रावणवध - भाग १२

संस्कृत भाषेतील काव्य, महाकाव्य म्हणजे साहित्य  विश्वातील मैलाचा दगड होय, काय आनंद मिळतो त्याचा रसास्वाद घेताना, स्वर्गसुखच, त्यातीलच एक काव्य म्हणजे कवी भट्टि रचित रावणवध.


१२.११ ततो विनिद्रं कृतदेवताऽर्चं दृष्ट्यैव चित्तप्रशमं किरन्तम्
१२.१२ आविष्कृताऽङ्गप्रतिकर्मरम्यं विभीषणं वाचमुवाच माता
१२.२१ "प्रबाधमानस्य जगन्ति धीमंस्! त्वं सोदरस्याऽतिमदोद्धतस्य
१२.२२ आनन्दनो नाकसदां प्रशान्तिं तूर्णं विषस्याऽमृतवत्कुरुष्व.
१२.३१ कुर्यास्तथा, येन जहाति सीतां विषादनीहारपरीतमूर्तिम्
१२.३२ स्थितां क्षितौ शान्तशिखाप्रतानां तारामिव त्रासकरीं जनस्य.
१२.४१ यावन्न संत्रासितदेवसंघः पिण्डो विषस्येव हरेण भीष्मः
१२.४२ संग्रस्यतेऽसौ पुरुषाऽधिपेन, द्रुतं कुलाऽऽनन्द ! यतस्व तावत्.
१२.५१ हता जनस्थान सदो निकायाः, कृता जितोत्खातभटद्रुमा पूः,
१२.५२ सदांसि दग्धानि, विधेयमस्मिन्यद्बन्धुना, तद्घटयस्व तस्मिन्."
१२.६१ चिकीर्षिते पूर्वतरं स तस्मिन्, क्षेमंकरेऽर्थे मुहुरीर्यमाणः
१२.६२ मात्राऽतिमात्रं शुभयैव बुद्ध्या चिरं सुधीरभ्यधिकं समाधात्.
१२.७१ दौवारिकाऽभ्याहतशक्रदूतं सोपायनोपस्थितलोकपालम्
१२.७२ साऽऽशङ्कभीष्माऽऽप्तविशन्निशाटं द्वारं ययौ रावणमन्द्रिरस्य.
१२.८१ दूरात्प्रतीहारनतः स वार्तां पृच्छन्ननावेदितसंप्रविष्टः
१२.८२ सगौरवं दत्तपथो निशाटै रैक्षिष्ट शैलाऽग्रमिवेन्द्रशत्रुम्
१२.९१ कृशानुवर्ष्मण्यधिरूढमुच्चैः सिंहासने संक्षयमेघभीमम्
१२.९२ निसर्गतीक्ष्णं नयनस्फुलिङ्गं युगान्तवह्नेरिव धूमराशिम्
१२.१०१ प्रीत्याऽपि दत्तेक्षणसन्निपातं भयं भूजङ्गाऽधिपवद्दधानम्
१२.१०२ तमःसमूहाऽऽकृतिमप्यशेषा नूर्जा जयन्तं प्रथितप्रकाशान्.
१२.१११ तं रत्नदायं जितमृत्युलोका रात्रिंचराः कान्तिभृतोऽन्वसर्पन्
१२.११२ प्रमुक्तमुक्ताफलमम्बुवाहं संजाततृष्णा इव देवमुख्याः.
१२.१२१ स किङ्करैः कल्पितमिङ्गितज्ञैः संबाधकं पूर्वसमागतानाम्
१२.१२२ सिंहासनोपाश्रितचारुबाहु रध्यास्त पीठं विहितप्रणामः.
१२.१३१ ततो दशाऽऽस्यः क्षुभिताऽहिकल्पं दीप्राऽङ्गुलीयोपलमूढरत्नम्
१२.१३२ अनेकचञ्चन्नखकान्तिजिह्वं प्रसार्य पाणिं समितिं बभाषे
१२.१४१ "शक्तैः सुहृद्भिः परिदृष्टकार्यै राम्नातिभिर्नीतिषु बुद्धिमद्भिः
१२.१४२ युष्मद्विधैः सार्धमुपायविद्भिः सध्यन्ति कार्याणि सुमन्त्रितानि.
१२.१५१ उपेक्षिते वालिखराऽऽदिनाशे, दग्धे पुरे,ऽक्षे निहते सभृत्ये,
१२.१५२ सैन्ये द्विषां सागरमुत्तितीर्षा वनन्तरं ब्रूत, यदत्र युक्तम्."
१२.१६१ भुजांऽसवक्षःस्थलकार्मुकाऽसीन्गदाश्च शूलानि च यातुधानाः
१२.१६२ परामृशन्तः प्रथिताऽभिमानाः प्रोचुः प्रहस्तप्रमुखा दशाऽऽस्यम्.
१२.१७१ "अखण्ड्यमानं परिखण्ड्य शक्रं त्वं पण्डितंमन्यमुदीर्णदण्डः
१२.१७२ नराऽऽभियोगं नृभुजां प्रधान ! मन्त्रोन्मुखः किं नयसे गुरुत्वम्.
१२.१८१ निर्यत्स्फुलिङ्गाऽऽकुलधूमराशिं किं ब्रूहि भूमौ पिनषाम भानुम्,
१२.१८२ आ दन्तनिष्पीडितपीतमिन्दुं ष्ठीवाम शुष्केक्षुलताऽस्थिकल्पम्.
१२.१९१ सराघवैः किं बत वानरैस्तैर्यैः प्रातराशोऽपि न कस्यचिन्नः
१२.१९२ सस्थाणुकैलासधारऽभिधत्स्व, किं द्यौरधोऽस्तु, क्षितिरन्तरीक्षे.
१२.२०१ चापल्ययुक्तस्य हरेः कृशानुः समेधितो वालधिभाक्त्वदीयैः
१२.२०२ शस्त्रेण वध्यस्य गलन्नधाक्षीद्राजन्! प्रमादेन निजेन लङ्काम्."
१२.२११ अथाऽञ्चितोरस्कमुदीर्णदृष्टिः कृत्वा विवक्षाप्रवणं शरीरम्
१२.२१२ विवृत्तपाणिर्विहितोत्तराऽर्थं विभीषणोऽभाषत यातुधानान्.
१२.२२१ "युद्धाय राज्णा सुभृतैर्भवद्भिः संभावनायाः सदृशं यदुक्तम्,
१२.२२२ तत्प्राणपण्यैर्वचनीयमेव, प्रज्ञा तु मन्त्रेऽधिकृता, न शौर्यम्.
१२.२३१ यच्चापि यत्नाऽऽदृतमन्त्रवृत्तिर्गुरुत्वमायाति नराऽभियोगः
१२.२३२ वशीकृतेन्द्रस्य, कृतोत्तरोऽस्मिन्विध्वंसिताऽशेषपुरो हनूमान्.
१२.२४१ अग्निः प्रमादेन ददाह लङ्कां वध्यस्य देहे स्वयमेधितश्चेत्,
१२.२४२ विमृश्य तद्देवधियाऽभिधत्त ब्रह्माऽस्त्रबन्धोऽपि यदि प्रमादः
१२.२५१ जगन्त्यमेयाऽद्भुतभावभाञ्जि, जिताऽभिमानाश्च जना विचित्राः,
१२.२५२ कार्ये तु यत्नं कुरुत प्रकृष्टं, मा नीतिगर्भान्सुधियोऽवमन्ध्वम्.
१२.२६१ वृद्धिक्षयस्थानगतामजस्रं वृत्तिं जिगीषुः प्रसमीक्षमाणः
१२.२६२ घटेत सन्ध्याऽऽदिषु यो गुणेषु, लक्ष्मीर्न तं मुञ्चति चञ्चलाऽपि.
१२.२७१ उपेक्षणीयैव परस्य वृद्धिः प्रनष्टनीतेरजितेन्द्रयस्य
१२.२७२ मदाऽऽदियुक्तस्य विरागहेतुः, समूलघातं विनिहन्ति याऽन्ते.
१२.२८१ जनाऽनुरागेण युतोऽवसादः फलाऽनुबन्धः सुधियाऽऽत्मनोऽपि
१२.२८२ उपेक्षणीयोऽभ्युपगम्य संधिं कामाऽऽदिषड्वर्गजिताऽधिपेन.
१२.२९१ यदा विगृह्णन्न च संदधानो वृद्धिं क्षयं चाऽनुगुणं प्रपश्येत्,
१२.२९२ आसीत राजाऽवसरप्रतीक्षस्तदा प्रयासं वितथं न कुर्यात्.
१२.३०१ संधौ स्थितो वा जनयेत्स्ववृद्धिं हन्यात्परं वोपनिषत्प्रयोगैः
१२.३०२ आश्रावयेदस्य जनं परैर्वा विग्राह्य कुर्यादवहीनसंधिम्.
१२.३११ संदर्शितस्नेहगुणः स्वशत्रून्विद्वेषयन्मण्डलमस्य भिन्द्यात्
१२.३१२ इत्येवमादि प्रविधाय संधिर्वृद्धेर्विधेयोऽधिगमाभ्युपायः.
१२.३२१ मत्वा सहिष्णूनपरोपजप्यान्स्वकानधिष्ठाय जलाऽन्तदुर्गान्
१२.३२२ द्रुमाऽद्रिदुर्लङ्घ्यजलाप्रधृष्यान्वर्धेत राजा रिपुविग्रहेण.
१२.३३१ शक्नोति यो न द्विषतो निहन्तुं, विहन्यते नाऽप्यबलैर्द्विषद्भिः,
१२.३३२ स श्वावराहं कलहं विदध्या दासीत दुर्गाऽऽदि विवर्धयंश्च.
१२.३४१ प्रयाणमात्रेण परे प्रसाद्ये वर्तेत यानेन कृताऽभिरक्षः,
१२.३४२ अशक्नुवन्कर्तुमरेर्विघातं स्वकर्मरक्षां च परं ष्रयेत.
१२.३५१ एकेन संधिः, कलहोऽपरेण कार्योऽभितो वा प्रसमीक्ष्य वृद्धिम्,
१२.३५२ एवं प्रयुञ्जीत जिगीषुरेता नीतीर्विजानन्नहिताऽऽत्मसारम्.
१२.३६१ त्वया तु लोके जनितो विरागः, प्रकोपितं मण्डलमिन्द्रमुख्यम्,
१२.३६२ रामे तु राजन्, विपरीतमेतत्पश्यामि, तेनाऽभ्यधिकं विपक्षम्.
१२.३७१ एकेन वाली निहतः शरेण सुहृत्तमस्ते, रचितश्च राजा
१२.३७२ यदैव सुग्रीवकपिः परेण, तदैव कार्यं भवतो विनष्टम्.
१२.३८१ प्राकारमात्राऽऽवरणः प्रभावः खराऽऽदिभिर्यो निहतैस्तवाऽभूत्,
१२.३८२ लङ्काप्रदाहाऽक्षवधद्रुभङ्गैः क्लाम्यत्यसावप्यधुनाऽतिमात्रम्.
१२.३९१ षड्वर्गवश्यः परिमूढबन्धु रुच्छिन्नमित्रो विगुणैरुपेतः
१२.३९२ मा पादयुद्धं द्विरदेन कार्षीर्नम क्षितीन्द्रं प्रणतोपभोग्यम्.
१२.४०१ रामोऽपि दाराऽऽहरणेन तप्तो, वयं हतैर्बन्धुभिरात्मतुल्यैः,
१२.४०२ तप्तस्य तप्तेन यथाऽऽयसो नः संधिः परेणाऽस्तु, विमुञ्च सीताम्.
१२.४११ संधुक्षितं मण्डलचण्डवातै रमर्षतीक्ष्णं क्षितिपालतेजः
१२.४१२ सामाऽम्भसा शान्तिमुपैतु राजन्! प्रसीद, जीवाम सबन्धुभृत्याः.
१२.४२१ अपक्वकुम्भाविव भङ्गभाजौ राजन्नियातां मरणं समानौ,
१२.४२२ वीर्ये स्थितः किंतु कृताऽनुरागो रामो भवंश्चोत्तमभूरिवैरी.
१२.४३१ दण्डेन कोशेन च मन्यसे चेत्प्रकृष्टमात्मानमरेस्तथापि
१२.४३२ रिक्तस्य पूर्णेन वृथा विनाशः पूर्णस्य भङ्गे बहु हीयते तु.
१२.४४१ क्लिष्टाऽऽत्मभृत्यः परिमृग्यसम्पन्मानी यतेताऽपि ससंशयेऽर्थे,
१२.४४२ संदेहमारोहति यः कृताऽर्थो, नूनं रतिं तस्य करोति न श्रीः.
१२.४५१ शक्यान्यदोषाणि महाफलानि समारभेतोपनयन्समाप्तिम्
१२.४५२ कर्माणि राजा विहिताऽनुरागो, विपर्यये स्याद्वितथः प्रयासः.
१२.४६१ जेतुं न शक्यो नृपतिः सुनीतिर्दोषः क्षयाऽऽदिः कलहे ध्रुवश्, च
१२.४६२ फलं न किंचिन्न शुभा समाप्तिः, कृताऽनुरागं भूवि संत्यजाऽरिम्.
१२.४७१ त्वन्मित्रनाशो, निजमित्रलाभः, समेतसैन्यः स च मित्रकृच्छ्रे
१२.४७२ भोग्यो वशः पश्य शरेण शत्रोः प्रसाधितो वालिवधे न कोऽर्थः
१२.४८१ लोभाद्भयाद्वाऽभिगतः कपीन्द्रो न राघवं, येन भवेद्विभेद्यः,
१२.४८२ स्थितः सतां वर्त्मनि लब्धराज्यः प्रतिप्रियं सोऽभ्यगमच्चिकीर्षुः.
१२.४९१ फलाशिनो निर्झरकुञ्जभाजो दिव्याऽङ्गनाऽनङ्गरसाऽनभिज्ञाः
१२.४९२ न्यग्जातयो रत्नवरैरलभ्या मुख्याः कपीनामपि नोपजप्याः.
१२.५०१ कृताऽभिषेको युवराजराज्ये सुग्रीवराजेन सुताऽविशेषम्
१२.५०२ ताराविधेयेन कथं विकारं तारासुतो यास्यति राक्षसाऽर्थम्.
१२.५११ पश्यामि रामादधिकं समं वा नाऽन्यं, विरोधे यमुपाश्रयेम,
१२.५१२ दत्त्वा वरं साऽनुशयः स्वयम्भू रिन्द्राऽऽदयः पूर्वतरं विरुद्धाः.
१२.५२१ दुर्गाऽऽश्रितानां बहुनाऽपि राजन्! कालेन पार्ष्णिग्रहणाऽऽदिहेतुः
१२.५२२ दुर्गोपरोधं न च कुर्वतोऽस्ति शत्रोश्चिरेणाऽपि दशाऽऽस्य ! हानिः
१२.५३१ शस्त्रं तरूर्वीधरमम्बु पानं वृत्तिः फलैर्, नो गजवाजिनार्यः
१२.५३२ राष्ट्रं न पश्चान्, न जनोऽभिरक्ष्यः, किं दुःस्थमाचक्ष्व भवेत्परेषाम्.
१२.५४१ संधानमेवाऽस्तु परेण तस्मान्, नाऽन्योऽभ्युपायोऽस्ति निरूप्यमाणः,
१२.५४२ नूनं विसंधौ त्वयि सर्वमेतन्नेष्यन्ति नाशं कपयोऽचिरेण."
१२.५५१ विभीषणोक्तं बहु मन्यमानः प्रोन्नम्य देहं परिणामनम्रम्
१२.५५२ स्खलद्वलिर्वार्धककम्प्रमूर्धा मातामहो रावणमित्युवाच.
१२.५६१ "एकः पदातिः पुरुषो धनुष्मान्योऽनेकमायानि वियद्गतानि
१२.५६२ रक्षःसहस्राणि चतुर्दशाऽऽर्दीत्, का तत्र वो मानुषमात्रशङ्का.
१२.५७१ ब्रह्मर्षिभिर्नूनमयं सदेवैः संतापितौ रात्रिचरक्षयाय
१२.५७२ नराऽऽकृतिर्वानरसैन्यशाली जगत्यजय्यो विहितोऽभ्युपायः.
१२.५८१ वज्राऽभिघातैरविरुग्णमूर्तेः फेणैर्जलानामसुरस्य मूर्ध्नः
१२.५८२ चकार भेदं मृदुभिर्महेन्द्रो यथा, तथैतत्किमपीति बोध्यम्.
१२.५९१ क्व स्त्रीविषह्याः करजाः, क्व वक्षो दैत्यस्य शैलेन्द्रशिलाविशालम्,
१२.५९२ संपश्यतैतद्द्युसदां सुनीतं, बिभेद तैस्तन्नरसिंहमूर्तिः.
१२.६०१ प्रमादवांस्त्वं क्षतधर्मवर्त्मा गतो मुनीनामपि शत्रुभावम्,
१२.६०२ कुलस्य शान्तिं बहु मन्यसे चेत्कुरुष्व राजेन्द्र ! विभीषणोक्तम्."
१२.६११ घोषेण तेन प्रतिलब्धसंज्ञो निद्राऽऽविलाऽक्षः ष्रुतकार्यसारः
१२.६१२ स्फुरद्घनः साऽम्बुरिवाऽन्तरीक्षे वाक्यं ततोऽभाषत कुम्भकर्णः
१२.६२१ "क्रियासमारम्भगतोऽभ्युपायो, नृद्रव्यसम्पत्सहदेशकला,
१२.६२२ विपत्प्रतीकारयुताऽर्थसिद्धिर्मन्त्राऽङ्गमेतानि वदन्ति पञ्च.
१२.६३१ न निश्चिताऽर्थं समयं च देशं क्रियाऽभ्युपायाऽऽदिषु योऽतियायात्,
१२.६३२ स प्राप्नुयान्मन्त्रफलं न मानी काले विपन्ने क्षणदाचरेन्द्र !
१२.६४१ औष्ण्यं त्यजेन्मध्यगतोऽपि भानुः, शैत्यं निशायामथवा हिमांशुः
१२.६४२ अनर्थमूलं भुवनाऽवमानी मन्ये न मानं पिशिताशिनाथ !
१२.६५१ तथाऽपि वक्तुं प्रसभं यतन्ते यन्मद्विधाः सिद्धिमभीप्सवस्त्वाम्
१२.६५२ विल्ॐअचेष्टं विहिताऽवहासाः परैर्हि तत्स्नेहमयैस्तमोभिः
१२.६६१ क्रूराः क्रियाः, ग्राम्यसुखेषु सङ्गः, पुण्यस्य यः संक्षयहेतुरुक्तः,
१२.६६२ निषेवितोऽसौ भवताऽतिमात्रं फलत्यवल्गु ध्रुवमेव राजन्!
१२.६७१ दत्तं न किं, के विषया न भुक्ताः, स्थितोऽस्मि वा कं परिभूय नोच्चैः,
१२.६७२ इत्थं कृताऽर्थस्य मम ध्रुवं स्यान्मुत्युस्त्वदर्थे यदि, किं न लब्धम्.
१२.६८१ किं दुर्नयैस्त्वय्युदितैर्मृषाऽर्थैर्वीर्येण वक्ताऽस्मि रणे समाधिम्."
१२.६८२ तस्मिन्प्रसुप्ते पुनरित्थमुक्त्वा विभीषणोऽभाषत राक्षसेन्द्रम्.
१२.६९१ "निमित्तशून्यैः स्थगिता रजोभिर्दिशो, मरुद्भिर्विकृतैर्विलोलैः
१२.६९२ स्वभावहीनैर्मृगपक्षिघोषैः क्रन्दन्ति भर्तारमिवाऽभिपन्नम्
१२.७०१ उत्पातजं छिद्रमसौ विवस्वान्व्यादाय वक्त्राऽऽकृति लोकभीष्मम्
१२.७०२ अत्तुं जनान्धूसररश्मिराशिः सिंहो यथा कीर्णसटोऽभ्युदेति.
१२.७११ मार्गं गतो गोत्रगुरुर्भृगूणा मगस्तिनाऽध्यासितविन्ध्यशृङ्गम्,
१२.७१२ संदृश्यते शक्रपुरोहितोऽह्नि, क्ष्मां कम्पयन्त्यो निपतन्ति चोल्काः
१२.७२१ मांसं हतानामिव राक्षसाना माशंसवः क्रूरगिरो रुवन्तः
१२.७२२ क्रव्याऽशिनो दीप्तकृशानुवक्त्रा भ्राम्यन्त्यभीताः परितः पुरं नः
१२.७३१ पयो घटोध्नीरपि गा दुहन्ति मन्दं विवर्णं विरसं च गोपाः,
१२.७३२ हव्येषु कीटोपजनः सकेशो न दीप्यतेऽग्निः सुसमिन्धनोऽपि.
१२.७४१ तस्मात्कुरु त्वं प्रतिकारमस्मिन्स्नेहान्मया रावण ! भाष्यमाणः,
१२.७४२ वदन्ति दुःखं ह्यनुजीविवृत्ते स्थिताः पदस्थं परिणामपथ्यम्.
१२.७५१ विरुग्णसंकीर्णविपन्नभिन्नैः पक्षुण्णसंह्रीणशिताऽस्त्रवृक्णैः
१२.७५२ यावन्नराऽशैर्न रिपुः शवऽशान्संतर्पयत्यानम तावदस्मै."
१२.७६१ भ्रूभङ्गमाधाय विहाय धैर्यं विभीषणं भीषणरूक्षचक्षुः
१२.७६२ गिरं जगादोग्रपदामुदग्रः स्वं स्फावयन्शक्ररिपुः प्रभावम्.
१२.७७१ "शिला तरिष्यत्युदके न पर्णं, ध्वान्तं रवेः स्यन्त्स्यति, वह्निरिन्दोः,
१२.७७२ जेता परोऽहं युधि जेष्यमाणस्तुल्यानि मन्यस्व पुलस्त्यनप्तः !
१२.७८१ अनिर्वृतं भूतिषु गूढवैरं सत्कारकालेऽपि कृताऽभ्यसूयम्
१२.७८२ विभिन्नकर्माऽऽशयवाक्कुले नो मा ज्ञातिचेलं, भुवि कस्यचिद्भूत्
१२.७९१ इच्छन्त्यभीक्ष्णं क्षयमात्मनोऽपि न ज्ञातयस्तुल्यकुलस्य लक्ष्मीम्
१२.७९२ नमन्ति शत्रून्, न च बन्धुवृद्धिं संतप्यमानैर्हृदयैः सहन्ते.
१२.८०१ त्वयाऽद्य लङ्काऽभिभवेऽतिहर्षाद्दुष्टोऽतिमात्रं विवृतोऽन्तरात्मा,
१२.८०२ धिक्त्वां, मृषा ते मयि दुस्थबुद्धिर्" वदन्निदं तस्य ददौ स पार्ष्णिम्.
१२.८११ ततः स कोपं क्षमया निग्र्ह्णन्, धैर्येण मन्युं, विनयेन गर्वम्,
१२.८१२ मोहं धियोत्साहवशादशक्तिं, समं चतुर्भिः सचिवैरुदस्थात्.
१२.८२१ उवाच चैनं क्षणदाचरेन्द्रं "सुखं महाराज ! विना मयाऽऽस्स्व.
१२.८२२ मूर्खाऽऽतुरः पथ्यकटूननश्नन्यत्साऽऽमयोऽऽसौ, भिषजां न दोषः
१२.८३१ करोति वैरं स्फुटमुच्यमानः, प्रतुष्यति श्रोत्रसुखैरपथ्यैः
१२.८३२ विवेकशून्यः प्रभुरात्ममानी, महाननर्थः सुहृदां बताऽयम्.
१२.८४१ क्रीडन्भुजङ्गेन गृहाऽनुपातं कश्चिद्यथा जीवति संशयस्थः,
१२.८४२ संसेवमानो नृपतिं प्रमूढं तथैव यज्जीवति, सोऽस्य लाभः.
१२.८५१ दत्तः स्वदोषैर्भवता प्रहारः पादेन धर्म्ये पथि मे स्थितस्य,
१२.८५२ स चिन्तनीयः सह मन्त्रिमुख्यैः कस्याऽऽवयोर्लाघवमादधातु.
१२.८६१ इति वचनमसौ रजनिचरपतिं बहुगुणमसकृत्प्रसभमभिदधत्
१२.८६२ निरगमदभयः पुरुषरिपुपुरान्नरपतिचरणौ नवितुमरिनुतौ.
१२.८७१ अथ तमुपगतं विदितसुचरितं पवनसुतगिरा गिरिगुरुहृदयः
१२.८७२ नृपतिरमदयन्मुदितपरिजनं स्वपुरपतिकरैः सलिलसमुदयैः.

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP