बृहस्पतिस्मृतिः - साहसम्

स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.


स्तेनानां एतदाख्यातं सर्वेषां दण्डनिग्रहम् ।
साहसस्याधुना सम्यक्श्रूयतां वधशासनम् ॥१॥
मनुष्यमारणं चौर्यं परदाराभिमर्शनम् ।
पारुष्यं उभयं चैव साहसं तु चतुर्विधम् ॥२॥
हीनमध्योत्तमत्वेन त्रिविधं तत्प्रकीर्तितम् ।
द्रव्यापेक्षया दमास्तत्र प्रथमोत्तममध्यमाः ॥३॥
आततायिद्विजाग्याणां धर्मयुद्धेन हिंसनम् ।
इमान्धर्मान्कलियुगे वर्ज्यानाहुर्मनीषिणः ॥४॥
क्षेत्रोपकरणं सेतुं मूलपुष्पफलानि च ।
विनाशयन्हरन्दण्ड्यः शतोद्यं अनुरूपतः ॥५॥
पशुवस्त्रान्नपानानि गृहोपकरणं तथा ।
हिंसयंश्चौरवद्दाप्यो द्विशतोद्यं दमं तथा ॥६॥
स्त्रीपुंसौ हेमरत्नानि देवविप्रधनं तथा ।
कौशेयं चोत्तमद्रव्यं एषां मूल्यसमो दमः ॥७॥
द्विगुणो वा कल्पनीयः पुरुषापेक्षया नृपैः ।
हन्ता वा घातनीयः स्यात्प्रसंगविनिवृत्तये ॥८॥
साहसं पञ्चधा प्रोक्तं वधस्तत्राधिकः स्मृतः ।
तत्कारिणो नार्थदमैः शास्या वध्याः प्रयत्नतः ॥९॥
प्रकाशघातका ये तु तथा चोपांशुघातकाः ।
ज्ञात्वा सम्यग्धनं हृत्वा हन्तव्याः विविधैर्वधैः ॥१०॥
१ साहसिकाः दण्ड्याः
मित्रप्राप्त्यर्थलाभे वा राज्ञा लोकहितैषिणा ।
न मोक्तव्याः साहसिकाः सर्वलोकभयावहाः ॥११॥
लोभाद्भयाद्वा यो राजा न हन्त्यन्यायकारिणः ।
तस्य प्रक्षुभ्यते राष्ट्रं राज्याच्च परिहीयते ॥१२॥
बन्धाग्निविषशस्त्रेण परान्यस्तु प्रमापयेत् ।
क्रोधादिना निमित्तेन नरः साहसिकस्तु सः ॥१३॥

२ संभूयप्रहरणनिर्णयः
एकस्य बहवो यत्र प्रहरन्ति रुषान्विताः ।
मर्मप्रहारदो यस्तु घातकः स उदाहृतः ॥१४॥
मर्मघाती तु यस्तेषां यथोक्तं दापयेद्दमम् ।
आरम्भकृत्सहायश्च तथा मार्गानुदेशकः ।
आश्रयः शस्त्रदाता च भक्तदाता विकर्मिणाम् ॥१५॥
युद्धोपदेशकश्चैव तद्विनाशप्रदर्शकः ।
उपेक्षी कार्ययुक्तश्च दोषवक्तानुमोदकः ॥१६॥

३ आततायिवधः
नाततायिवधे हन्ता किल्विषं प्राप्नुयात्क्वचित् ।
विनाशार्थिनं आयान्तं घातयन्नापराध्नुयात् ॥१७॥
आततायिनं उत्कृष्टं वृत्तस्वाध्यायसंयुतम् ।
यो न हन्याद्वधप्राप्तं सोऽश्वमेधफलं लभेत् ॥१८॥
स्वाध्यायिनं कुले जातं यो हन्यादाततायिनम् ।
अहत्वा भ्रूणहा स स्यान्न हत्वा भ्रूणहा भवेत् ॥१९॥
सांप्रतं साहसं स्तेयं श्रूयतां क्रोधलोभजम् ।

४ घातकादर्शने निर्णयः
क्षतस्याल्पं अहत्वं च मर्मस्थानं च यत्नतः ।
सामर्थ्यं चानुबन्धं च ज्ञात्वा चिह्नैः प्रसादयेत् ॥२०॥
हतस्तु दृश्यते यत्र घातकश्च न दृश्यते ।
पूर्ववैरानुसारेण ज्ञातव्यः स महीभुजा ॥२१॥
समघाती तु यस्तेषां यथोक्तं दापयेद्दमम् ।
आरम्भकृत्सहायश्च दोषभाजस्तदर्धतः ॥२२॥
प्रतिवेश्यानुवेश्यौ च तस्य मित्रारिबान्धवाः ।
प्रष्टव्या राजपुरुषैः सामादिभिरुपक्रमैः ॥२३॥
विज्ञेयोऽसाधुसंसर्गाच्चिह्नहोढेन वा नरैः ।
एषोदिता घातकानां तस्कराणां च भावना ॥२४॥
गृहीतः शङ्कया यस्तु न तत्कार्यं प्रपद्यते ।
शपथेन विशोद्धव्यः सर्ववादेष्वयं विधिः ॥२५॥
दिव्यैर्विशुद्धो मेध्यः स्यादशुद्धो वधं अर्हति ।
निग्रहानुग्रहैर्राज्ञः कीर्तिर्धर्मश्च वर्धते ॥२६॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP