संस्कृत सूची|संस्कृत साहित्य|पुराण|वायुपुराणम्|पूर्वार्धम्|
अध्यायः २९

पूर्वार्धम् - अध्यायः २९

वायुपुराणात खगोल, भूगोल, सृष्टिक्रम, युग, तीर्थ, पितर, श्राद्ध, राजवंश, ऋषिवंश, वेद शाखा, संगीत शास्त्र, शिवभक्ति, इत्यादिचे सविस्तर निरूपण आहे.


योऽसावग्निरभिमानी ह्यासीत् स्वायम्भुवेऽन्तरे।
ब्रह्मणो मानसः पुत्रस्तस्मात्स्वाहा व्यजायत ॥१॥

पावकः पवमानश्च पावमानश्च यः स्मृतः।
शुचिः शौरस्तु विज्ञेयः स्वाहापुत्रास्त्रयस्तु ते ॥२॥

निर्म्मथ्य पवमानस्तु शुचिः शौरस्तु यः स्मृतः.
पावका वैद्युताश्चैव तेषां स्थानानि यानि वै ॥३॥

पवमानात्मजश्चैव कव्यवाहन उच्यते।
पावकात् सहरक्षस्तु हव्यवाहः शुचेः सुतः ॥४॥

देवानां हव्यवाहोऽग्निः पितॄणां कव्यवाहनः।
सहरक्षोऽसुराणान्तु त्रयाणान्तु त्रयोऽग्नयः ॥५॥

एतेषां पुत्रपौत्रास्तु चत्वारिंशन्नवैव तु।
वक्ष्यामि नामतस्तेषां प्रविभागं पृथक् पृथक् ॥६॥

वैद्युतो लौकिकाग्निस्तु प्रथमो ब्रह्मणः सुतः।
ब्रह्मौदनाग्निस्तत्पुत्रो भरतो नाम विश्रुतः ॥७॥

अथर्वा तु भृगुर्ज्ञेयोऽप्यङ्गिराऽथर्वणः सुतः।
तस्मात् स लौकिकाग्निस्तु दध्यङ्चाथर्वणः सुतः ॥९॥

अथ यः पवमानोऽग्निर्निर्मन्थाः कविभिः स्मृतः।
स ज्ञेयो गार्हपत्योऽग्निस्ततः पुत्रद्वयं स्मृतम् ॥१०॥

शंस्यस्त्वाहवनीयोऽग्निर्यः स्मृतो हव्यवाहनः।
द्वितीयस्तु सुतः प्रोक्तः शुक्रोऽग्निर्यः प्रणीयते ॥११॥

तथा मभ्यावसथ्यौ वै शंस्यस्याग्नेः सुतावुभौ।
शंस्यास्तु षोडश नदीश्वकमे हव्यवाहनः।
योऽसावाहवनीयोऽग्निरभिमानी द्विजैः स्मृतः ॥१२॥

कावेरीं कृष्णवेणीञ्च नर्मदां यमुनान्तथा।
गोदावरीं वितस्ताञ्च चन्द्रभागामिरावतीम् ॥१३॥

विपाशां कौशिकीञ्चैव शतद्रुं सरयून्तथा।
सीतां सरस्वतीञ्चैव ह्रादिनीं पावनीं तथा ॥१४॥

तासु षोडशधात्मानं प्रविभज्य पृथक् पृथक् ।
आत्मानं व्यदधात्तासु धिष्णीष्वथ बभूव सः ॥१५॥

धिष्णयो दिव्यभिचारिण्यस्तासूत्पन्नास्तु धिष्णयः।
धिष्णीषु जज्ञिरे यस्माद्धिष्णयस्तेन कीर्त्तिताः ॥१६॥

इत्येते वै नदीपुत्रा धिष्णीष्वेव विजज्ञिरे।
तेषां विहरणीया ये उपस्थेयाश्च येऽग्नयः।
तान् श्रृणुध्वं समासेन कीर्त्यमानान् यथा तथा ॥१७॥

ऋतुः प्रवाहणोऽग्नीध्रः पुरस्ताद्धिष्णयोऽपरो।
विधीयन्ते यथास्थानं सौत्येऽह्नि सवनक्रमात् ॥१८॥

अनिर्द्देश्यान्यवाच्यानामग्नीनां श्रृणुत क्रमम्।
सम्राडग्निः कृशानुर्यो द्वितीयोत्तरवेदिकः ॥१९॥

सम्राडग्निः स्मृता ह्यष्टौ उपतिष्ठन्ति तान् द्विजाः.
अधस्तात्पर्षदन्यस्तु द्वितीयः सोऽत्र दृश्यते ॥२०॥

प्रतद्वोचे नभो नाम चत्वारि स विभाव्यते।
ब्रह्मज्योतिर्वसुर्नाम ब्रह्मस्थाने स उच्यते ॥२१॥

हव्यसूर्य्याद्यसंसृष्टः शामित्रे स विभाव्यते।
विश्वस्याथ समुद्रोग्निर्ब्रह्मस्थाने स कीर्त्त्यते ॥२२॥

ऋतुधामा च सुज्योतिरौदुम्बर्य्यां स कीर्त्त्यते।
ब्रह्मज्योतिर्वसुर्नाम ब्रह्मस्थाने स उच्यते ॥२३॥

अजैकपादुपस्थेयः स वै शालामुखीयकः।
अनुद्देश्योप्यहिर्बुध्न्यः सोऽग्निर्गृहपतिः स्मृतः ॥२४॥

शस्यस्यैव सुताः सर्व्वे उपस्थेया द्विजैः स्मृताः।
ततो विहरणीयांश्च वक्ष्याम्यष्टौ तु तत्सुतान् ॥२५॥

क्रतुप्रवाहणोऽग्नीध्रस्तत्रस्था धिष्णयोऽपरे।
विह्रियन्ते यथास्थानं सौत्योह्नि सवनक्रमात् ॥२६॥

पौत्रेयस्तु ततो ह्यग्निः स्मृतो यो हव्यवाहनः।
शान्तिस्वाग्निः प्रचेतास्तु द्वितीयः सत्य उच्यते ॥२७॥

तथाग्निर्विश्वदेवस्तु ब्रह्मस्थाने स उच्यते।
अवक्षुरच्छावाकस्तु बुवः स्थाने विभाव्यते ॥२८॥

उशीराग्निः सवीर्यस्तु नैष्ठीयः संविभाव्यते।
अष्टमस्तु व्यरत्तिस्तु मार्जालीयः प्रकीर्त्तितः ॥२९॥

धिष्ण्या विहरणीया ये सौम्येनान्येन चैव हि।
तयोर्यः पावको नाम स चापां गर्भ उच्यते ॥३०॥

अग्निः सोऽवभृथो ज्ञेयः सम्यक् प्राप्याप्सु हूयते।
हृच्छयस्तत्सुतो ह्यग्निर्जठरे यो नृणां स्थितः ॥३१॥

मन्युमान् जाठरस्याग्नेर्विद्वानग्निः सुतः स्मृतः।
परस्परोच्छ्रितः सोऽग्निर्भूतानां ह विभुर्महान् ॥३२॥

पुत्रः सोऽग्नेर्मन्युमतो घोरः संवर्त्तकः स्मृतः ।
पिबन्नपः स वसति समुद्रे वढवामुखः ॥३३॥

समुद्र वासिनः पुत्रः सहरक्षो विभाव्यते।
सहरक्षसुतः क्षामो गृहाणि स दहेन्नॄणाम् ॥३४॥

क्रव्यादोऽग्निः सुतस्तस्य पुरुषानत्ति यो मृतान् ।
इत्येते पावकस्याग्नेः पुत्रा ह्येवं प्रकीर्तिताः ॥३५॥

ततः शुचेस्तु यैः सौरेर्गन्धर्वैरसुरावृतैः।
मथितो यस्त्वरण्यां वै सोऽग्निरग्निः समिध्यते ॥३६॥

आयुर्नामाथ भगवान् पशौ यस्तु प्रणीयते।
आयुषो महिमान् पुत्रः स शावान्नामतः सुतः ॥३७॥

पाकयज्ञेष्वभिमानी सोऽग्निस्तु सवनः स्मृतः।
पुत्रश्च सवनस्याग्नेरद्भुतः स महायशाः ॥३८॥

विविचिस्त्वद्भुतस्यापि पुत्रोऽग्नेः स महान् स्मृतः।
प्रायश्चित्तेऽथ भीमानां हुतं भुह्क्ते हविः सदा ॥३९॥

विविचेस्तु सुतो ह्यर्को योऽग्निस्तस्य सुतास्त्विमे।
अनीकवान् वासृजवांश्च रक्षोहा पितृकृत्तथा।
सुरबिर्वसुरत्नादौ प्रविष्टो यश्च रुक्मवान् ॥४०॥

शुचेरग्नेः प्रजा वह्नयस्तु चतुर्द्दश।
इत्येते वह्नयः प्रोक्ताः प्रणीयन्तेऽध्वरेषु ये ॥४१॥

आदिसर्गे ह्यतीता वै यामैः सह सुरोत्तमैः।
स्वायम्भु वेऽन्तरे पूर्वमग्नयस्तेऽभिमानिनः ॥४२॥

एते विहरणीयास्तु चेतनाचेतनेष्विह।
स्थानाभिमानिनो लोके प्रागासन् हव्यवाहनाः ॥४३॥

काम्यनैमित्तिकाजस्रेष्वेते कर्मस्ववस्थिताः।
पूर्वमन्वन्तरेऽतीते शुक्लैर्यामैः सुतैः सह।
देवैर्महात्मभिः पुण्यैः प्रथमस्यान्तरे मनोः ॥४४॥

इत्येतानि मयोक्तानि स्थानानि स्थानिनश्च ह ।
तैरेव तु प्रसङ्ख्यातमतीतानागतेष्वपि ॥४५॥

मन्वन्तरेषु सर्वेषु लक्षणं जातवेदसाम्।
सर्वे तपस्विनो ह्येते सर्वे ह्यवभृथा स्तथा।
प्रजानां पतयः सर्वे ज्योतिष्मन्तश्च ते स्मृताः ॥४६॥

स्वारोचिषादिषु ज्ञेयाः सावर्ण्यन्तेषु सप्तसु।
मन्वन्तरेषु सर्वेषु नानारूपप्रयोजनैः ॥४७॥

वर्त्तन्ते वर्त्तमानैश्च देवैरिह सहाग्नयः।
अनागतैः सुरैः सार्द्धं वर्त्तन्तेऽनागताग्नयः ॥४८॥

इत्येष निनयोऽग्नीनां मया प्रोक्तो यथातथम्।
विस्तरेणानुपूर्व्या च पितॄणां वक्ष्यते ततः ॥४९॥

इति श्रीमहापुराणे वायुप्रोक्ते अग्निवंशवर्णनं नामोनत्रिंशोऽध्यायः ॥२९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP