व्यवहारपदानि - अभ्युपेत्याशुश्रूषा

स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.


अभ्युपेत्य तु शुश्रूषां यस्तां न प्रतिपद्यते ।
अशुश्रूषाभ्युपेत्यैतद्विवादपदं उच्यते ॥१॥

शुश्रूषकः पञ्चविधः शास्त्रे दृष्टो मनीषिभिः ।
चतुर्विधः कर्मकरस्तेषां दासास्त्रिपञ्चकाः ॥२॥

शिष्यान्तेवासिभृतकाश्चतुर्थस्त्वधिकर्मकृत् ।
एते कर्मकराः प्रोक्ता दासास्तु गृहजादयः ॥३॥

सामान्यं अस्वतन्त्रत्वं एषां आहुर्मनीषिणः ।
जातिकर्मकृतस्तूक्तो विशेषो वृत्तिरेव च ॥४॥

कर्मापि द्विविधं ज्ञेयं अशुभं शुभं एव च ।
अशुभं दासकर्मोक्तं शुभं कर्मकृतां स्मृतम् ॥५॥

गृहद्वाराशुचिस्थान रथ्यावस्करशोधनम् ।
गुह्याङ्गस्पर्शनोच्छिष्ट विण्मूत्रग्रहणोज्झनम् ॥६॥

इष्टतः स्वामिनश्चाङ्गैरुपस्थानं अथान्ततः ।
अशुभं कर्म विज्ञेयं शुभं अन्यदतः परम् ॥७॥

आ विद्याग्रहणाच्छिष्यः शुश्रूषेत्प्रयतो गुरुम् ।
तद्वृत्तिर्गुरुदारेषु गुरुपुत्रे तथैव च ॥८॥

ब्रह्मचारी चरेद्भैक्षं अधःशाय्यनलङ्कृतः ।
जघन्यशायी सर्वेषां पूर्वोत्थायी गुरोर्गृहे ॥९॥    

नासंदिष्टः प्रतिष्ठेत तिष्ठेद्वापि गुरुं क्वचित् ।
संदिष्टः कर्म कुर्वीत शक्तश्चेदविचारयन् ॥१०॥

यथाकालं अधीयीत यावन्न विमना गुरुः ।
आसीनोऽधो गुरोः कूर्चे फलके वा समाहितः ॥११॥

अनुशास्यश्च गुरुणा न चेदनुविधीयते ।
अवधेनाथवा हन्यात्रज्ज्वा वेणुदलेन वा ॥१२॥

भृशं न ताडयेदेनं नोत्तमाङ्गे न वक्षसि ।
अनुशास्याथ विश्वास्यः शास्यो राज्ञान्यथा गुरुः ॥१३॥

समावृत्तश्च गुरवे प्रदाय गुरुदक्षिणाम् ।
प्रतीयात्स्वगृहानेषा शिष्यवृत्तिरुदाहृता ॥१४॥

स्वशिल्पं इच्छन्नाहर्तुं बान्धवानां अनुज्ञया ।
आचार्यस्य वसेदन्ते कालं कृत्वा सुनिश्चितम् ॥१५॥

आचार्यः शिक्षयेदेनं स्वगृहाद्दत्तभोजनम् ।
न चान्यत्कारयेत्कर्म पुत्रवच्चैनं आचरेत् ॥१६॥

शिक्षयन्तं अदुष्टं च यस्त्वाचार्यं परित्यजेत् ।
बलाद्वासयितव्यः स्याद्वधबन्धौ च सोऽर्हति ॥१७॥

शिक्षितोऽपि कृतं कालं अन्तेवासी समाप्नुयात् ।
तत्र कर्म च यत्कुर्यादाचार्यस्यैव तत्फलम् ॥१८॥

गृहीतशिल्पः समये कृत्वाचार्यं प्रदक्षिणम् ।
शक्तितश्चानुमान्यैनं अन्तेवासी निवर्तयेत् ॥१९॥

भृतकस्त्रिविधो ज्ञेय उत्तमो मध्यमोऽधमः ।
शक्तिभक्त्यनुरूपा स्यादेषां कर्माश्रया भृतिः ॥२०॥

उत्तमस्त्वायुधीयोऽत्र मध्यमस्तु कृषीवलः ।
अधमो भारवाहः स्यादित्येवं त्रिविधो भृतः ॥२१॥

अर्थेष्वधिकृतो यः स्यात्कुटुम्बस्य तथोपरि ।
सोऽधिकर्मकरो ज्ञेयः स च कौटुम्बिकः स्मृतः ॥२२॥

शुभकर्मकरास्त्वेते चत्वारः समुदाहृताः ।
जघन्यकर्मभाजस्तु शेषा दासास्त्रिपञ्चकाः ॥२३॥

गृहजातस्तथा क्रीतो लब्धो दायादुपागतः ।
अनाकालभृतस्तद्वदाधत्तः स्वामिना च यः ॥२४॥

मोक्षितो महतश्चर्णात्प्राप्तो युद्धात्पणे जितः ।
तवाहं इत्युपगतः प्रव्रज्यावसितः कृतः ॥२५॥

भक्तदासश्च विज्ञेयस्तथैव वडवाभृतः ।
विक्रेता चात्मनः शास्त्रे दासाः पञ्चदशा स्मृताः ॥२६॥

तत्र पूर्वश्चतुर्वर्गो दासत्वान्न विमुच्यते ।
प्रसादाद्स्वामिनोऽन्यत्र दास्यं एषां क्रमागतम् ॥२७॥

यश्चैषां स्वामिनं कश्चिन्मोक्षयेत्प्राणसंशयात् ।
दासत्वात्स विमुच्येत पुत्रभागं लभेत च ॥२८॥

अनाकालभृतो दास्यान्मुच्यते गोयुगं ददत् ।
संभक्षितं यद्दुर्भिक्षे न तच्छुध्येत कर्मणा ॥२९॥

आधत्तोऽपि धनं दत्त्वा स्वामी यद्येनं उद्धरेत् ।
अथोपगमयेदेनं स विक्रीतादनन्तरः ॥३०॥

दत्त्वा तु सोदयं ऋणं ऋणी दास्यात्प्रमुच्यते ।
कृतकालाभ्युपगमात्कृतकोऽपि विमुच्यते ॥३१॥

तवाहं इत्युपगतो युद्धप्राप्तः पणे जितः ।
प्रतिशीर्षप्रदानेन मुच्यते तुल्यकर्मणा ॥३२॥

राज्ञ एव तु दासः स्यात्प्रव्रज्यावसितो नरः ।
न तस्य प्रतिमोक्षोऽस्ति न विशुद्धिः कथंचन ॥३३॥

भक्तस्योपेक्षणात्सद्यो भक्तदासः प्रमुच्यते ।
निग्रहाद्वडवायाश्च मुच्यते वडवाभृतः ॥३४॥

विक्रीणीते य आत्मानं स्वतन्त्रः सन्नराधमः ।
स जघन्यतरस्तेषां नैव दास्यात्प्रमुच्यते ॥३५॥

चौरापहृतविक्रीता ये च दासीकृता बलात् ।
राज्ञा मोक्षयितव्यास्ते दासत्वं तेषु नेष्यते ॥३६॥

वर्णानां प्रातिलोम्येन दासत्वं न विधीयते ।
स्वधर्मत्यागिनोऽन्यत्र दारवद्दासता मता ॥३७॥

तवाहं इति चात्मानं योऽस्वतन्त्रः प्रयच्छति ।
न स तं प्राप्नुयात्कामं पूर्वस्वामी लभेत तम् ॥३८॥

अधनास्त्रय एवोक्ता भार्या दासस्तथा सुतः ।
यत्ते समधिगच्छन्ति यस्य ते तस्य तद्धनम् ॥३९॥

स्वदासं इच्छेद्यः कर्तुं अदासं प्रीतमानसः ।
स्कन्धादादाय तस्यापि भिन्द्यात्कुम्भं सहाम्भसा ॥४०॥

अक्षताभिः सपुष्पाभिर्मूर्धन्येनं अवाकिरेत् ।
अदास इति चोक्त्वा त्रिः प्राङ्मुखं तं अथोत्सृजेत् ॥४१॥

ततःप्रभृति वक्तव्यः स्वाम्यनुग्रहपालितः ।
भोज्यान्नः प्रतिगृह्यश्च भवत्यभिमतश्च सः ॥४२॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP