चाटुप्रवाहवीचयः - सुभाषित १६०१ - १६२०

सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.


४७. यशः

मूलं फणाः फणिपतेर्गगनं च मध्यः
शाखा दिशो जलधिमण्डलमालवालम् ।
त्रैलोक्यनाथ तव देव यशोद्रुमस्य
तारागणाः सुमनसः फलमिन्दुबिम्बम् ॥१६०१॥

श्रीहनूमतः ।

मातुः स्वेदमयं ततान पृथुकः क्रोडेन धात्र्यामसौ
रागाढ्यस्तरुणः पुरन्दरपुरस्त्रीन्यस्तकण्ठग्रहः ।
ज्यायानप्यभिनत्पितामहपदं नित्याविनीतस्तनू
जन्मा ते यशसां गणस्तदुचितव्रीडोऽसि तत्कीर्तने ॥१६०२॥

छित्तपस्य । (सूक्तिमुक्तावलि ९७.३९)

बद्धो नैष न लङ्घितो न मथितः पीतो न वा बाडव
व्यग्रो नापि यशोमयो यदुपतेरम्लायमानोऽम्बुधिः ।
अब्धींल्लब्धपराभवानधरयन्नर्वागथोऽर्वीभृतः
कुर्वन्गर्वविलङ्घितावधिरधि ब्रह्माण्डमारोहति ॥१६०३॥

वाचस्पतेः ।

ऐरावणन्ति करिणः फणिनोऽप्यशेषाः
शेषन्ति हन्त विहगा अपि हंसितारः ।
नीलोत्पलानि कुमुदन्ति च सर्वशैलाः
कैलासितुं व्यवसिता भवतो यशोभिः ॥१६०४॥

महाशक्तेः । (सु.र. १०११)

देव स्वस्ति वयं द्विजास्तत इतस्तीर्थेषु निष्कल्मषाः
कालिन्दीसुरसिन्धुसङ्गपयसि स्नातुं समीहामहे ।
तद्याचेमहि सप्तविष्टपशुचीभावैकतानव्रतं
संयच्छ स्वयशः सितासितपयोभेदाद्विवेकोऽस्तु नः ॥१६०५॥

रथाङ्गस्य । (सु.र. ९९५)

४८. सवीर्ययशः

न तच्चित्रं चित्ते विततकरवालोग्ररसनो
महीभारं सोढुं भुजभुजगराजः प्रभवति ।
यदुद्भूतेनेदं नवविसलतातन्तुशुचिना
यशोन्रिमोकेण स्थगितमवनीमण्डलमभूत॥१६०६॥

सङ्घश्रियः । (सु.र. १०१३)

श्रीमन्पातालकुक्षिम्भरिभरितसुरस्थानमम्भोधिरोधो
रोधि क्ष्माशोधि शुद्धं प्रसरति यदिदं त्वद्यशस्तत्किमाहुः ।
तद्ब्रूमस्त्वत्प्रतापानलमिलनकृतक्वाथसम्भारदूर
स्फारोत्तालोऽयमभ्रंलिहलहरिभरो वर्धते दुग्धसिन्धुः ॥१६०७॥

श्रीकण्ठस्य ।

चन्द्राभैर्भवतो यशोभिरमलैर्विस्तारितायां दिशि
ज्योत्स्नायां तव वैरिवर्गवदने विश्रान्तमन्धं तमः ।
किं च भ्रूतिलकान्तपातमिलितश्रीभारसंवर्धित
प्रेमाणि प्रहसन्ति बन्धुकुमुदान्यामोदवन्ति स्फुटम् ॥१६०८॥

गोसोकस्य ।

दृष्टं सङ्गरसाक्षिभिर्निगदितं वैतालिकश्रेणिभिर्
न्यस्तं चेतसि खञ्जनैः सुकविभिः काव्येषु संचारितम् ।
उत्कीर्णं कुशलैः प्रशस्तिषु सदा गीतं च नाकेषदां
दानैर्निर्जितवैरिवीर भवतश्चन्द्रावदातं यशः ॥१६०९॥

राजशेखरस्य । (सु.र. १०००)

मुक्ताशीकरनिर्झरासु सदसि क्षुण्णासु कुम्भस्थलीष्व्
आदन्तः स्फुटकर्णचामरदृशास्वावर्जिनां दन्तिनाम् ।
क्षेत्रीकृत्य वरूथिनीं युधि जयश्रीकर्षकेण द्विषां
येनोप्ता इव मुष्टिभिर्निजयशोबीजच्छटा रेजिरे ॥१६१०॥

भिक्षोः ।

४९. प्रशस्तयशः

आक्षिप्ता चामरश्रीः प्रसभमपहृतः पौण्डरीको विलासः
प्रच्छन्नो वीरकम्बुः समजनि विहितः कण्ठभाराय हारः ।
लुप्तो हासप्रकाशः कमपि परिभवं प्रापितः पुष्पराशिश्
चन्द्राभैर्यद्यशोभिः प्रतिधरणिभुजां निह्नुता किं च कीर्तिः ॥१६११॥

श्रीमत्केशवसेनदेवस्य ।

अम्भोधिक्षिप्तमुक्तारुचिहरिचरणोद्गीर्णगङ्गाम्बुतुल्यं
कालिन्दीफेनकान्तिस्फुरितफणधरोन्मुक्तनिर्मोकरोचिः ।
कर्णाटीकुन्तलान्तर्विगलितसुमनोदामरम्यं समन्ताच्
छ्रीखण्डालेपलक्ष्मीमुपनयति यशो यस्य खड्गप्रसूतम् ॥१६१२॥

जलचन्द्रस्य ।

भूचक्रं कियदेतदावृतमभूद्यद्वामनस्याङ्घ्रिणा
नागानां कियदास्पदं यदुरसा लङ्घन्ति गूढाङ्घ्रयः ।
एकाहाद्यदनूरुरञ्चति कियन्मात्रं तदप्यम्बरं
यस्येतीव यशो ह्रिया त्रिभुवनं व्याप्यापि नो तृप्यति ॥१६१३॥

उमापतिधरस्य ।

गृहाद्गृहमुपागतं व्रजति पत्तनं पत्तनाद्
वनाद्धनमनुद्रुतं भ्रमति पादपं पादपात।
गिरेर्गिरिमधिश्रितं तरति वारिधिं वारिधेर्
यदीयमरिसुन्दरीनिकरपृष्ठलग्नं यशः ॥१६१४॥

तस्यैव ।

आस्ते दामोदरीयामियमुदरदरीं यावलम्ब्य त्रिलोकी
संमातुं शक्नुवन्ति प्रथिमभरवशादत्र नैतद्यशांसि ।
तामेतां पूरयित्वा निरगुरिव मधुध्वंसिनः पाण्डुपद्म
च्छद्मापन्नानि तानि द्विपदशनसनाभीनि नाभीपथेन ॥१६१५॥

कविपण्डितश्रीहर्षस्य । (ण्च्१२.९५, स्व२५२०, सूक्तिमुक्तावलि ९७.२३)


५०. कीर्तिः

का त्वं, कुन्तलमल्लकीर्तिर्, अहह क्वासि स्थिता, न क्वचित्
सख्यस्तास्तव कुत्र कुत्र वद वाग्लक्ष्मीस्रुचः सम्प्रति ।
वाग्याता चतुराननस्य वदनं लक्ष्मीर्मुरारेरुरः
कान्तिर्मण्डलमैन्दवं मम पुनर्नाद्यापि विश्रामभूः ॥१६१६॥

छित्तपस्य । (सु.र. १००५)

रामः सैन्यसमन्वितः कृतशिलासेतुर्यदम्भोनिधेः
पारं लङ्घितवान्पुरा तदधुना नाश्चर्यमुत्पादयेत।
एकाकिन्यपि सेतुबन्धरहितान्सप्तापि वारां निधीन्
हेलाभिस्तव देव कीर्तिवनिता यस्मात्समुल्लङ्घति ॥१६१७॥

तस्यैव । (सु.र. १०१२)

किं वृत्तान्तैः परगृहगतैः किंतु नाहं समरथस्
तूष्णीं स्थातुं प्रकृतिमुखरो दाक्षिणात्यस्वभावः ।
देशे देशे विपणिषु तथा चत्वरे पानगोष्ठ्याम्
उन्मत्तेव भ्रमति भवतो वल्लभा हन्त कीर्तिः ॥१६१८॥

तुतातितस्य । (स्व२५४४, सु.र. ९९६, शा.प. १२२७)

अनन्तासौ कीर्तिः कविकुमुदबन्धोः क्षितिपतेस्
त्रिलोकीयं क्षुद्रा तदिह कथमस्याः स्थितिरिति ।
मुधेयं वः शङ्का कलयत कियद्दर्पणतलं
विशाला किं तत्र स्फुरति न कवीन्द्रप्रतिकृतिः ॥१६१९॥

पञ्चाक्षरस्य ।

ध्यायन्ती निरपायनायकगुणं त्वत्कीर्तिरम्भोनिधेर्
भ्राम्यनित्विपिनान्तरेषु विरहव्यग्रेव पाण्डुच्छविः ।
चन्द्रं निन्दति चन्दनं न सहते द्वेष्टि श्रियं शारदीं
दूरादेव निराकरोति करकाकर्पूरहारस्रजः ॥१६२०॥

शरणस्य ।

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP