रससंकेतकलिका - अध्यायः ३

रससंकेतकलिका ग्रंथात रसासंबंधी उपयुक्त माहिती देण्यात आलेली आहे.


गन्धं विषादिनेपालं गोदुग्धेऽथ शिलाजतु ।
गोमूत्रेण च तालाद्यं शङ्खाद्यं अम्लत शुचि ॥१॥

(विष मारण)
रसेषूक्तं विषं ग्राह्यं तुल्यं टङ्कणपेषितम् ।
तन्मृतं योगवाहि स्यात्सूताभ्राय समं गुणै ॥२॥

(विष मन्त्रस्)
नीलकण्ठाख्यमन्त्रेण विषं सप्ताभिमन्त्रितम् ।
औषधे च रसे चैव दातव्यं हितमिच्छता ॥३॥

नानारसौषधैर्ये तु दुष्टा यान्तीह नो गदा ।
ते नश्यन्ति विषे दत्ते शीघ्रं वातकफोद्भवा ॥४॥

श्रेष्ठमध्यावरा मात्रा अष्टषट्कचतुर्यवा ।
अतिमात्रं यदा भुक्तं तदाज्यटङ्कणे पिबेत् ॥५॥
रजनीं मेघनादं वा सर्पाक्षीं वा घृतान्विताम् ।
लिहेद्वा मधुसर्पिर्भ्यां चूर्णितां अर्जुनत्वचम् ॥६॥
न देयं क्रोधिने क्लीबे पित्तार्ते राजयक्ष्मिणि ।
क्षुत्तृष्णाभ्रमघर्माध्वसेविने क्षीणरोगिणे ॥७॥
गुर्विणीबालवृद्धेषु न विषं राजमन्दिरे ।
रसायनरते दद्याद्घृतक्षीरहिताशिने ॥८॥

(उपविष)
लाङ्गलीवज्रिहेमार्कहयारिविषमुष्टिका ।
एतान्युपविषाण्याहु यस्तानि रसकर्मणि ॥९॥

समुद्रे मथ्यमाने तु वासुकेर्वदनाद्द्रुत ।
फेनौघो व्याकुलत्वाच्च फूत्कारात्पतित क्षितौ ॥१०॥

तेनाहिफेनमाख्यातं तिक्तं संग्राहि शोषणम् ।
मोहकृच्छ्वासकासघ्नं सेवितं त्यक्तुमक्षमम् ॥११॥
श्लेष्महृद्वातकृद्युक्त्या युक्तं तदमृतं विषम् ।
वीर्यस्तम्भकरं नृणां स्त्रीणां सौख्यप्रदायकम् ॥१२॥

पुरा देवैश्च दैत्यैश्च मथितो रत्नसागर ।
तस्मादमृतमुत्पन्नं देवै पीतं न दानवै ॥१३॥
तदा धन्वन्तरेर्हस्तादमृतं पतितं भुवि ।
तस्मिन्सर्वैर्लेह्यमाने दर्भैर्जिह्वा द्विधा कृता ॥१४॥
जिह्वासृग्विषसम्भूता सिद्धमूली महौषधी ।

सा चतुर्धा सिता रक्ता पीता कृष्णा प्रसूनकै ॥१५॥

आह्लादिनी बुद्धिरूपा योगे मन्त्रे च सिद्धिदा ।
सर्वरोगहरी कामजननी क्षुत्प्रबोधनी ॥१६॥

N/A

References : N/A
Last Updated : June 24, 2015

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP