अधिकरणम् १ - अध्यायः २

महर्षि वात्स्यायन यांच्या कामसूत्र ग्रंथात दाम्पत्य जीवनातील फक्त श्रृंगारच वर्णिलेला नसून कला, शिल्पकला आणि साहित्यपण संपादित केलेले आहे.


शतायुर्वै पुरुषो विभज्य कालं अन्योन्यानुबद्धं परस्परस्यानुपघातकं त्रिवर्गं सेवेत ॥१॥

बाल्ये विद्याग्रहणादीनर्थान् ॥२॥

कामं च यौवने ॥३॥

स्थाविरे धर्मं मोक्षं च ॥४॥

अःनित्यत्वादायुषो यथोपपादं वा सेवेत ॥५॥

ब्रह्मचर्यं एव त्वा विद्याग्रहणात् । ब्) अवबोधः ॥६॥

अःलौकिकत्वादःदृष्टार्थत्वादःप्रवृत्तानां अज्ञादीनां शास्त्रात्प्रवर्तनं लौकि[क]त्वाद्दृष्टार्थत्वाच्च प्रवृत्तेभ्यश्च मांसभक्षणादिभ्यः शास्त्रादेव निवारणं धर्मः ॥७॥

तं श्रुतेर्धर्मज्ञसमवायाच्च प्रतिपद्येत ॥८॥

विद्याभूमिहिरण्यपशुधान्यभाण्डोपस्करमित्रादीनां अर्जनं अर्जितस्य विवर्धनं अर्थः ॥९॥

तं अध्यक्षप्रचाराद्वार्तासमयविद्भ्यो वणिग्भ्यश्चेति ॥१०॥

श्रोत्रत्वक्चक्सुर्जिह्वाघ्राणानां आत्मसंयुक्तेन मनसाधिष्ठितानां स्वेषु स्वेषु विषयेष्वानुकूल्यतः प्रवृत्तिः कामः ॥११॥

स्पर्शविशेषविषयात्त्वस्याभिमानिकसुखानुविद्धा फलवत्यर्थप्रतीतिः प्राधान्यात्कामः ॥१२॥

तं कामसूत्रान्नागरिकजनसमवायाच्च प्रतिपद्येत ॥१३॥

एषां समवाये पूर्वः पूर्वो गरीयान् ॥१४॥

अर्थश्च राज्ञः । तन्मूलत्वाल्लोकयात्रायाः । वेश्यायाश्च इति त्रिवर्गप्रतिपत्तिः (४) । च्) संप्रतिपत्तिः ॥१५॥

धर्मस्याःलौकिकत्वात्तदभिदायकं शास्त्रं युक्तम् । उपायपूर्वकत्वादर्थसिद्धेः । उपायप्रतिपत्तिः शास्त्रात् ॥१६॥

तिर्यग्योनिष्वपि तु स्वयं प्रवृत्तत्वात्कामस्य नित्यत्वाच्च न शास्त्रेण कृत्यं अस्तीत्याचार्याः ॥१७॥

संप्रयोगपराधीनत्वात्स्त्रीपुंसयोरुपायं अपेक्षते ॥१८॥

सा चोपायप्रतिपत्तिः कामसूत्रादिति वात्स्यायनः ॥१९॥

तिर्यग्योनिषु पुनरनःआवृतत्वात्श्त्रीजातेश्च ऋतौ यावदर्थं प्रवृत्तेरःबुद्धिपूर्वकत्वाच्च प्रवृत्तीनां अनःउपायः प्रत्ययः ॥२०॥

न धर्मांश्चरेत् । एष्यत्फलत्वात् । संशयिकत्वाच्च ॥२१॥

को ह्यःबालिशो हस्तगतं परगतं कुर्यात् ॥२२॥

वरं अद्य कपोतः श्वो मयूरात् ॥२३॥

वरं सांशयिकान्निष्कादःसांशयिकः कार्षापणः । इति लौकायतिकाः ॥१ ।२ ।२५ शास्त्रस्यानःअभिशङ्कत्वादभिचारानुव्याहारयोश्च क्व चित्फलदर्शनान्नक्षत्रचन्द्र सूर्यताराग्रहचक्रस्य लोकार्थं बुद्धिपूर्वकं इव प्रवृत्तेर्दर्शनाद्वर्णाश्रमाचारस्थितिलक्षणत्वाच्च लोकयात्राया हस्तगतस्य च बीजस्य भविष्यतः सस्यार्थे त्यागदर्शनाच्चरेद्धर्मानिति वात्स्यायनः ॥२४॥

नार्थांश्चरेत् । प्रयत्नतोऽपि ह्येतेऽनुष्ठीयमाना नैव कदा चित्स्युः अनःअनुष्ठीयमाना अपि यदृच्छया भवेयुः ॥२६॥

तत्सर्वं कालकारितं इति ॥२७॥

काल एव हि पुरुषानर्थानर्थयोर्जयपराजययोः सुखदुःखयोश्च स्थापयति ॥२८॥

कालेन बलिरिन्द्रः कृतः । कालेन व्यपरोपितः । काल एव पुनरप्येनं कर्तेति कालकारणिकाः ॥२९॥

पुरुषकारपूर्वकत्वात्सर्वप्रवृत्तीनां उपायः प्रत्ययः ॥३०॥

अःवश्यंभाविनोऽप्यर्थस्योपायपूर्वकत्वादेव । न निष्कर्मणो भद्रं अस्तीति वात्स्यायनः ॥३१॥

न कामांश्चरेत् । धर्मार्थयोः प्रधानयोरेवं अन्येषां च सतां प्रत्यनीकत्वात् । अनर्थजनसंसर्गं असद्व्यवसायं अशौचं अनःआयतिं चैते पुरुषस्य जनयन्ति ॥३२॥

तथा प्रमादं लाघवं अःप्रत्ययं अःग्राह्यतां च ॥३३॥

बहवश्च कामवशगाः सःगणा एव विनष्टाः श्रूयन्ते ॥३४॥

यथा दाण्डक्यो नाम भोजः कामाद्ब्राह्मणकन्यां अभिमन्यमानः सःबन्धुराष्ट्रो विननाश (५) ॥३५॥

देवराजश्च_अहल्यां अतिबलश्च कीचको द्रौपदीं रावणश्च सीतां अपरे चान्ये च बहवो दृश्यन्ते कामवशगा विनष्टा इत्यर्थचिन्तकाः ॥३६॥

शरीरस्थितिहेतुत्वादाहारसःधर्माणो हि कामाः । फलभूताश्च धर्मार्थयोः ॥३७॥

बोद्धव्यं तु दोषेष्विव । न हि भिक्षुकाः सन्तीति स्थाल्यो नाधिश्रीयन्ते । न हि मृगाः सन्तीति यवा नोप्यन्त इति वात्स्यायनः ॥३८॥

भवन्ति चात्र श्लोकाः ॥३९॥

वेवं अर्थं च कामं च धर्मं चोपाचरन्नरः । इहामुत्र च निःशल्यं अत्यन्तं सुखं अश्नुते ॥३९॥

किं स्यात्परत्रेत्याशङ्का कार्ये यस्मिन्न जायते । न चार्थघ्नं सुखं चेति शिष्टास्तत्र व्यवस्थिताः ॥४०व्१॥
त्रिवर्गसाधकं यत्स्याद्द्वयोरेकस्य वा पुनः । कार्यं तदपि कुर्वीत न त्वेकार्थं द्विबाधकम् ॥४०व्२॥

चिति श्रीवात्स्यायनीये कामसूत्रे साधारणे प्रथमेऽधिकरणे त्रिवर्गप्रतिपत्तिर्द्वितीयोऽध्यायः । (६)॥ १ ।२॥

N/A

References : N/A
Last Updated : June 27, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP