चाटुप्रवाहवीचयः - सुभाषित १५६१ - १५८०
सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.
३९. युद्धस्थली
देव त्वद्भुजयोर्बलं न गदितुं वाचा वयं शक्नुमः
कुर्वाणा हृदयेऽपि तत्पुलकिताः प्रत्यङ्गमेते वयम् ।
शक्ता सैव पुनस्तवासिपतनच्छिन्नद्विषत्कन्धरा
रन्ध्रोद्वान्तसमीरभैरवरवा युद्धस्थली जल्पितुम् ॥१५६१॥
छित्तपस्य ।
रक्तस्रोतोवहायास्त्वरितमवतरन्स्नानतृष्णालुरेको
वीर त्वद्वैर्सेनाघनपिशितवसापङ्कमग्नैकजङ्घः ।
साक्रन्दक्वाणमासीत्प्रसरदपसरत्पाणिभिः कृष्टमुक्तस्
तीरस्थैरुत्तितीर्षुः परिहसितपरैस्तृप्तिभिः प्रेतवृद्धः ॥१५६२॥
नीलस्य ।
श्लाघन्ते नहि तानि यस्य भुजयोरद्यापि युद्धस्थली
सीमान्ते रिपुकीकसोत्थितकुशव्याजेन रोमाञ्चिताः ।
पूर्वाभ्यासगताभिरङ्कपलभुग्दंष्ट्रावलीचर्वणान्
निर्मांसास्थितयोच्चरत्कटकटस्पष्टाक्षरश्रेणयः ॥१५६३॥
गोतिथीयदिवाकरस्य ।
निर्यन्नाराचधाराचयखचितपतन्मत्तमातङ्गजातं
जातं यस्यारिसेनारुधिरजलनिधावन्तरीपभ्रमाय ।
सुप्ता यस्मिन्रतान्ते सह च सहचरैर्नालवन्नागनासा
रन्ध्रद्वन्द्वैकपात्रे रुधिरमधुरसं प्रेतकान्ताः ॥१५६४॥
जयदेवस्य ।
कृष्टे घोटकटापसंपुटघटाफालाग्रसंघट्टनैश्
छिन्नारातिकबन्धरन्ध्रविगलद्रक्तेन सिक्ते रणे ।
मूलेन त्वदसिप्रहारपतिता वैरीभदन्तव्रजा
राजन्ते जगदग्रपल्लवियशोबीजप्ररोहा इव ॥१५६५॥
वीरदत्तस्य ।
४०. दिग्विजयः
क्षिप्तः क्षीरगृहे न दुग्धजलधिः कोषे न हेमाचलो
दिक्पालाः अपि पालिपालनविधाव आनीय नारोपिताः ।
नो वा दिक्करिणः क्वणन्मधुलिहः पर्यायपर्याणन
क्रीडायां विनियोजिता वद कृतं किं किं त्वया दिग्जये ॥१५६६॥
कस्यचित। (सु.र. १४४६, दक्षस्य)
देवे दिग्विजयोद्यते धृतधनुविद्वेषिसीमन्तिनी
वैधव्यव्रतदायिनी प्रतिदिशं रोषादुपक्रामति ।
किं ब्रूमोऽन्यदितोऽधिकं रतिरतित्रासान्न पौष्पं करे
भर्तुर्भर्तुर्मदान्मदान्धमधुपीनीलीनिचोलं धनुः ॥१५६७॥
नारायणदत्तस्य ।
तत्तद्विक्रमदोहदेन विलसद्दोर्दण्डदम्भोलिना
विद्वेषिव्ययकर्मठेन दिशता निर्वीरमुर्वीतलम् ।
किं ब्रूमश्चतुरब्धिसीमभुवनं राजन्वदातन्वता
येनाभूर्विजिगीषुणा विदधिरे दिक्पालशेषा दिशः ॥१५६८॥
उमापतिधरस्य ।
आकौमारं समरजयिना कुर्वतोर्वीमवीरां
एतेनामी कथमिव दिशामीशितारो विमुक्ताः ।
अन्तर्ज्ञातं वपुषि कलया तस्य तेऽष्टौ प्रविष्टाः
प्रह्वीभूते प्रभवति नहि क्षत्रियाणां कृपाणः ॥१५६९॥
उमापतिधरस्य ।
एकः संग्रामरिङ्गत्तुरगखुररजोराजिभिर्नष्टदृष्टिर्
दिग्यात्राजैत्रमत्तद्विरदभरनमद्भूमिभग्नस्तथान्यः ।
वीराः के नाम तस्मात्त्रिजगति न ययुः क्षीणतां काणकुब्ज
न्यायादेतेन मुक्तावभयमभजतां वासवो वासुकिश्च ॥१५७०॥
जयदेवस्य ।
४१. रिपुः
यान्त्येके परपुष्टतां बलिभुजो भ्राम्यन्ति केचिन्महीं
केचिद्बिभ्रति लावकत्वमपरे जाता वने वर्तकाः ।
केचित्खञ्जनकीभवन्ति सततोन्माथप्रमाथैरहो
तिर्यक्तामपि लम्भितैस्त्वदरिभिर्लब्धा न पक्षोन्नतिः ॥१५७१॥
कस्यचित। (स्व२५८२)
निर्भीकभ्रान्तभोगिन्यनलसमशके मांसलध्वान्तराशाव्
आसारक्लिन्नकुड्ये वृषभनिकषणावर्जितद्वारदारौ ।
प्रत्यग्रोदीर्णगर्भे गलति वनगिरिग्रामदेवीगृहान्ते
संत्रस्ताः शत्रवस्ते कथमपि रजनीं प्रावृषि प्रेरयन्ति ॥१५७२॥
योगेश्वरस्य ।
पद्ब्यामूरुयुगं विभज्य भुजयोर्मध्यं निपीड्योरसा
पार्श्वेषु प्रसभं प्रहृत्य नखरैर्दन्तैर्विलुप्याधरम् ।
संसुप्तानवबोध्य युष्मदहितान्भूयोऽपि भुङ्क्ते वने
किं कान्ता सुरतैषिणी नहि नहि व्याघ्री करालानना ॥१५७३॥
छित्तपस्य । (स.क.आ. ५.५००)
मौखर्यं वरमस्तु देव तदपि प्रसूयते विस्मयाद्
ऐश्वर्याणि परित्यजन्ति भवतो नाद्यापि ते वैरिणः ।
मन्यूनां शतमाचरन्ति कटकं क्रामन्ति भूमीभृतां
पत्रालीं वलयन्ति च स्तनयुगाभोगे कुरङ्गीदृशाम् ॥१५७४॥
जलचन्द्रस्य ।
पदहीनान्बिलवसतीन्
भुजगानिव जातभोगसङ्कोचान।
व्यथयति मन्त्राक्षरमिव
नाम तवारीन्वनेचरैर्गीतम् ॥१५७५॥
दङ्कस्य । (सु.र. १३९३)
४२. रिपुसम्भ्रमः
कोषान्गेहेषु मुञ्चन्पथि करितुरगं बान्धवानर्घमार्गे
दुर्गेष्वन्तःपुराणि प्रतिवलचक्रिताः पर्वतेभ्यो निवृत्ताः ।
यस्योद्योगे भ्रमन्तः समसमयस्मारम्भगम्भीरभेरी
भाङ्गाराकीर्णकर्णज्वरभरतरलप्रेक्षिताशाः क्षितीशाः ॥१५७६॥
विश्वेश्वरस्य ।
श्रुत्वा यं सहसागतं निजपुरात्त्रासेन निर्गच्छतां
शत्रूणामवरोधनैर्जललवप्रस्यन्दतिम्यत्पुटाः ।
शुभ्रे सद्मनि पल्लविन्युपवने वाप्यां नवाम्भोरुहि
क्रीडाद्रौ च सशाद्वले विवलितग्रीवैर्विमुक्ता दृशः ॥१५७७॥
धनपतेः । (स.क.आ. १.८३)
मुग्धे किं शुकपञ्जरेण रसिके किं सारकान्वेषणैः
सुस्थे मुञ्चसि किं न चित्रफलकं किं वीणया रागिणि ।
नायं भूषणसंग्रहस्य समयो लीलावति त्वर्यताम्
इत्यासन्पुरविद्रवे भवदरिस्त्रीणां वयस्यागिरः ॥१५७८॥
राजशेखरस्य ।
वत्से मालति मालिका न रचिता पुष्पैस्त्वदीयैर्मया
रक्ताशोकतरो तवाप्यभिनवो नोत्तंसितः पल्लवः ।
व्यालोआलिकुलावलीढमुकुलस्त्वं चूत नालोकितो
हा धिक्कष्टमिति ब्रुवन्ति नगरत्यागे तवारिस्त्रियः ॥१५७९॥
गदाधरस्य ।
मातर्मातर्जनक जनक प्रेयसि प्रेयसीति
भ्रातर्भ्रातस्तनय तनय ज्यायसि ज्यायसीति ।
यन्नासीरप्रचुरगध्यूहवित्रस्तवैरि
स्त्रीपुंसानां विदलति दलद्दिक्कलापो विलापः ॥१५८०॥
दाक्षिणात्यस्य ।
N/A
References : N/A
Last Updated : November 11, 2016
TOP