व्यवहारपदानि - प्रकीर्णकम्
स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.
प्रकीर्णके पुनर्ज्ञेया व्यवहारा नृपाश्रयाः ।
राज्ञां आज्ञाप्रतीघातस्तत्कर्मकरणं तथा ॥१॥
पुरप्रदानं संभेदः प्रकृतीनां तथैव च ।
पाषण्डनैगमश्रेणी गणधर्मविपर्ययाः ॥२॥
पितृपुत्रविवादश्च प्रायश्चित्तव्यतिक्रमः ।
प्रतिग्रहविलोपश्च कोप आश्रमिणां अपि ॥३॥
वर्णसंकरदोषश्च तद्वृत्तिनियमस्तथा ।
न दृष्टं यच्च पूर्वेषु तत्सर्वं स्यात्प्रकीर्णके ॥४॥
राजा त्ववहितः सर्वानाश्रमान्परिपालयेत् ।
उपायैः शास्त्रविहितैश्चतुर्भिः प्रकृतैस्तथा ॥५॥
यो यो वर्णोऽवहीयेत यो वोद्रेकं अनुव्रजेत् ।
तं तं दृष्ट्वा स्वतो मार्गात्प्रच्युतं स्थापयेत्पथि ॥६॥
अशास्त्रोक्तेषु चान्येषु पापयुक्तेषु कर्मसु ।
प्रसमीक्ष्यात्मनो राजा दण्डं दण्ड्येषु पातयेत् ॥७॥
श्रुतिस्मृतिविरुद्धं च जनानां अहितं च यत् ।
न तत्प्रवर्तयेद्राजा प्रवृत्तं च निवर्तयेत् ॥८॥
न्यायापेतं यदन्येन राज्ञाज्ञानकृतं च यत् ।
तदप्यन्यायविहितं पुनर्न्याये निवेशयेत् ॥९॥
राज्ञा प्रवर्तितान्धर्मान्यो नरो नानुपालयेत् ।
दण्ड्यः स पापो वध्यश्च लोपयन्राजशासनम् ॥१०॥
आयुधान्यायुधीयानां वाह्यादीन्वाह्यजीविनाम् ।
वेश्यास्त्रीणां अलंकारं वाद्यातोद्यानि तद्विदाम् ॥११॥
यच्च यस्योपकरणं येन जीवन्ति कारुकाः ।
सर्वस्वहरणेऽप्येतान्न राजा हर्तुं अर्हति ॥१२॥
अनादिश्चाप्यनन्तश्च द्विपदां पृथिवीपतिः ।
दीप्तिमत्वाच्छुचित्वाच्च यदि न स्यात्पथश्च्युतः ॥१३॥
यदि राजा न सर्वेषां वर्णानां दण्डधारणम् ।
कुर्यात्पथो व्यपेतानां विनश्येयुरिमाः प्रजाः ॥१४॥
ब्राह्मण्यं ब्राह्मणो जह्यात्क्षत्रियः क्षात्रं उत्सृजेत् ।
स्वकर्म जह्याद्वैश्यस्तु शूद्रः सर्वान्विशेषयेत् ॥१५॥
राजानश्चेन्नाभविष्यन्पृथिव्यां दण्डधारणम् ।
शूले मत्स्यानिवापक्ष्यन्दुर्बलान्बलवत्तराः ॥१६॥
सतां अनुग्रहो नित्यं असतां निग्रहस्तथा ।
एष धर्मः स्मृतो राज्ञां अर्थश्चामित्रपीडनात् ॥१७॥
न लिप्यते यथा वह्निर्दहञ् छश्वदिमाः प्रजाः ।
न लिप्यते तथा राजा दण्डं दण्ड्येषु पातयन् ॥१८॥
आज्ञा तेजः पार्थिवानां सा च वाचि प्रतिष्ठिता ।
ते यद्ब्रूयुरसत्सद्वा स धर्मो व्यवहारिणाम् ॥१९॥
राजा नाम चरत्येष भूमौ साक्षात्सहस्रदृक् ।
न तस्याज्ञां अतिक्रम्य संतिष्ठेरन्प्रजाः क्वचित् ॥२०॥
रक्षाधिकारादीशत्वाद्भूतानुग्रहदर्शनात् ।
यदेव राजा कुरुते तत्प्रमाणं इति स्थितिः ॥२१॥
निर्गुणोऽपि यथा स्त्रीणां पूज्य एव पतिः सदा ।
प्रजानां विगुणोऽप्येवं पूज्य एव नराधिपः ॥२२॥
तपःक्रीताः प्रजा राज्ञा प्रभुरासां ततो नृपः ।
ततस्तद्वचसि स्थेयं वार्ता चासां तदाश्रया ॥२३॥
पञ्च रूपाणि राजानो धारयन्त्यमितौजसः ।
अग्नेरिन्द्रस्य सोमस्य यमस्य धनदस्य च ॥२४॥
कारणादनिमित्तं वा यदा क्रोधवशं गतः ।
प्रजा दहति भूपालस्तदाग्निरभिधीयते ॥२५॥
यदा तेजः समालम्ब्य विजिगीषुरुदायुधः ।
अभियाति परान्राजा तदेन्द्रः स उदाहृतः ॥२६॥
विगतक्रोधसंतापो हृष्टरूपो यदा नृपः ।
प्रजानां दर्शनं याति सोम इत्युच्यते तदा ॥२७॥
धर्मासनगतः श्रीमान्दण्डं धत्ते यदा नृपः ।
समः सर्वेषु भूतेषु तदा वैवस्वतः यमः ॥२८॥
यदा त्वर्थिगुरुप्राज्ञ भृत्यादीनवनीपतिः ।
अनुगृह्णाति दानेन तदा स धनदः स्मृतः ॥२९॥
तस्मात्तं नावजानीयान्नाक्रोशेन्न विशेषयेत् ।
आज्ञायां चास्य तिष्ठेत मृत्युः स्यात्तद्व्यतिक्रमात् ॥३०॥
तस्य वृत्तिः प्रजारक्षा वृद्धप्राज्ञोपसेवनम् ।
दर्शनं व्यवहाराणां आत्मनश्चाभिरक्षणम् ॥३१॥
ब्राह्मणानुपसेवेत नित्यं राजा समाहितः ।
संयुक्तं ब्राह्मणैः क्षत्रं मूलं लोकाभिरक्षणे ॥३२॥
ब्राह्मणस्यापरीहारो राजन्यासनं अग्रतः ।
प्रथमं दर्शनं प्रातः सर्वेभ्यश्चाभिवादनम् ॥३३॥
अग्रं नवेभ्यः सस्येभ्यो मार्गदानं च गच्छतः ।
भैक्षहेतोः परागारे प्रवेशस्त्वनिवारितः ॥३४॥
समित्पुष्पोदकादानेष्वस्तेयं सपरिग्रहात् ।
अनाक्षेपः परेभ्यश्च संभाषश्च परस्त्रिया ॥३५॥
नदीष्ववेतनस्तारः पूर्वं उत्तरणं तथा ।
तरेष्वशुल्कदानं च न चेद्वाणिज्यं अस्य तत् ॥३६॥
वर्तमानोऽध्वनि श्रान्तो गृह्णन्ननिवसन्स्वयम् ।
ब्राह्मणो नापराध्नोति द्वाविक्षू पञ्च मूलकान् ॥३७॥
नाभिशस्तान्न पतितान्न द्विषो न च नास्तिकात् ।
न सोपधान्नानिमित्तं न दातारं प्रपीड्य च ॥३८॥
अर्थानां भूरिभावाच्च देयत्वाच्च महात्मनाम् ।
श्रेयान्प्रतिग्रहो राज्ञां अन्येषां ब्राह्मणादृते ॥३९॥
ब्राह्मणश्चैव राजा च द्वावप्येतौ धृतव्रतौ ।
नैतयोरन्तरं किंचित्प्रजाधर्माभिरक्षणात् ॥४०॥
धर्मज्ञस्य कृतज्ञस्य रक्षार्थं शासतोऽशुचीन् ।
मेध्यं एव धनं प्राहुस्तीक्ष्णस्यापि महीपतेः ॥४१॥
शुचीनां अशुचीनां च संनिपातो यथाम्भसाम् ।
समुद्रे समतां याति तद्वद्राज्ञो धनागमः ॥४२॥
यथा चाग्नौ स्थितं दीप्ते शुद्धिं आयाति काञ्चनम् ।
एवं एवागमा सर्वे शुद्धिं आयान्ति राजसु ॥४३॥
य एव कश्चित्स्वद्रव्यं ब्राह्मणेभ्यः प्रयच्छति ।
तद्राज्ञाप्यनुमन्तव्यं एष धर्मः सनातनः ॥४४॥
अन्यप्रकारादुचिताद्भूमेः षड्भागसंज्ञितात् ।
बलिः स तस्य विहितः प्रजापालनवेतनम् ॥४५॥
शक्यं तत्पुनरादातुं यदब्राह्मणसात्कृतम् ।
ब्राह्मणाय तु यद्दत्तं न तस्य हरणं पुनः ॥४६॥
दानं अध्ययनं यज्ञस्तस्य कर्म त्रिलक्षणम् ।
याजनाध्यापने वृत्तिस्तृतीयस्तु प्रतिग्रहः ॥४७॥
स्वकर्मणि द्विजस्तिष्ठेद्वृत्तिं आहारयेत्कृताम् ।
नासद्भ्यः प्रतिगृह्णीयाद्वर्णेभ्यो नियमेऽसति ॥४८॥
अशुचिर्वचनाद्यस्य शुचिर्भवति पुरुषः ।
शुचिश्चैवाशुचिः सद्यः कथं राजा न दैवतम् ॥४९॥
विदुर्य एव देवत्वं राज्ञो ह्यमिततेजसः ।
तस्य ते प्रतिगृह्णन्तो न लिप्यन्ते द्विजातयः ॥५०॥
लोकेऽस्मिन्मङ्गलान्यष्टौ ब्राह्मणो गौर्हुताशनः ।
हिरण्यं सर्पिरादित्य आपो राजा तथाष्टमः ॥५१॥
एतानि सततं पश्येन्नमस्येदर्चयेच्च तान् ।
प्रदक्षिणं च कुर्वीत तथा ह्यायुर्न हीयते ॥५२॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP