया ।
रौद्रो दक्षविमर्दने च हसकृन्नग्नः प्रशान्तश्चिराद्
इत्थं सर्वरसाश्रयः पशुपतिर्भूयात्सतां भूतये ॥१.१॥

आख्यातनामरचनाचतुरस्रसन्धि
सद्वागलङ्कृतिगुणं सरसं सुवृत्तं  ।
आसेदुषां अपि दिवं कविपुङ्गवानां
तिष्ठत्यखण्डं इह काव्यमयं शरीरं ॥१.२॥

काव्ये शुभेऽपि रचिते खलु नो खलेभ्यः
कश्चिद्गुणो भवति यद्यपि सम्प्रतीह ।
कृपां तथापि सुजनार्थं इदं यतः किं
यूकाभयेन परिधानविमोक्षणं स्याथ् ॥१.३॥

सानन्दप्रमदाकटाक्षविशिखैर्येषां न भिन्नं मनो
यैः संसारसमुद्रपातविधुरेष्वन्येषु पोतयितं  ।
यैर्निःसीमसरस्वतीविलसितं द्वित्रैः पदैः संहृतं
तेषां अप्युपरि स्फुरन्ति मतयः कस्यापि पुण्यात्मनः ॥१.४॥

प्रायो नाट्यं प्रति प्रोक्ता भरताद्यै रसस्थितिः ।
यथामति मयाप्येषा काव्यं प्रति निगद्यते ॥१.५॥

यामिनीवेन्दुना मुक्ता नारीव रमणं विना ।
लक्ष्मीरिव ऋते त्यागान्नो वाणी भाति नीरसा ॥१.६॥

सत्यं सन्ति गृहे गृहे सुकवयो येषां वचश्चातुरी
स्वे हर्म्ये कुलकन्यकेव लभते जातैर्गुणैर्गौरवं  ।
दुष्प्रापः स तु कोऽपि कोविदपतिर्यद्वाग्रसग्राहिणां
पुण्यस्त्रीव कलाकलापकुशला चेतांसि हर्तुं क्षमा ॥१.७॥

तस्माद्यत्नेन कर्तव्यं काव्यं रसनिरन्तरं  ।
अन्यथा शास्त्रविद्गोष्ठ्यां तत्स्यादुद्वेगदायकं ॥१.८॥
शृङ्गारहास्यकरुणा रौद्रवीरभयानकाः ।
बीभत्साद्भुतशान्ताश्च नव काव्ये रसाः स्मृताः ॥१.९॥
रतिर्हासश्च शोकश्च क्रोधोत्साहौ भयं तथा ।
जुगुप्साविस्मयशमाः स्थायिभावाः प्रकीर्तिताः ॥१.१०॥
निर्वेदोऽथ तथा ग्लानिः शङ्कासूया मदः श्रमः ।
आलस्यं चैव दैन्यं च चिन्ता मोहो धृतिः स्मृतिः ॥१.११॥
व्रीडा चपलता हर्ष आवेगो जडता तथा ।
गर्वो विषाद औत्सुक्यं निद्रापस्मार एव च ॥१.१२॥
सुप्तं प्रबोधोऽमर्षश्चाप्यवहित्था तथोग्रता ।
मतिर्व्याधिस्तथोन्मादस्तथा मरणं एव च ॥१.१३॥
त्रासश्चैव वितर्कश्च विज्ञेया व्यभिचारिणः ।
त्रयस्त्रिंशदिमे भावाः प्रयान्ति च रसस्थितिं ॥१.१४॥
स्तम्भः स्वेदोऽथ रोमाञ्चः स्वरभङ्गोऽथ वेपथुः ।
वैवर्ण्यं अश्रु प्रलय इत्यष्टौ सात्त्विकाः स्मृताः ॥१.१५॥
भावा एवातिसम्पन्नाः प्रयान्ति रसतां अमी ।
यथा द्रव्याणि भिन्नानि मधुरादिरसात्मनां ॥१.१६॥
सम्भवन्ति यथा वृक्षे पुष्पपत्रफलादयः ।
तद्वद्रसेऽपि रुचिरा विशेषा भावरूपिणः ॥१.१७॥
प्रायो नैकरसं काव्यं किञ्चिदत्रोपलभ्यते ।
बाहुल्येन भवेद्यस्तु स तद्वृत्त्या निगद्यते ॥१.१८॥
कैशिक्यारभटी चैव सात्वती भारती तथा ।
चतस्रो वृत्तयो ज्ञेया रसावस्थानसूचकाः ॥१.१९॥
धर्मादर्थोऽर्थतः कामः कामात्सुखफलोदयः ।
साधीयानेष तत्सिद्ध्यै शृङ्गारो नायको रसः ॥१.२०॥
चेष्टा भवति पुंनार्योर्या रत्युत्थातिरिक्तयोः ।
संयोगो विप्रलम्भश्च शृङ्गारो द्विविधो मतः ॥१.२१॥
संयुक्त्योश्च संयोगो विप्रलम्भो वियुक्तयोः ।
प्रच्छन्नश्च प्रकाशश्च पुनरेष द्विधा यथा ॥१.२२॥

मदनकुञ्जरकुम्भतटोपमे
स्तनयुगे परितः स्फुरिताङ्गुलिं  ।
सकरजक्षतवामं अपि प्रिया
दयितपाणिं अमन्यत दक्षिणं ॥१.२२॥

सन्तप्तः स्म्रसंनिवेशविवशैः श्वासैर्मुहुः पञ्चमो
द्गारावर्तिभिरापतद्भिरभितः सिक्तश्च नेत्राम्बुभिः ।
एतस्याः प्रियविप्रयोगविधुरस्त्यक्त्वाधरो रागितां
सम्प्रत्युद्धतवह्निवारिविषमं मन्ये व्रतं सेवते ॥१.२२॥

कान्ते विचित्रसुरतक्रमबद्धरागे
सङ्केतकेऽपि मृगशावकलोचनायाः ।
तत्कूजितं किं अपि येन तदीयतल्पं
नाल्पैः परीतं अनुशब्दितलावकौघैः ॥१.२२॥ (Sकं १११६)

किञ्चिद्वक्रितकण्ठकन्दलदलत्पीनस्तनावर्तन
व्यायां चितकञ्चुकं मृगदृशस्तस्यास्तदालोकितं  ।
वाचस्ताश्च विदग्धभावचतुराः स्फारीभवन्मन्मथा
हंहो मानस किं स्मरस्यभिमताः सिद्ध्यन्ति पुण्यैः क्रियाः ॥१.२२॥

त्यागी कुलीनः कुशलो रतेषु
कल्पः कलावित्तरुणो धनाढ्यः ।
भव्यः क्षमावान्सुभगोऽभिमानी
स्त्रीणां अभीष्टस्त्विह नायकः स्याथ् ॥१.२३॥
तस्यानुकूलदक्षिणशठधृष्टा इत्थं अत्र चत्वारः ।
भेदाः क्रिययोच्यन्ते तदुदाहृतयश्रमणीयाः ॥१.२४॥
अतिरक्ततया नार्या सदा त्यक्तपराङ्गनः ।
सीतायां रामवत्सोऽयं अनुकूलः स्मृतो यथा ॥१.२५॥

अस्माकं सखि वाससी न रुचिरे ग्रैवेयकं नोज्ज्वलं
नो वक्त्रा गतिरुद्धतं न हसितं नैवास्ति कश्चिन्मदः ।
किं त्वन्येऽपि जना वदन्ति सुभगोऽप्यस्याः प्रियो नान्यतो
दृष्टिं निःक्षिपतीति विश्वं इयता मन्यामहे दुःखितं ॥१.२५॥

यो गौरवं भयं प्रेम सद्भावं पूर्वयोषिति ।
न मुञ्चत्यन्यचित्तोऽपि ज्ञेयोऽसौ दक्षिणो यथा ॥१.२६॥

सैवास्य प्रणतिस्तदेव वचनं ता एव केलिक्रिया
भीतिः सैव तदेव नर्ममधुरं पूर्वानुरागोचितं  ।
कान्तस्याप्रियकारिणीति भवती तं वक्ति दोषाबिलं
किं स्यादित्थं अहर्निशं सखि मनो दोलायते चिन्तया ॥१.२६॥

प्रियं वक्ति पुरोऽन्यत्र विप्रियं कुरुते भृशं  ।
ज्ञातापराधचेष्टश्च कुटिलोऽसौ शठो यथा ॥१.२७॥

सहजतरले आवां तावद्बहुश्रुतिशालिनौ
पुनरिह युवां सत्यं शिष्टं तदत्र कृतागसि ।
प्रणयिनि पुनर्युक्तं रन्तुं न वेति बतावयो
र्ध्रुवं उपगते कर्णौ प्रष्टुं कुरङ्गदृशौ दृशौ ॥१.२७॥

अपि च
कोपात्किञ्चिदुपानतोऽपि रभसादाकृष्य केशेष्वलं
नीत्वा मोहनमन्दिरं दयितया हारेण बह्वा दृढं  ।
भूयो यास्यसि तद्गृहानिति मुहुः कण्ठारुद्धाक्षरं
जल्पन्त्या श्रवणोत्पलेन सुकृती कश्चिद्रहस्ताड्यते ॥१.२७॥

निःशङ्कः कृतदोषोऽपि विलक्षस्तर्जितोऽपि नो ।
मिथ्यावाग्दृष्टदोषोऽपि धृष्टोऽसौ कथितो यथा ॥१.२८॥

जल्पन्त्याः परुषं रुषा मम बलाच्चुम्बत्यसावाननं
मृद्गात्याशु करं करेण बहुशः सन्ताड्यमानोऽपि सन्  ।
आलीनां पुरतो दधाति शिरसा पादप्रहारांस्ततो
नो जाने सखि साम्प्रतं प्रणयिएन्कुप्यामि तस्मै कथं ॥१.२८॥

अपि च
धिक्त्वां धूर्त गतत्रप प्रणयिनी सैव त्वयाराध्यतां
यस्याः पादतलाहतिं तव हृदि व्याख्यात्यसौ यावकः ।
इत्युक्तोऽपि न नाम मुञ्चति यदा पादावयं दुर्जनो
मिथ्यावादविचक्षणः किं अपरं कुर्यां वयस्ये तदा ॥१.२८॥

गूढमन्त्रः शुचिर्वाग्मी भक्तो नर्मविचक्षणः ।
स्यान्नर्मसचिवस्तस्य कुपितस्स्त्रीप्रसादकः ॥१.२९॥
पीठमर्दो विटश्चेति विदूषक इति त्रिधा ।
स भवेत्प्रथमस्तत्र नायिकानायकानुगः ॥१.३०॥
एकविद्यो विटः प्रोक्तः क्रीडाप्रायो विदूषकः ।
स्ववपुर्वेषभाषाभिर्हास्यकारी च नर्मविथ् ॥१.३१॥
एषां प्रबन्धविषयो व्यवहारः प्रायशो भवेत्प्रचुरः ।
प्रत्येकं उदाहृतस्तथापि काश्चिन्निगद्यन्ते ॥१.३२॥

विमुञ्चामुं मानं सफलय वचः साधु सुहृदां
मुधा सन्तापेन ग्लपयसि किं अङ्गं स्मरभुवा ।
प्रियं पादप्रान्तप्रणतं अधुना मानय भृशं
न मुग्धे प्रेत्येतुं प्रभवति गतः कालहरिणः ॥१.३२॥

प्रणयिनि भृशं तस्मिन्मानं मनस्विनि मा कृथाः
किं अपरं इतो युक्तायुक्तैर्विना ह्यमुना तव ।
अयं अपि भवेत्सम्प्रत्यपि क्षयानलसंनिभः
सरसविसिनीकन्दच्छेदच्छविर्मृगलाञ्छनः ॥१.३२॥

दूरात्कन्दलितैर्हृदि प्रविततैः कण्ठे लुठद्भिर्हठाद्
वक्त्रे सङ्कटनासिकातरलितैर्निर्यद्भिरत्यूष्मभिः ।
निःश्वासैः पृथुमन्मथोत्थदवथुर्व्यक्तं तवावेदितो
म्थ्यालम्बितसौष्ठवेन किं अतः कोपेन कान्तं प्रति ॥१.३२॥

स्वकीया परकीया च सामान्यवनिता तथा ।
कलाकलापकुशलास्तिस्रस्तस्येह नायिकाः ॥१.३३॥
पौराचाररता साध्वी क्षमार्जवविभूषिता ।
मुग्धा मध्या प्रगल्भा च स्वकीया त्रिविधा मता ॥१.३४॥
मुग्धा नववधूस्तत्र नवयौवनभूषिता ।
नवानङ्गरहस्यापि लज्जाप्रायरतिर्यथा ॥१.३५॥

गतं कर्णाभ्यर्णे प्रसरति तथाप्यक्षियुगलं
कुचौ कुम्भारम्भौ तदपि चिबुकोत्तम्भनरुची ।
नितम्बप्राग्भारो गुरुरपि गुरुत्वं मृगयते
कथंचिन्नो तृप्तिस्तरुणिमनि मन्ये मृगदृशः ॥१.३५॥

यथा रोमाञ्चोऽयं स्तनभुवि लसत्स्वेदकणिको
यथा दृष्टिस्तिर्यक्पतति सहसा सङ्कुचति च ।
तथा शङ्केऽमुष्याः प्रणयिनि दरास्वादितरसं
न मध्यस्थं चेतः प्रगुणरमणीयं न च दृढं ॥१.३५॥

विरम नाथ विमुञ्च ममाञ्चलं
शमय दीपं इयं समया सखी ।
इति नवोढवधूवचसा युवा
मुदं अगादधिकां सुअरतादपि ॥१.३५॥ (Sकं ५०१)

सकम्पा चुम्बने वक्त्रं हरत्येषोपगूहिता ।
परावृत्य चिरं तल्प आस्ते रन्तुं च वाञ्छति ॥१.३६॥

अपहरति यदास्यं चुम्बने श्लिष्यमाणा
वलति च शयनीये कम्पते च प्रकामं  ।
वदति च यदलक्ष्यं किञ्चिदुक्तापि भूयो
रमयति सुतरां तच्चित्तं अन्तर्नवोढा ॥१.३६॥

मुग्धां आवर्जयत्येष मृदूपायेन सान्त्वयन्  ।
नातिभीतिकरैर्भावाइर्निबन्धैर्बालभीषकैः ॥१.३७॥

सरति सरस्तीरादेषा भ्रमद्भ्रमरावली
सुमुखि विमुखी पद्मे मन्ये तवास्यपिपासया ।
इति निगदिते किञ्चिद्भीत्या विवर्तितकन्धरा
वदनकमले भर्त्रा बाला चिरं परिचुम्बिता ॥१.३७॥

अन्यां निषेवमाणेऽपि यदि कुप्यति सा प्रिये ।
रोदित्यस्याग्रतः स्वल्पं अनुनीता च तुष्यति ॥१.३८॥

मन्यौ कृते प्रथमं एव विकारं अन्यं
नो जानती नववधू रुदती परं सा ।
धूर्तेन लोचनजलं परिमृज्य गाढं
संचुम्ब्य चाधरदले गमिता प्रसादं ॥१.३८॥

आरूढयौवना मध्या प्रादुभूतमनोभवा ।
प्रगल्भवचना किञ्चिद्विचित्रसुरता यथा ॥१.३९॥

तरत्तारं चक्षुः क्षपयति मुनीनां अपि दृशः
कुचद्वन्द्वाक्रान्तं हृदयं अहृदः कान्न कुरुते ।
गतिर्मन्दीभूता हरति गमनं मन्मथवता
महो तन्व्यास्तुल्यं तरुणिमनि सर्वं विजयते ॥१.३९॥

दृष्टिः स्निह्यति निर्भरं प्रियतमे वैदग्ध्यभाजो गिरः
पाणिः कुन्तलमालिकाविरचने त्यक्तान्यकार्यग्रहः ।
वक्षः संव्रियते पुनः पुनरिदं भारालसं गम्यते
जाता सुभ्रु मनोरमा तव दशा कस्मादकस्मादियं ॥१.३९॥

सुभग कुरवकस्त्वं नो किं आलिङ्गनोक्तिः
किं उ मुखमदिरेच्छुः केसरो नो हृदिस्थः ।
त्वयि नियतं अशोके युज्यते पादघातः
प्रियं इति परिहासात्पेशलं काचिदूचे ॥१.३९॥

कान्ते तथा कथं अपि प्रथितं मृगाक्ष्या
चातुर्यं उद्धतमनोभवया रतेषु ।
तत्कूजितान्यनुवदद्भिरनेकवारं
शिष्यायितं गृहकपोतशतैर्यथास्याः ॥१.३९॥

गाढं व्याप्रियते कान्तं इबतीव रतावियं  ।
विशतीव तदङ्गेषु मुह्यतीव सुखे यथा ॥१.४०॥

कृत्वानेकविधां रसेन सुरते केलिं कथञ्चिच्चिरा
त्प्राप्तान्तः सुखमीलिताक्षियुगला स्विद्यत्कपोलस्थली ।
सुप्तेयं किल सुन्दरीति सुभगः स्वैरं तथैवास्वज
द्गाढानङ्गविमर्दनिःसहवपुर्निद्रां सहैवागतः ॥१.४०॥

सा धीरा वक्ति वक्रोक्त्या प्रियं कोपात्कृतागसं  ।
मध्या रोदित्युपालम्भैरधीरा परुषं यथा ॥१.४१॥

उपेत्य तां दृढपरिरम्भलालस
श्चिरादभूः प्रमुपितचारुचन्दनः ।
धृताञ्जनः सपदि तदक्षिचुम्बना
दिहैव ते प्रिय विदिता कृतार्थता ॥१.४१॥

यत्रार्कायितं इन्दुना सरसिजैरङ्गारपुञ्जायितं
क्रुद्धायां मयि नाथ ते कदलिकाकाण्डैरलातायितं  ।
कालोऽन्यः खलु कोऽपि सोऽमृतमयो जातो विषात्माधुना
धिक्त्वां धूर्त विनिर्यदश्रुरबला मोहं रुदन्ती गता ॥१.४१॥

सार्धं मनोरथशतैस्तव धूर्त कान्ता
सैव स्थिता मनसि कृत्रिमभावरम्या ।
अस्माकं अस्ति न हि कश्चिदिहावकाशस्
तस्मात्कृतं चरणपातविडम्बनाभिः ॥१.४१॥

लब्धायतिः प्रगल्भा स्यात्समस्तरतिकोविदा ।
आक्रान्तनायिका बाढं विराजद्विभ्रमा यथा ॥१.४२॥

सेयं परङ्गिनी मृणाललतिकां आदाय यस्याः प्रियो
हारं मे कुरुते पयोधरतटे प्रत्यग्रतारारुचं  ।
बन्धूकं च तदेतदालि विदलद्यत्तेन सीमन्तितं
सर्वाशाविजिगीषुपुष्पधनुषो बाणश्रियं धास्यति ॥१.४२॥

यत्र स्वेदलवैरलं व्लुलितैर्व्यालुप्यते चन्दनं
स्वच्छन्दैर्मणितैश्च यत्र रणितं निह्नूयते नूपुरं  ।
यत्रायान्त्यचिरेण सर्वविषयाः कामं तदेकाग्रतां
सख्यस्तत्सुरतं भणामि रतये शेषा तु लोकस्थितिः ॥१.४२॥

स्वामिन्भङ्गुरयालकं सतिलकं भालं विलासिन्कुरु
प्राणेश त्रुटितं पयोधरतटे हारं पुनर्योजय ।
इत्युक्त्वा सुरतावसानसुखिता सम्पूर्णचद्न्रानना
स्पृष्टा तेन तथेति जातपुलका प्राप्ता पुनर्मोहनं ॥१.४२॥

मधुरवचनैः सभ्रूभङ्गैः कृताङ्गुलितर्जनै
रलसवलितैरङ्गन्यासैर्महोत्सवबन्धुभिः ।
असकृदसकृत्स्फारस्फारैरपाङ्गविलोकितै
स्त्रिभुवनजये सा पञ्चेषोः करोति सहायतां ॥१.४२॥

निराकुला रतावेषा द्रवतीव प्रियाङ्गके ।
कोऽयं कास्मि रतं किं वा न वेत्ति च रसाद्यथा ॥१.४३॥

धन्यास्ताः सखि योषितः प्रियतमे सर्वाङ्गलग्नेऽपि याः
प्रागल्भ्यं प्रथयन्ति मोहनविधावालम्ब्य धैर्यं महथ् ।
अस्माकं तु तदीयपाणिकमलेऽप्युन्मोचयत्यंशुकं
कोऽयं का वयं अत्र किं नु सुरतं नैव स्मृतिर्जायते ॥१.४३॥

कृतदोषेऽपि साधीरा तस्मिन्नाद्रियते रुषा ।
आकारसंवृतिं चापि कृत्वोदास्ते रतौ यथा ॥१.४४॥

यद्वाचः प्रचुरोपचारचतुरा यत्सादरं दूरतः
प्रत्युत्थानं इदं स्वहस्तनिहितं यद्भिन्नं अप्यासनं  ।
उत्पश्यामि यदेवं एव च मुहुर्दृष्टिं सखीसंमुखीं
तच्छङ्के तव पङ्कजाक्षि बलवान्कोऽप्यप्रसादो मयि ॥१.४४॥

यत्पाणिर्न निवारितो निवसनग्रन्थिं स्ॐउद्ग्रन्थय
न्भ्रूभेदो न कृतो मनागपि मुहुर्यत्खण्ड्यमानेऽधरे ।
यन्निःशङ्कं इवार्पितं वपुरहो पत्युः समालिङ्गने
मानिन्या कथितोऽनुकूलविधिना तेनैव मन्युर्महान् ॥१.४४॥

मध्या प्रतिभिनत्त्येनं सोल्लुण्ठं साधुभाषितैः ।
अधीरा पुरुषैर्हन्ति सन्तर्ज्य दयितं यथा ॥१.४५॥

कृतं मिथ्याजल्पैर्विरम विदितं कामुक चिरात्
प्रियां तां एवोच्चैरभिसर यदीयैर्नखपदैः ।
विलासैश्च प्राप्तं तव हृदि पदं रगबहुलैर्
मया किं ते कृत्यं ध्रुवं अकुटिलाचारपरया ॥१.४५॥

सा बाढं भवतेक्षितेति निविडं संयम्य बाह्वोः स्रजा
भूयो द्रक्ष्यसि तां शठेति दयितं संतर्ज्य संतर्ज्य च ।
आलीनां पुर एव निह्नुतिपरः कोपाद्रणन्नूपुरं
मानिन्या चरणप्रहारविधिना प्रेयानशोकीकृतः ॥१.४५॥

एकाकारा मता मुग्धा पुनर्भूश्च यतोऽनयोः ।
अतिसूक्ष्मतया भेदः कविभिर्न प्रदर्शितः ॥१.४६॥
मध्या पुनः प्रगल्भा च द्विधा सा परिभिद्यते ।
एका ज्येष्ठा कनिष्ठान्या नायकप्रणयं प्रति ॥१.४७॥
उपरोधात्तथा स्नेहात्सानुरागोऽपि नायकः ।
चेष्टते तां प्रति प्रायः कलासु कुशलो यथा ॥१.४८॥

त्वदक्षिणी कुवलयबुद्धिरत्यली
रुणध्म्यहं तदिति निमीय लोचने ।
ततो भृशं पुलकितगण्डमण्डलां
युवा परां निभृतं अचुम्बदङ्गनां ॥१.४८॥

सम्पत्तौ च विपत्तौ च मरणेऽपि न मुञ्चति ।
या स्वीया तां प्रति प्रेम जायते पुण्यकारिणः ॥१.४९॥
अन्यदीया द्विधा प्रोक्ता कन्योढा चेति ते प्रिये
दर्शनाच्छ्रवणाद्वापि कामार्ते भवतो यथा ॥१.५०॥

किं अपि ललितैः स्निग्धैः किञ्चित्किं अप्यतिकुञ्चितैः
किं अपि वलितैः कन्दर्पेषून्हसद्भिरिवेक्षणैः ।
अभिमतमुखं वीक्षां चक्रे नवाङ्गनया तथा
ललितकुशलोऽप्यालीलोको यथातिविसिस्मये ॥१.५०॥

निशमय्य बहिर्मनोहरं स्वरं ऐक्षिष्ट तथापरा या ।
तिलमात्रकं अप्यभून्नहि श्रवेणेन्दीवरलोचनानन्तरं ॥१.५०ब्॥

कस्याश्चित्सुभग इति श्रुतश्चिरं यस्तं
दृष्ट्वाधिगतरतेर्निर्मीलिताक्ष्याः ।
निस्पन्दं वपुरवलोक्य सौविदल्लाः
सन्तेपुर्विधुरधियो निशान्तवध्वाः ॥१.५०च्॥

कार्श्यजागरतापान्यः करोति श्रुतोऽप्यलं  ।
तं एव दुर्लभं कान्तं चेतः कस्माद्दिदृक्षसे ॥१.५०द्॥

साक्षाच्चित्रे तथा स्वप्ने तस्य स्याद्दर्शनं त्रिधा ।
देशे काले च भङ्ग्या च श्रवणं चास्य तद्यथा ॥१.५१॥

सत्यं सन्ति गृहे गृहे प्रियतमा येषां भुजालिङ्गन
व्यापारोच्छलदच्छमोहनजला जायन्त एणीदृशः ।
प्रेयान्कोऽप्यपरोऽयं अत्र सुकृती दृष्टेऽपि यस्मिन्वपुः
स्वेदोज्जृम्भणकम्पसाध्वसमुखैः प्राप्नोति काञ्चिद्दृशां ॥१.५१॥   

चित्रं चित्रगतोऽप्येष ममालि मदनोपमः ।
समुन्मूल्य बलाल्लज्जां उत्कण्ठयति मानसं ॥१.५१॥

मुग्धा स्वप्नसमागते प्रियतमे तत्पाणिसंस्पर्शना
द्रोमाञ्चार्चितया शरीरलतया संसूच्य कोपात्किल ।
मा मां वल्लभ संस्पृशेति सहसा शून्यं वदन्ती मुहुः
सख्या नो हसिता सचिन्तं असकृत्संशोचिता प्रत्युत ॥१.५१॥

स्फारस्फुरत्प्रदीपं सौधं मधु सोत्पलं कलं गीतं  ।
प्रियसखि सकलं इदं तव सफलं खलु यदि भवेत्सोऽत्र ॥१.५१॥

विकसति कैरवनिकरे सरति च सरसीसमीरणो सुतनु ।
चम्बत्यम्बरं इन्दौ तव तेन विना रतिः कीदृक् ॥१.५१॥

अजननिरस्तु दृशोस्तव कुचयोरभवनिरलं भवतु ।
यदि दृश्यते न स युवा निर्भरं आलिङ्ग्यते नो वा ॥१.५१॥

द्रष्टुं वक्तुं च नो कन्या रक्ता शक्नोत्यमुं स्फुटं  ।
पश्यन्तं अभिजल्पन्तं विविक्तेऽपि ह्रिया यथा ॥१.५२॥

कामं न पश्यति दिदृक्षत एव भूम्ना
नोक्तापि जल्पति विवक्षति चादरेण ।
लज्जास्मरव्यतिकरेण मनोऽधिनाथे
बाला रसान्तरं इदं ललितं बिभर्ति ॥१.५२॥

विज्ञातनायिकाचित्ता सखी वदति नायकं  ।
नायको वा सखीं तस्याः प्रेमाभिव्यक्तये यथा ॥१.५३॥

कण्टकिततनुशरीरा लज्जामुकुलायमाननयनेयं  ।
तव कुमुदिनीव वाञ्छति नृचन्द्र बाला करस्पृशं ॥१.५३॥

सन्तापयन्ति शिशिरांशुरुचो यदेते
संमोहयन्ति च विनिद्रसरोजवाताः ।
यत्खिद्यते तनुरियं च तदेष दोषः
सख्यास्तवैव सुतनु प्रचुरत्रपायाः ॥१.५३॥

अपश्यन्तं च सा कान्तं स्फारिताक्षी निरीक्ष्यते ।
दूरादालोकयत्येव सखीं स्वजनि निर्भरं ॥१.५४॥
निर्निमित्तं हसन्ती च सखीं वदति किंचन ।
सव्याजं सुन्दरं किञ्चिद्गात्रं आविष्करोति च ॥१.५५॥
सख्यादि स्थापितां मालां काञ्च्यादि रचयेत्पुनः ।
चेष्टां च कुरुते रम्यां अङ्गभङ्गैः शुभैर्यथा ॥१.५६॥

अभिमुखगते यस्मिन्नेव प्रिये बहुशो वद
त्यवनतमुखं तूष्णीं एव स्थितं मृगनेत्रया ।
अथ किल वलल्लीलालोकं स एष तथेक्षितः
कथं अपि यथा दृष्टा मन्ये कृतं श्रुतिलङ्घनं ॥१.५६॥

तिर्यग्वर्तितगात्रयष्टिविषमोद्वृत्तस्तनास्फालन
त्रुट्यन्मौक्तिकमालया सपुलकस्वेदोल्लसद्गण्डया ।
दूरादेव विलोकयेत्यभिमते तद्वक्त्रदत्तेक्षणं
दुर्वारस्मरया तया सहचरी गाढं समालिङ्गिता ॥१.५६॥

अनिमित्तं यद्विहसति निष्कारणं एव यत्सखीं वदति ।
दयितं विलोक्य तदियं शंसति तदधीनं आत्मानं ॥१.५६॥

प्रादुष्यद्रुजमूलकान्तिललितां उद्यम्य दोर्वल्लरीं
वल्गत्पीनपयोधरस्थललुलन्मुक्तावलीसुन्दरं  ।
अङ्गुल्या प्रचलत्कराग्रवलयस्वानोपहूतस्मरं
तन्व्याः कुञ्चितलोचनं विजयते तत्कर्णकण्डूयनं ॥१.५६॥

स्रहोऽवतंसं रशनां च किञ्चित्
प्रियं समालोक्य समासजन्ती ।
पुनस्तरां सा सुहृदो ददाति
प्रत्यङ्गं आवासं इव स्मरस्य ॥१.५७॥

व्याजृम्भणोन्नमितदन्तमयूखजाल
व्यालम्बिमौक्तिकगुणं रमणे मुदेव ।
ऊर्ध्वं मिलद्भुजलतावलयप्रपञ्च
सत्तोरणं हृदि विशत्यपरा व्युदासे ॥१.५७॥

अन्योढापि करोत्येव सर्वं उद्धतमन्मथा ।
दुरवस्था पुनः कान्तं अभियुङ्क्ते स्वयं यथा ॥१.५८॥

उल्लङ्घ्याî सखीवचः समुचितां उत्सृज्य लज्जां अलं
हित्वा भीतिभरं निरस्य च निजं सौभाग्यगर्वं मनाक्  ।
आज्ञां केवलं एव मन्मथगुरोरादाय नूनं मया
त्वं निःशेषविलासिवर्गगणनाचूडामणे संश्रितः ॥१.॥

चक्षुर्मीलति सानन्दं नितम्बः प्रस्रवत्यपि ।
वेपते च तनुस्तन्वी तस्यास्तद्दर्शने यथा ॥१.५९॥

मीलन्मन्थरचक्षुषा परिपतत्काञ्चीग्रहव्यग्रया
गाडानन्ङ्गभरस्रवत्रवनया कम्पोपरुद्धाङ्गया ।
सर्वाङ्गं चटुकारकोऽप्यबलया सङ्केतके कौतुका
दास्तां रन्तुं अहो निरीक्षितुं अपि प्रेयान्न सम्भावितः ॥१.५९॥

नाभियुङ्क्ते स्वयं कन्त्या मुग्धत्वाद्दुःस्थितापि तं  ।
तदवस्थां तु कान्ताय तत्सखी कथयेद्यथा ॥१.६०॥

निःश्वासेषु स्खलति कदलीबीजनं तापसम्प
न्नेत्राम्भोभिश्छं इति पतितैः सिच्यते च स्तनान्तः ।
तस्याः किञ्चित्सुभग तदभूत्तानवं त्वद्वियोगे
येनाकस्माद्वलयपदवीं अङ्गुलीयं प्रयाति ॥१.६०॥

अनन्यशरणा स्वीया धनाहार्या पराङ्गना ।
अस्यास्तु केवलं प्रेम तेनैषा रागिणां मता ॥१.६१॥
सामान्या वनिता वेश्या सा द्रव्यं परं इच्छति ।
निर्गुणेऽपि न विद्वेषो न रागोऽस्या गुणिन्यपि ॥१.६२॥
तत्स्वरूपं इदं प्रोक्तं कैश्चिद्ब्रूमो वयं पुनः ।
वर्णयन्त्यनया युक्त्या तासां अप्यनुरागितां ॥१.६३॥
शृङ्गाराभास एतासु न शृङ्गारः कदाचन ।
तद्व्यापारोऽथवा तासां स्मरः किं भक्षितो बकैः ॥१.६४ ॥
तस्मात्तासां अपि क्वापि रागः स्यात्किं नु सर्वथा ।
धनार्थं कृत्रिमैर्भावैर्ग्राम्यं व्यामोहयन्ति ताः ॥१.६५॥
लिङ्गी प्रच्छन्नकामश्च नरंमन्यश्च षण्डकः ।
सुखप्राप्तधनो मूर्खः पितृवित्तेन गर्वितः ॥१.६६॥
इत्यादीन्प्रथमं ग्राम्यान्ज्ञात्वाकृष्य च तद्धनं  ।
अपूर्वा इव मुञ्चन्ति तानेतास्तापयन्ति च ॥१.६७॥
किन्तु तासां कलाकेलि- कुशलानां मनोरमं  ।
विस्मारितापरस्त्रीकं सुरतं जायते यथा ॥१.६८॥
 
गाढालिङ्गनपीडितस्तनतटं स्विद्यत्कपोलस्थलं
सन्दष्टाधरमुक्तसीत्कृतं अतिभ्राम्यद्भ्रुनृत्यत्करं  ।
चाटुप्रायवचोविचित्रभणितैर्यातै रुतैश्चाङ्कितं
वेश्यानां धृतिधाम पुष्पधनुषः प्राप्नोति धन्यो रतं ॥१.६८॥

ईर्ष्या कुलस्त्रीषु न नायकस्य
निःशङ्ककेलिर्न पराङ्गनासु ।
वेश्यासु चैतद्द्वितयं प्ररूढं
सर्वस्वं एतास्तदहो स्मरस्य ॥१.६९ ॥(Sकं ५५६)
कुप्यत्पिनाकिनेत्राग्नि- ज्वालाभस्मीकृतः पुरा ।
उज्जीवति पुनः कामो मन्ये वेश्यावलोकितैः ॥१.७० ॥
आनन्दयन्ति युक्त्या तां सेविता घ्नन्ति चान्यथा ।
दुर्विज्ञेयाः प्रकृत्यैव तस्माद्वेश्या विषोपमाः ॥१.७१॥

स्वाधीनपतिकोत्का च तथा वासकसज्जिका ।
सन्धिता विप्रलब्धा च खण्डिता चाभिसारिका ॥१.७२॥
प्रोषितप्रेयसी चैवं नायिकाः पूर्वसूचिताः ।
ता एवात्र भवन्त्यष्टाववस्थाभिः पुनर्यथा ॥१.७३॥
यस्या रतिगुणाकृष्टः पतिः पार्श्वं न मुञ्चति ।
विचित्रविभ्रमासक्ता स्वाधीनपतिका यथा ॥१.७४॥

लिखति कुचयोः पत्रं कण्ठे नियोजयति स्रजं
तिलकं अलिके कुर्वन्गण्डादुदस्यति कुन्तलान्  ।
इति चटुशतैर्वारं वारं वपुः परितः स्पृशन्
विरहविधुरो नास्याः पार्श्वं विमुञ्चति वल्लभः ॥१.७४॥

उत्का भवति सा यस्याः सङ्केतं नागतः प्रियः ।
तस्यानागमने हेतुं चिन्तयन्त्याकुला यथा ॥१.७५॥

किं रुद्धः प्रियया कयाचिदथवा सख्या तयोद्वेजितः
किं वा कारणगौरवं किं अपि यन्नाद्यागतो वल्लभः ।
इत्यालोच्य मृगीदृशा करतले संस्थाप्य वक्त्राम्बुजं
दीर्घे निःश्वसितं चिरं च रुदितं क्षिप्ताश्च पुष्पस्रजः ॥१.७५॥

भवेद्वासकसज्जासौ सज्जिताङ्गरतालया ।
निशित्यागमनं भर्तुर्द्वारेक्षणपरा यथा ॥१.७६॥

दृष्ट्वा दर्पणमण्डले निजमुखं भूषां मनोहारिणीं
दीपार्चिःकपिशं च मोहनगृहं त्रस्यात्कुरङ्गीदृशा ।
एवं नौ सुरतं भविष्यति चिरादद्येति सानन्दया
मन्दं कान्तदिदृक्षयातिललितं द्वारे दृगारोपितं ॥१.७६॥

निरस्तो मन्युना कान्तो नमन्नपि यया पुनः ।
दुःस्थिता तं विना साति- सन्धिताभिमता यथा ॥१.७७॥

यत्पादप्रणतः प्रियः परुषया वाचा स निर्वारितो
यत्सख्या न कृतं वचो जडतया यन्मन्युरेको धृतः ।
पापस्यास्य फलं तदेतदधुना यच्चन्दनेन्दुद्युति
प्रालेयाम्बुसमीरपङ्कजविसैर्गात्रं मुहुर्दह्यते ॥१.७७॥

प्रेष्य दूतीं स्वयं दत्त्वा सङ्केतं नागतः प्रियः ।
यस्यास्तेन विना दुःस्था विप्रलब्धा तु सा यथा ॥१.७८॥

यत्सङ्केतगृहं प्रियेण कथितं सम्प्रेष्य दूतीं स्वयं
तच्छून्यं सुचिरं निषेव्य सुदृशा पश्चाच्च भग्नाशया ।
स्थानोपासनसूचनाय विगलत्सान्द्राञ्जनैर्लोचनैर्
भूमावक्षरमालिकेव लिखिता दीर्घं रुदत्या शनैः ॥१.७८॥

कुतश्चिन्नागतो यस्या उचिते वासके प्रियः ।
तदनागं असन्तप्ता खण्डिता सा मता यथा ॥१.७९॥
सोत्कण्ठं रुदितं सकम्पं असकृद्यातं सबाष्पं चिरं
चक्षुर्दिक्षु निवेशितं सकरुणं सख्या समं जल्पितं  ।
नागच्छत्युचितेऽपि वासकविधौ कान्ते समुद्विग्नया
तत्तत्किंचिदनुष्ठितं मृगदृशा नो यत्र वाचां गतिः ॥१.७९॥

या निर्लज्जीकृता बाढं मदने मदनेन च ।
अभियाति प्रियं साभि- सारिकेति मता यथा ॥१.८०॥

नो भीतं तडितो दृशा जलमुचा तद्दर्शनाकाङ्क्षया
नो गर्जिर्गणिता भृशं श्रुतिमुखं तद्वाचि संचिन्त्य च ।
धारापातसमुद्भवा न च मता पीडा तदालिङ्गनं
वाञ्छन्त्या दयिताभिसारणविधौ तन्व्या परं तत्परं ॥१.८०॥

कुतश्चित्कारणाद्यस्याः पतिर्देशान्तरं गतः ।
दत्त्वावधिं भृशार्ता सा प्रोषितप्रेयसी यथा ॥१.८१॥
उत्क्षिप्यालकमालिकां विलुलितां आपाण्डुगण्डस्थला
द्विश्लिष्यद्वलयप्रपातभयतः प्रोद्यम्य किञ्चित्करौ ।
द्वारस्तम्भनिषण्णगात्रलतिका केनापि पुण्यात्मना
मार्गालोकनदत्तदृष्टिरबला तत्कालं आलिङ्ग्यते ॥१.८१॥

निःश्वाससन्तापसखीवचोर्ति
चिन्ताश्रुपातादियुताः सखेदाः ।
वाच्या प्रलब्धागतभर्तृकोत्का
तिसन्धिताः खण्डितया सहात्र ॥१.८२॥
विचित्रमण्डना हृष्टा भवेत्स्वाधीनभर्तृका ।
तथा वासकसज्जापि सा किं त्वागन्तुकप्रिया ॥१.८३॥
कुलजान्याङ्गना वेश्या त्रिधा स्यादभिसारिका ।
यथैवोक्तास्तथैवान्याः स्वाधीनपतिकादयः ॥१.८४॥
कुलजा संवृता त्रस्ता सव्रीडा च द्रुतं व्रजेथ् ।
नायकं परनारी च समन्तादनवेक्षिता ॥१.८५॥
सखीयुक्ता मदाधिक्यात्स्फारिताक्षी न शङ्किता ।
सशब्दाभरणा कामं वेश्या सरति नायकं ॥१.८६॥
त्रयोदशविधा स्वीया द्विविधा च पराङ्गना ।
एका वेश्या पुनश्चाष्टाववस्थाभेदतोऽत्र ताः ॥१.८७॥
पुनश्च तास्त्रिधा सर्वा उत्तमा मध्यमाधमा ।
इत्थं शतत्रयं तासां अशीतिश्चतुरुत्तरा ॥१.८८॥
दोषानुरूपकोपा या- [अ]नुनीता च प्रसीदति ।
रज्यते च भृशं नाथे गुणहार्योत्तमेति सा ॥१.८९॥

कान्ते किं कुपितासि कः परजने प्राणेश कोपो भवेत्
कोऽयं सुभ्रु परस्त्वं एव दयिते दासोऽस्मि कस्ते परः ।
इत्युक्त्वा प्रणतः प्रियः क्षितितलादुत्थाप्य सानन्दया
नेत्राम्भःकणिकाङ्किते स्तनतटे तन्व्या समारोपितः ॥१.८९॥

दोषे स्वल्पेऽपि या कोपं धत्ते कष्टेन मुञ्चति ।
प्रयाति करुणाद्रागं मध्यमा सा मता यथा ॥१.९०॥

विस्फारस्फुरिताधरापि विकसद्गण्डस्थलप्रस्खल
द्घर्माम्भःकणिकापि भङ्गुरतरभ्रूभेदभूषाप्यलं  ।
पादान्तःप्रणते प्रिये प्रकटयत्यन्तः प्रसादं प्रिया
केशारमन्रूपुण्डलीषु वलितानुन्मोचयन्ती शनैः ॥१.९०॥

या कुप्यति विना दोषं स्निह्यत्यनुनयं विना ।
निर्हेतुकप्रवृत्तिश्च चलचित्तापि साधमा ॥१.९१॥

यत्राधःकृतकामकार्मुककथो भ्राम्यद्भुवोर्विभ्रमः
सद्यः प्रोद्गतचन्द्रकान्तिजयिनी यस्मिन्कपोलच्छविः ।
यत्र स्वेदकणावलुप्तमहिमा हारोऽप्युरोजस्थले
कोऽयं मानिनि मत्प्रणामविमुखः प्रत्यग्रमानग्रहः ॥१.९१॥

जातिकालवयोवस्था- भावकन्दर्पनायकैः ।
इतरा पयसङ्ख्याः स्युर्नोक्ता विस्तरभीतितः ॥१.९२॥
इत्यादि सकलं ज्ञात्वा स्वयं चालोक्य तद्विदां  ।
कवीनां च विशेषोक्त्या ज्ञातव्याः सकला इमाः ॥१.९३॥
रोमाञ्चवेपथुस्तम्भ- स्वेदनेत्राम्बुविभ्रमाः ।
वाच्याः संयोगशृङ्गारे कविना नायिकाश्रिताः ॥१.९४॥

सम्बन्धिमित्रद्विजराजतीक्ष्ण
वर्णाधिकानां प्रमदा न गम्याः ।
व्यङ्गास्तथा प्रव्रजिता विभिन्न
मन्त्राश्च धर्मार्थमनोभवज्ञैः ॥१.९५॥

अनेन मार्गेण विशेषरम्यं
सम्भोगशृङ्गारं इमं वितन्वन्  ।
भवेत्कविर्भावरसानुरक्तो
विदग्धगोष्ठीवनितामनोज्ञैः ॥१.९६॥

इति श्रीरुद्रभट्टविरचिते शृङ्गारतिलकाभिधाने काव्यरसालङ्कारे
सम्भोगशृङ्गारो नाम प्रथमः परिच्छेदः ।

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP