वेणीसंहारः - प्रथमोऽङ्कः

भट्ट नारायण संस्कृत के महान नाटककार थे। वे अपनी केवल एक कृति वेणीसंहार के द्वारा संस्कृत साहित्य में अमर हैं।


पद्य १.१
निषिद्धैरप्येभिर्लुलितमकरन्दो मधुकरैः करैरिन्दोरन्तश्छुरित इव संभिन्नमुकुलः
विधत्तां सिद्धिं नो नयनसुभगामस्य सदसः प्रकीर्णः पुष्पाणां हरिचरणयोरञ्जलिरयं ॥१.१॥

अपि च
पद्य १.२
कालिन्द्याः पुलिनेषु केलिकुपितामुत्सृज्य रासे रसं गच्छन्तीमनुगच्छतोऽश्रुकलुषां कंसद्विषो राधिकां
तत्पादप्रतिमानिवेशितपदस्योद्भूतरोमोद्गते रक्षुण्णोऽनुनयः प्रसन्नदयितादृष्टस्य पुष्णातु वः ॥१.२॥

अपि च
पद्य १.३
दृष्टः सप्रेम देव्या किमिदमिति भयात्संभ्रमाच्चासुरीभिः शान्तान्तस्तत्त्वसारैः सकरुणमृषिभिर्विष्णुना सस्मितेन
आकृष्यास्त्रं सगर्वैरुपशमितवधूसंभ्रमैर्दैत्यवीरैः सानन्दं देवताभिर्मयपुरदहने धूर्जटिः पातु युष्मान् ॥१.३॥

॥ नान्द्यन्ते ॥


सूत्रधारः:
अलमतिप्रसङ्गेन ।
पद्य १.४
श्रवणाञ्जलिपुटपेयं विरचितवान्भारताख्यममृतं यः ।
तमहमरागमकृष्णं कृष्णद्वैपायनं वन्दे ॥१.४॥

॥ समन्तादवलोक्य ॥
तद्भवन्तः परिषदग्रेसराः विज्ञाप्यं नः किंचिदस्ति ।
पद्य १.५
कुसुमाञ्जलिरपर इव प्रकीर्यते काव्यबन्ध एषोऽत्र ।
मधुलिह इव मधुबिन्दून्विरलानपि भजत गुणलेशान् ॥१.५॥

तदिदं कवेर्मृगराजलक्ष्मणो भट्टनारायणस्य कृतिं वेणीसंहारं नाम नाटकं प्रयोक्तुमुद्यता वयं । तदत्र कविपरिश्रमानुरोधाद्वोदात्तकथावस्तुगौरवाद्वा नवनाटकदर्शनकुतूहलाद्वा भवद्भिरवधानं दीयमानमभ्यर्थये ।

॥ नेपथ्ये ॥


भाव त्वर्यतां त्वर्यतां । एते खल्वार्यविदुराज्ञया पुरुषाः सकलमेव शैलूषजनं व्याहरन्ति । प्रवर्त्यन्तामपरिहीयमानमातोद्यविन्यासादिका विधयः । प्रवेशकालः किल तत्रभवतः पाराशर्यनारदतुम्बुरुजामदग्न्यप्रभृतिभिर्मुनिवृन्दारकैरनुगम्यमानस्य भरतकुलहितकाम्यया स्वयं प्रतिपन्नदौत्यस्य देवकीसूनोश्चक्रपाणेर्महाराजदुर्योधनशिबिरं प्रति प्रस्थातुकामस्येति ।


सूत्रधारः:
॥ आकर्ण्य सानन्दम् ॥
अहो नु खलु भो भगवता जगत्प्रभवस्थितिनिरोधप्रभविष्णुना विष्णुनाद्यानुगृहीतमिदं भरतकुलं सकलं च राजकमनयोः कुरुपाण्डवराजपुत्रयोराहवकल्पान्तानलप्रशमहेतुना स्वयं संधिकारिणा कंसारिणा दूतेन । तत्किमिति पारिपार्श्विक नारम्भयसि कुशीलवैः सह संगीतकं ।

॥ प्रविश्य ॥


पारिपार्श्विकः:
भवतु । आरम्भयामि । कं समयमाश्रित्य गीयतां ।


सूत्रधारः:
नन्वमुमेव तावच्चन्द्रातपनक्षत्रक्रौञ्चहंसकुलसप्तच्छदकुमुदपुण्डरीककाशकुसुमपरागधवलितगगनदिङ्मण्डलं स्वादुजलजलाशयं शरत्समयमाश्रित्य प्रवर्त्यतां संगीतकं । तथा ह्यस्यां शरदि
पद्य १.६
सत्पक्षा मधुरगिरः प्रसाधिताशा मदोद्धतारम्भाः ।
निपतन्ति धार्तराष्ट्राः कालवशान्मेदिनीपृष्ठे ॥१.६॥



पारिपार्श्विकः:
॥ ससंभ्रमम् ॥
भाव शान्तं पापं प्रतिहतममङ्गलं ।


सूत्रधारः:
॥ सवैलक्ष्यस्मितम् ॥
मारिष शरत्समयवर्णनाशंसया हंसा धार्तराष्ट्रा इति व्यपदिश्यन्ते । तत्किं शान्तं पापं प्रतिहतममङ्गलं ।


पारिपार्श्विकः:
न खलु न जाने । किं त्वमङ्गलाशंसयास्य वो वचनस्य यत्सत्यं कम्पितमिव मे हृदयं ।


सूत्रधारः:
मारिष ननु सर्वमेवेदानीं प्रतिहतममङ्गलं स्वयं प्रतिपन्नदौत्येन संधिकारिणा कंसारिणा । तथा हि
पद्य १.७
निर्वाणवैरदहनाः प्रशमादरीणां नन्दन्तु पाण्डुतनयाः सह माधवेन
रक्तप्रसाधितभुवः क्षतविग्रहाश्च स्वस्था भवन्तु कुरुराजतनयाः सभृत्याः ॥१.७॥


॥ नेपथ्ये । साधिक्षेपम् ॥


आः दुरात्मन्वृथामङ्गलपाठक शैलूषापसद ।
पद्य १.८
लाक्षागृहानलविषान्नसभाप्रवेशैः प्राणेषु वित्तनिचयेषु च नः प्रहृत्य
आकृष्टपाण्डववधूपरिधानकेशाः स्वस्था भवन्ति मयि जीवति धार्तराष्ट्राः ॥१.८॥


[संध्यङ्ग । वलुए="उपक्षेप" रेस्प्="V६.६९" फ़्रोम्="प्ल्१"]
॥ सूत्रधारपारिपार्श्विकावाकर्णयतः ॥


पारिपार्श्विकः:
भाव कुत एतथ् ।


सूत्रधारः:
॥ पृष्ठतो विलोक्य ॥
अये एष खलु वासुदेवगमनात्कुरुसंधानममृष्यमाणः पृथुललाटतटघटितविकटकीनाशतोरणत्रिशूलायमानभीषणभ्रुकुटिरापिबन्निव नः सर्वान्दृष्टिपातेन सहदेवानुगम्यमानः क्रुद्धो भीमसेन इत एवाभिवर्तते । तन्न युक्तमस्य पुरतः स्थातुं । तदित आवामन्यत्र गच्छावः ।

॥ इति निष्क्रान्तौ ॥

प्रस्तावना ।


॥ ततः प्रविशति सहदेवानुगम्यमानः क्रुद्धो भीमसेनः ॥


भीमसेनः:
आः दुरात्मन्वृथामङ्गलपाठक शैलूषापसद ।॥ लाक्षागृहेत्यादि पुनः पठति ॥



सहदेवः:
॥ सानुनयम् ॥
आर्य मर्षय मर्षय । अनुमतमेव नो भरतपुत्रस्यास्य वचनं । निर्वाणवैरदहना इति यथार्थमेव । सभृत्याः कुरवः क्षतजालंकृतवसुंधराः क्षतशरीराश्च स्वर्गस्था भवन्त्विति ब्रवीति ।


भीमसेनः:
॥ सोपालम्भम् ॥
न खलु न खल्वमङ्गलानि चिन्तयितुमर्हन्ति भवन्तः कौरवाणां । संधेयास्ते भ्रातरो युष्माकं ।


सहदेवः:
॥ सरोषम् ॥
आर्य
पद्य १.९
धृतराष्ट्रस्य तनयान्कृतवैरान्पदे पदे ।
राजा न चेन्निषेद्धा स्यात्कः क्षमेत तवानुजः ॥१.९॥



भीमसेनः:
एवमिदं । अत एवाहमद्यप्रभृति भिन्नो भवद्भ्यः । पश्य ।
पद्य १.१०
प्रवृद्धं यद्वैरं मम खलु शिशोरेव कुरुभि र्न तत्रार्यो हेतुर्न भवति किरीटी न च युवां
जरासंधस्योरःस्थलमिव विरूढं पुनरपि क्रुधा संधिं भीमो विघटयति यूयं घटयत ॥१.१०॥


[संध्यङ्ग । वलुए="परिकर" रेस्प्="V" फ़्रोम्="प्ल्२"]

सहदेवः:
॥ सानुनयम् ॥
आर्य एवमतिसंभृतक्रोधेषु युष्मासु कदाचित्खिद्यते गुरुः ।


भीमसेनः:
किं नाम खिद्यते गुरुः । गुरुः खेदमपि जानाति । पश्य ।
पद्य १.११
तथाभूतां दृष्ट्वा नृपसदसि पाञ्चालतनयां वने व्याधैः सार्धं सुचिरमुषितं वल्कलधरैः
विराटस्यावासे स्थितमनुचितारम्भनिभृतं गुरुः खेदं खिन्ने मयि भजति नाद्यापि कुरुषु ॥१.११॥

तत्सहदेव निवर्तस्व । एवं चातिचिरप्रवृद्धामर्षोद्दीप्तस्य भीमस्य वचनाद्विज्ञापय राजानं ।


सहदेवः:
आर्य किमिति ।


भीमसेनः:
एवं विज्ञापय ।
पद्य १.१२
युष्मच्छासनलङ्घनांहसि मया मग्नेन नाम स्थितं प्राप्ता नाम विगर्हणा स्थितिमतां मध्येऽनुजानामपि
क्रोधोल्लासितशोणितारुणगदस्योच्छिन्दतः कौरवा नद्यैकं दिवसं ममासि न गुरुर्नाहं विधेयस्तव ॥१.१२॥

॥ इत्युद्धतं परिक्रामति ॥



सहदेवः:
॥ तमेवानुगच्छन्नात्मगतम् ॥
अये कथमार्यः पाञ्चाल्याश्चतुःशालं प्रविष्टः । भवतु तावदहमत्रैव तिष्ठामि ।॥ इति स्थितः ॥



भीमसेनः:
॥ प्रतिनिवृत्यावलोक्य च ॥
सहदेव गच्छ त्वं गुरुमनुवर्तस्व । अहमप्यायुधागारं प्रविश्यायुधसहायो भवामि ।


सहदेवः:
आर्य नेदमायुधागारं पाञ्चाल्याश्चतुःशालमिदं ।


भीमसेनः:
॥ सवितर्कम् ॥
किं नाम नेदमायुधागारं पाञ्चाल्याश्चतुःशालमिदं ।॥ किंचिद्विहस्य सहर्षम् ॥
आमन्त्रयितव्या मया पाञ्चाली ।॥ सप्रणयं सहदेवं हस्ते गृहीत्वा ॥
वत्स आगम्यतां । यदार्यः कुरुभिः संधानमिच्छन्नस्मान्पीडयति तद्भवानपि पश्यतु ।

॥ उभौ प्रवेशं नाटयतः ॥


सहदेवः:
आर्य इदमासनमास्तीर्णं । अत्रोपविश्य प्रतिपालयत्वार्यः कृष्णागमनं ।


भीमसेनः:
॥ उपविश्य ॥
वत्स कृष्णागमनमित्यनेनोपोद्घातेन स्मृतं । अथ भगवान्कृष्णः केन पणेन संधिं कर्तुं सुयोधनं प्रति प्रहितः ।


सहदेवः:
आर्य पञ्चभिर्ग्रामैः ।


भीमसेनः:
॥ कर्णौ पिधाय ॥
अहह हन्त देवस्याजातशत्रोरप्ययमीदृशस्तेजोपकर्ष इति यत्सत्यं कम्पितमिव मे हृदयं ।॥ परिवृत्य स्थित्वा ॥
तद्वत्स न त्वया कथितं न मया श्रुतं ।
पद्य १.१३
यत्तदूर्जितमत्युग्रं क्षात्रं तेजोऽस्य भूपतेः ।
दीव्यताक्षैस्तदानेन नूनं तदपि हारितं ॥१.१३॥


॥ नेपथ्ये ॥


समस्ससदु समस्ससदु भट्टिणी ।


समाश्वसितु समाश्वसितु भट्टिनी ।


सहदेवः:
॥ नेपथ्याभिमुखमवलोक्यात्मगतम् ॥
अये कथं याज्ञसेनी मुहुरुपचीयमानबाष्पपटलस्थगितनयनार्यसमीपमुपसर्पति । तत्कष्टतरमापतितं ।
पद्य १.१४
यद्वैद्युतमिव ज्योतिरार्ये क्रुद्धेऽद्य संभृतं ।
तत्प्रावृडिव कृष्णेयं नूनं संवर्धयिष्यति ॥१.१४॥


॥ ततः प्रविशति यथानिर्दिष्टा द्रौपदी चेटी च । द्रौपदी सास्रं निश्वसिति ॥


चेटीः
समस्ससदु समस्ससदु भट्टिणी । अबणैस्सदि दे मण्णुं णिच्चाणुबद्धकुरुवेलो कुमालो भीमसेणो ।


समाश्वसितु समाश्वसितु भट्टिनी । अपनेष्यति ते मन्युं नित्यानुबद्धकुरुवैरः कुमारो भीमसेनः ।


द्रौपदीः
हञ्जे बुद्धिमदिए होदि एदं जै महाराअस्स पडिउलो हुविस्सदि ।


हञ्जे बुद्धिमतिके भवत्येतद्यदि महाराजस्य प्रतिकूलो भविष्यति ।


चेटीः
विलोक्य ॥
एसो कुमालो चिट्ठदि । ता णं उबसप्पदु भट्टिणी ।


४: एष कुमारस्तिष्ठति । तदेनमुपसर्पतु भट्टिनी ।


द्रौपदीः
५}हञ्जे एव्वं करेम्ह ।


५: हञ्जे एवं कुर्वः ।

॥ इति परिक्रामतः ॥


चेटीः
६}॥ उपसृत्य ॥
जादु जादु कुमालो ।


६: जयतु जयतु कुमारः ।


भीमसेनः:
॥ अशृण्वन्यत्तदूर्जितमिति पुनः पठति ॥



चेटीः
७}॥ परिवृत्य ॥
भट्टिणि परिकुबिदो विअ कुमालो लक्खीअदि ।


७: भट्टिनि परिकुपित इव कुमारः लक्ष्यते ।


द्रौपदीः
८}हञ्जे जै एव्वं ता अवहीरणा बि एसा मं अस्सासादि । ता एत्थ उबविट्ठा भविअ सुणोमि दाव णाहस्स ववसिदं ।


८: हञ्जे यद्येवं तदवधीरणाप्येषा मामाश्वासयति । तदत्रोपविष्टा भूत्वा शृणोमि तावन्नाथस्य व्यवसितं ।

॥ उभे तथा कुरुतः ॥


भीमसेनः:
॥ सक्रोधं सहदेवमधिकृत्य ॥
किं नाम पञ्चभिर्ग्रामैः संधिः ।
पद्य १.१५
मथ्नामि कौरवशतं समरे न कोपा द्दुःशासनस्य रुधिरं न पिबाम्युरस्तः
संचूर्णयामि गदया न सुयोधनोरू संधिं करोतु भवतां नृपतिः पणेन ॥१.१५॥



द्रौपदीः
९}॥ सहर्षं जनान्तिकम् ॥
णाह अस्सुदपुव्वं खु दे ईदिसं वाणं । ता पुणो बि दाव भणाहि ।


९: नाथ अश्रुतपूर्वं खलु त ईदृशं वचनं । तत्पुनरपि तावद्भण ।


भीमसेनः:
॥ अशृण्वन्नेव मथ्नामीत्यादि पुनः पठति ॥



सहदेवः:
आर्य किं महाराजस्य संदेशोऽव्युत्पन्न इव गृहीतः ।


भीमसेनः:
का पुनरत्र व्युत्पत्तिः ।


सहदेवः:
आर्य एवं गुरणा संदिष्टं ।


भीमसेनः:
कस्य ।


सहदेवः:
सुयोधनस्य ।


भीमसेनः:
किमिति ।


सहदेवः:
पद्य १.१६
इन्द्रप्रस्थं वृकप्रस्थं जयन्तं वारणावतं ।
प्रयच्छ चतुरो ग्रामान्कंचिदेकं तु पञ्चमं ॥१.१६॥



भीमसेनः:
ततः किं ।


सहदेवः:
तदेवमनया प्रतिनामग्रामप्रार्थनया पञ्चमस्य चाकीर्तनाद्विषभोजनजतुगृहदाहद्यूतसभाद्यपकारस्थानोद्घाटनमेवेदं मन्ये ।


भीमसेनः:
॥ साटोपम् ॥
वत्स एवं कृते किं कृतं भवति ।


सहदेवः:
आर्य एवं कृते लोके तावत्स्वगोत्रक्षयाशङ्कि हृदयमाविष्कृतं भवति कुरुराजस्यासंधेयता च दर्शिता भवति ।


भीमसेनः:
सर्वमप्येतदनर्थकं । कुरुराजस्य तावदसंधेयता तदैव निवेदिता यदैवास्माभिरितो वनं गच्छद्भिः सर्वैरेव कुरुकुलस्य निधनं प्रतिज्ञातं । लोकेऽपि च धार्तराष्ट्रकुलक्षयः किं लज्जाकरो भवतां । अपि च रे मूर्ख
पद्य १.१७
युष्मान्ह्रेपयति क्रोधाल्लोके शत्रुकुलक्षयः ।
न लज्जयति दाराणां सभायां केशकर्षणं ॥१.१७॥



द्रौपदीः
१०}॥ जनान्तिकम् ॥
णाह ण लज्जन्ति एदे । तुमं बि दाव मा विसुमरेहि ।


१०: नाथ न लज्जन्त एते । त्वमपि तावन्मा विस्मार्षीः ।


भीमसेनः:
॥ सस्मरणम् ॥
वत्स कथं चिरयति पाञ्चाली ।


सहदेवः:
आर्य का खलु वेला तत्रभवत्याः प्राप्तायाः । किं तु रोषावेशवशादागताप्यार्येण नोपलक्षिता ।


भीमसेनः:
॥ दृष्ट्वा सादराम् ॥
देवि समुद्धतामर्षैरस्माभिरागतापि भवती नोपलक्षिता । अतो न मन्युं कर्तुमर्हसि ।


द्रौपदीः
११}णाह उदासीणेसु तुम्हेसु मण्णू ण उण कुबिदेसु ।


११: नाथ उदासीनेषु युष्मासु मन्युर्न पुनः कुपितेषु ।


भीमसेनः:
यद्येवमपगतपरीभवमात्मानं समर्थयस्व ।॥ हस्तं गृहीत्वा पार्श्वे समुपवेश्य मुखमवलोक्य ॥
किं पुनरत्रभवतीमुद्विग्नामिवोपलक्षयामि ।


द्रौपदीः
१२}णाह किं उव्वेअकालणं तुम्हेसु सण्णिहिदेसु ।


१२: नाथ किमुद्वेगकारणं युष्मासु संनिहितेषु ।


भीमसेनः:
किमिति नावेदयसि ।॥ केशानवलोक्य ॥
अथ वा किमावेदितेन
पद्य १.१८
जीवत्सु पाण्डुपुत्रेषु दूरमप्रोषितेषु च ।
पाञ्चालराजतनया वहते यदिमां दशां ॥१.१८॥



द्रौपदीः
१३}हञ्जे बुद्धिमदिए णिवेदेहि दाव णाहस्स । को अण्णो मह परिहवेण खिज्जदि ।


१३: हञ्जे बुद्धिमतिके निवेदय तावन्नाथस्य । कोऽन्यो मम परीभवेन खिद्यते ।


चेटीः
१४}जं देवी आणवेदि ।॥ भीममुपसृत्याञ्जलिं बद्ध्वा ॥
कुमाल इदो बि अहिअं अज्ज मण्णुकालणं आसी देवीए ।


१४: यद्देव्याज्ञापयति । कुमार इतोऽप्यधिकमद्य मन्युकारणमासीद्देव्याः ।


भीमसेनः:
किं नामास्मादप्यधिकतरं । तत्कथय कथय ।
पद्य १.१९
कौरव्यवंशदावेऽस्मिन्क एष शलभायते ।
मुक्तवेणीं स्पृशन्नेनां कृष्णां धूमशिखामिव ॥१.१९॥



चेटीः
१५}सुणादु कुमालो । अज्ज खु देवी अम्बासहिदा सुभद्दप्पमुहेण सबत्तिवग्गेण परिवुदा अज्जाए गन्धालीए पादवन्दणं कादुं गदा आसी ।


१५: शृणोतु कमारः । अद्य खलु देव्यम्बासहिता सुभद्राप्रमुखेण सपत्नीवर्गेण परिवृतार्याया गान्धार्याः पादवन्दनं कर्तुं गतासीथ् ।


भीमसेनः:
युक्तमेतथ् । वन्द्याः खलु गुरवः । ततस्ततः ।


चेटीः
१६}तदो पडिणिउत्तमाणा भाणुमदीए दिट्ठा ।


१६: ततः प्रतिनिवर्तमाना भानुमत्या दृष्टा ।


भीमसनः:
॥ सक्रोधम् ॥
आः शत्रोर्भार्यया दृष्टा । हन्त स्थानं क्रोधस्य देव्याः । ततस्ततः ।


चेटीः
१७}तदो ताए देविं पेक्खिअ सहीवाणदिण्णदिट्ठीए सगव्वं ईसि विहसिअ भणिदं ।


१७: ततस्तया देवीं प्रेक्ष्य सखीवदनदत्तदृष्ट्या सगर्वमीषद्विहस्य भणितं ।


भीमसेनः:
न केवलं दृष्टोक्ता च । अहो किं कुर्मः । ततस्ततः ।


चेटीः
१८}ऐ जण्णसेणि पञ्च गामा पत्थीअन्ति त्ति सुणीअदि । कीस दाणिं बि दे केसा ण संजमीअन्ति ।


१८: अयि याज्ञसेनि पञ्चग्रामाः प्रार्थ्यन्त इति श्रूयते । कस्मादिदानीमपि ते केशा न संयम्यन्ते ।


भीमसेनः:
सहदेव श्रुतं ।


सहदेवः:
किमिहोच्यते । दुर्योधनकलत्रं हि सा । पश्य ।
पद्य १.२०
स्त्रीणां हि साहचर्याद्भवन्ति चेतांसि भर्तृसदृशानि ।
मधुरापि हि मूर्च्छयते विषविटपिसमाश्रिता वल्ली ॥१.२०॥



भीमसेनः:
बुद्धिमतिके ततो देव्या किमभिहितं ।


चेटीः
१९}कुमाल जै परिजणहीणा भवे तदो देवी भणादि ।


१९: कुमार यदि परिजनहीना भवेत्तदा देवी भणति ।


भीमसेनः:
किं पुनरभिहितं भवत्या ।


चेटीः
२०}मए एव्वं भणिदं । ऐ भाणुमदि तुम्हाणं अमुक्केसु केसेसु कहं अम्हाणं देवीए केसा संजमीअन्ति त्ति ।


२०: मया एवं भणितं । अयि भानुमति युष्माकममुक्तेषु केशेषु कथमस्माकं देव्याः केशाः संयम्यन्त इति ।


भीमसेनः:
॥ सपरितोषम् ॥
साधु बुद्धिमतिके साधु । तदभिहितं यदस्मत्परिजनोचितं ।॥ स्वाभरणानि बुद्धिमतिकायै प्रयच्छति ॥
अत्रभवति पाञ्चालराजतनये श्रूयतां । अचिरेणैव कालेन
पद्य १.२१
चञ्चद्भुजभ्रमितचण्डगदाभिघात संचूर्णितोरुयुगलस्य सुयोधनस्य
स्त्यानावनद्धघनशोणितशोणपाणि रुत्तंसयिष्यति कचांस्तव देवि भीमः ॥१.२१॥


[संध्यङ्ग । वलुए="परिन्यास" रेस्प्="V६.७१" फ़्रोम्="प्ल्३"]

द्रौपदीः
२१}किं णाह दुक्करं तुए परिकुबिदेण ।
 अणुगेण्हन्तु एदं ववसिदं दे भादरो ।

२१: किं नाथ दुष्करं त्वया परिकुपितेन । अनुगृह्णन्त्वेतद्व्यवसितं ते भ्रातरः ।

[संध्यङ्ग । वलुए="विलोभन" रेस्प्="V६.७२" फ़्रोम्="छ्२१" तो="प्ल्४"]

सहदेवः:
अनुगृहीतमेतदस्माभिः ।

॥ नेपथ्ये महान्कलकलः । सर्वे सविस्मयमाकर्णयन्ति ॥


भीमसेनः:
पद्य १.२२
मन्थायस्तार्णवाम्भःप्लुतकुहरवलन्मन्दरध्वानधीरः कोणाघातेषु गर्जत्प्रलयघनघटान्योऽन्यसंघट्टचण्डः
कृष्णाक्रोधाग्रदूतः कुरुकुलनिधनोत्पातनिर्घातवातः केनास्मत्सिंहनादप्रतिरसितसखो दुन्दुभिस्ताड्यतेऽयं ॥१.२२॥


॥ प्रविश्य संभ्रान्तः ॥


कञ्चुकीः
कुमार एष खलु भगवान्वासुदेवः ।

॥ सर्वे कृताञ्जलयः समुत्तिष्ठन्ति ॥


भीमसेनः:
॥ ससंभ्रमम् ॥
क्वासौ भगवान् ।


कञ्चुकीः
पाण्डवपक्षपातामर्षितेन सुयोधनेन संयन्तुमारब्धः ।

॥ सर्वे संभ्रमं नाटयन्ति ॥


भीमसेनः:
किं संयतः ।


कञ्चुकीः
न हि न हि संयन्तुमारब्धः ।


भीमसेनः:
किं कृतं देवेन ।


कञ्चुकीः
ततः स महात्मा दर्शितविश्वरूपतेजःसंपातमूर्च्छितमवधूय कुरुकुलमस्मच्छिबिरसंनिवेशमनुप्राप्तः । कमारमविलम्बितं द्रष्टुमिच्छति ।


भीमसेनः:
॥ सोपहासम् ॥
किं नाम दुरात्मा सुयोधनो भगवन्तं संयन्तुमिच्छति ।॥ आकाशे दत्तदृष्टिः ॥
आः दुरात्मन्कुरुकुलपांसन एवमतिक्रान्तमर्यादे त्वयि निमित्तमात्रेण पाण्डवक्रोधेन भवितव्यं ।


सहदेवः:
आर्य किमसौ दुरात्मा सुयोधनो वासुदेवमपि भगवन्तं स्वेन रूपेण न जानाति ।


भीमसेनः:
वत्स मूढः खल्वयं दुरात्मा । कथं जानातु । पश्य ।
पद्य १.२३
आत्मारामा विहितमतयो निर्विकल्पे समाधौ ज्ञानोद्रेकाद्विघटिततमोग्रन्थयः सत्त्वनिष्ठाः
यं वीक्षन्ते कमपि तमसां ज्योतिषां वा परस्ता त्तं मोहान्धः कथमयममुं वेत्तु देवं पुराणं ॥१.२३॥

आर्य जयंधर किमिदानीमध्यवस्यति गुरुः ।


कञ्चुकीः
स्वयमेव गत्वा महाराजस्याध्यवसितं ज्ञास्यति कुमारः ।
॥ इति निष्क्रान्तः ॥


॥ नेपथ्ये कलकलानन्तरम् ॥


भो भो द्रुपदविराटवृष्ण्यन्धकसहदेवप्रभृतयोऽस्मदक्षौहिणीपतयः कौरवचमूप्रधानयोधाश्च शृण्वन्तु भवन्तः ।
पद्य १.२४
यत्सत्यव्रतभङ्गभीरुमनसा यत्नेन मन्दीकृतं यद्विस्मर्तुमपीहितं शमवता शान्तिं कुलस्येच्छता
तद्द्यूतारणिसंभृतं नृपवधूकेशाम्बराकर्षणैः क्रोधज्योतिरिदं महत्कुरुवने यौधिष्ठिरं जृम्भते ॥१.२४॥



भीमसेनः:
॥ आकर्ण्य । सहर्षम् ॥
जृम्भतां जृम्भतामप्रतिहतप्रसरमार्यस्य क्रोधज्योतिः ।


द्रौपदीः
२२}णाह किं दाणिं एसो पलाजलहरत्थणिदमंसलो खणे खणे समरदुन्दुही ताडीअदि ।


२२: नाथ किमिदानीमेष प्रलयजलधरस्तनितमांसलः क्षणे क्षणे समरदुन्दुभिस्ताड्यते ।


भीमसेनः:
देवि किमन्यथ् । यज्ञः प्रवर्तते ।


द्रौपदीः
२३}॥ सविस्मयम् ॥
को एसो जण्णो ।


२३: क एष यज्ञः ।


भीमसेनः:
रणयज्ञः । तथा हि
पद्य १.२५
चत्वारो वयमृत्विजः स भगवान्कर्मोपदेष्टा हरिः संग्रामाध्वरदीक्षितो नरपतिः पत्नी गृहीतव्रता
कौरव्याः पशवः प्रियापरिभवक्लेशोपशान्तिः फलं राजन्योपनिमन्त्रणाय रसति स्फीतं यशोदुन्दुभिः ॥१.२५॥



सहदेवः:
आर्य गच्छामो वयमिदानीं गुरुजनानुज्ञाप्ता किक्रमानुरूपमाचरितुं ।


भीमसेनः:
वत्स एते वयमुद्यता एवार्यस्यानुज्ञानमनुष्ठातुं ।॥
उत्थाय ॥
देवि गच्छामो वयमिदानीं कुरुकुलक्षयाय ।


द्रौपदीः
२४}॥ बाष्पं धारयन्ती ॥
णाह असुरसमराहिमुहस्स हरिणो विअ मङ्गलं तुम्हाणं होदु ।


२४: नाथ असुरसमराभिमुखस्य हरेरिव मङ्गलं युष्माकं भवतु ।


उभौः
प्रतिगृहीतं मङ्गलवचनमस्माभिः ।


द्रौपदीः
२५}अण्णं च णाह पुणो बि तुम्हेहिं समरादो आअच्छिअ अहं समासासैदव्वा ।


२५: अन्यच्च नाथ पुनरपि युष्माभिः समरादागत्याहं समाश्वासयितव्या ।


भीमसेनः:
ननु पाञ्चालराजतनये किमद्याप्यलीकाश्वासनया ।
पद्य १.२६
भूयः परिभवक्लान्तिलज्जाविधुरिताननं ।
अनिःशेषितकौरव्यं न पश्यसि वृकोदरं ॥१.२६॥



द्रौपदीः
२६}णाह मा खु मा खु जण्णसेणीपरिहवुद्दीबिदकोबाणला अणवेक्खिदसरीरा संचरिस्सह । जदो अप्पमत्तसंचरणिज्जाइं रिउबलाइं सुणीअन्ति ।


२६: नाथ मा खलु मा खलु याज्ञसेनीपरिभवोद्दीपितकोपानला अनपेक्षितशरीराः संचरिष्यथ । यतोऽप्रमत्तसंचरणीयानि रिपुबलानि श्रूयन्ते ।


भीमसेनः:
अयि सुक्षत्रिये
पद्य १.२७
अन्योऽन्यास्फालभिन्नद्विपरुधिरवसामांसमस्तिष्कपङ्के मग्नानां स्यन्दनानामुपरिकृतपदन्यासविक्रान्तपत्तौ
स्फीतासृक्पानगोष्ठीरसदशिवशिवातूर्यनृत्यत्कबन्धे संग्रामैकार्णवान्तःपयसि विचरितुं पण्डिताः पाण्डुपुत्राः ॥१.२७॥


॥ इति निष्क्रान्ताः सर्वे ॥


इति प्रथमोऽङ्कः ।

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP