श्रावणमास: - वरलक्ष्मीकथा
सर्व जगतात हिंदू धर्माची व्याख्या होते ती, धर्मातील उपासना आणि उत्सवप्रियतेमुळे, आणि यांना जोड असते व्रत-वैकल्याची आणि धार्मिक पूजेची.
॥ अथ वरलक्ष्मीकथाप्रारम्भ: ॥
सूत उवाच । कैलासशिखरे रम्ये सर्वदेवनिषेविते । गौर्या सह महादेवो दिव्याक्षैश्च विनोदित: ॥ जितोऽसि त्वं जितेत्याह पार्वतीपरमेश्वरौ । सोऽपि त्वं च जितेत्याह सुविवादस्तयोरभूत ॥ चित्रनेमिस्तदा पृष्टो मृषा वादमभाषत ॥ गौरी कोपसमाविष्टा तदा शापं ददौ तु तम् ॥ कुष्ठी भव मृषा वादिन् चित्रनेमे हतक्रिय । नानृतेन समं पापं क्वापि द्दष्टं श्रुतं न हि ॥ चित्रनेमि र्महाप्राज्ञ: सत्यं वदति नो मृषा । प्रसाद: क्रियतां च जगाद सा । यदा सरोवरे रम्ये करिष्यसि तप: शुचि: ॥ तत: स्वर्गणिका: सर्वा: वक्ष्यन्ति त्वां समागता: । तदा भवान् विशाप: स्यादित्युक्त: स पपात ह ॥ ततो दिनैश्च कतिभिश्चित्रनेमि: सरोवरे । कुष्ठी भूत्वा वसंस्तत्र ददर्श स्वर्विलासिनी: ॥ देवतापूजनोद्युक्ता: पप्रच्छ प्रणिपत्य ता: । किमेतद्भो महाभागा: किं पूजायां तु वाञ्छितम ॥
किं चास्माभिरनुष्ठेयमिडामुत्र सुखाय च । इति प्रश्नं चित्रनेमिश्चक्रेऽथ च सुलोचन: ॥ येनास्मादु गिरिजाशापान्मोक्ष्यामि चिरदु:खितात् । ता ऊचु: क्रियतेऽस्मामिर्व्रतम्रे तदनुत्तमम् ॥ वरलक्ष्मीव्रतं दिव्यं सर्वकामसमृद्धिदम् । यदा रवौ कुलीरस्थे मासे च श्रावणे तथा ॥ गङ्गायमुनयोर्योगं तुङ्गभद्रासमं तदा । तस्मिन् वै श्रावणे मासि शुक्लान्ते तु भृगोर्दिने ॥ प्रारब्धव्यं व्रतं तत्र महालक्ष्म्या यतात्मभि: । सुवर्णप्रतिमां कुर्याञ्चतुर्भुजसमन्विताम् ॥ पूर्वं गृहमलङकृत्य तोरणै रङ्गवल्लिभि: । गृहस्य पूर्वदि ग्भागे ईशान्यां च विशेषत: ॥ तण्डुलान्प्रस्थसङख्याकान् भूमौ निक्षिप्य पूजयेत् । फलानि च विनिक्षिप्य सुवणें प्रक्षिफ्तेत: ॥ षल्लवांश्च विनिक्षिप्य वस्त्रेणाच्छाद्य यत्नत: । प्रतिमां स्थापयेत्तत्र पूजयेञ्च यथाविधि । अग्न्युत्तारणपूर्वं तु शुद्धस्नानं यथाक्रमम् । पञ्चामृतेन स्नपनं कारयेन्मन्त्रत: सुधी: ॥ शुद्धस्नानं तत: कृत्वा देवीसूक्तेन वै तत: । अष्टगन्धै: समभ्यर्च्य पल्लवैश्च समर्पयेत् ॥ अश्वत्थवटबिल्वादिचूतदाडिममालती: । एतेषां पत्रमादाय एकविंशतिसङ्ख्यया ॥ नानाविधानि पुष्पाणि मालत्यादीनि वै तत: । धूपदीपैर्महालक्ष्मीं पूजयेत्सर्वकामदाम् ॥ पायसं सर्वमन्नं च सर्वभक्ष्यैश्च संयुतम् । एकर्विशतिसङख्याकैरपूपै: पूजयेच्छिवाम् ॥ देव्यै सर्वं समर्प्याथ वरं च वृणुयात्तत: । एवं सम्पूजयित्वा ता ताम्बूलाद्यैश्च षोडश ॥ उपचारै: षोडशभिर्बहुभिर्विविधैस्तथा । नृत्यगीतादिसहितां देवी सम्प्रार्थयेछियम् ॥ उमा सरस्वती धात्री शची च प्रियवादिनी । एताभिश्च कृतं सम्यग्व्रतं सर्वसमृद्धिदम् ॥ पूजावसानपर्यन्तं चित्रतत्समाहृतम् । आचम्यतां महादेव्य: पुत्रपौत्रप्रवर्धिका: ॥ आचमनीयं० । पयो दधि घृतं चैव शर्करा शर्करा मधुसंयुतम् । पञ्चामृतं मया दत्तां स्नानार्थं प्रति० ॥ पञ्चामृतस्नानं० । गङ्गा च यमुना चैव नर्मदा च सरस्वती । तोयमेतत्सुखस्पर्शं स्नानार्थं प्रति० ॥ मलापकर्षस्नानं० । तत: पञ्चोपचारपूजां कृत्वा अभिषेक: कार्य: । सूक्ष्मतन्तुमयानीह निर्मलानि शुभानि च । वासांसि प्रतिगृह्णीत दिव्ययोगिपुर:सरा: ॥ वस्त्राणि स० । भास्करोदयवर्णाभा; कञ्चुकीश्च मनोहरा: । दास्यामि प्रीतये देव्य: स्वीकुरुध्वं मयार्पिता: ॥ कञ्चुकी:० । हरिद्रां कुङ्कुमं चैव कण्ठसूत्रं च ताडकम् । सिन्दूरं कज्जलं चारुषट सौभाग्यं प्रगृह्यताम् । सौभाग्यद्रव्यं० ॥ अम्भोजमालतीजातीकुरण्टमुनिचम्पकान् । माल्यार्थे प्रतिगृह्णीत दिव्ययोगिपुर:सरा: ॥ पुष्पाणि० । भूतप्रेतपिशाचादिभवभीतिविनाशिका: । नानापरिमलो धूपो ग्राह्यस्त्रैलोक्यमातर: ॥ धूपं० । मार्तण्डमण्डलाखण्डचन्द्रबिम्बाग्नितेजसाम् । निधानं दिव्यदीपोऽयं ग्राह्य० ॥ दीपं० । नैवेद्यं गृह्यतां देव्यो भक्तिं कुरुत चाचलाम् । क्रुरुध्वमीप्सितं कामं परत्र च परां गतिम् ॥ नैवेद्यं० ॥ उत्तरापो० । करोद्वर्तनं० । इदं फलं० फलं० । पूगीफलं मह० ताम्बूलं० । हिरण्यगर्भ० दक्षिणां० । चन्द्रादित्यौ च धरणी विद्युदग्निस्तथैव च । त्वमेव सर्वज्योतीषि आर्तिक्यं प्रति० । आर्तिक्यदीपं स० । आयुषा च मुदा युक्ता: कुरुतानन्यकाम्यया । पूजिता: पूजयन्त्यो मां कृपायुक्ता भविष्यथ ॥ पुष्पाञ्जलिं० ॥ यानि कानि० प्रदक्षिणां० । नमोऽस्तु वश्चतुःषष्टिदेवीभ्य: शरणं व्रजे । पुत्रश्रीवृद्धिकामाहं भक्त्या सम्पूजिता: दत: ॥ महादेवस्तत: प्राह चित्रनेमे शुचिव्रत । अद्यप्रभृति कैलासे भुङ्क्ष्व भोगान् यथेप्सितान् ॥ पश्चाद गन्तासि वैकुण्ठं व्रतस्यास्य प्रभावत: । पार्वत्यापि कृतं पूर्वं पुत्रलाभार्थया तया ॥ द्दष्टश्च षण्मुखस्तेन ततश्च सुमह्राव्रत: । नलराज्ञा विक्रमेण राज्यं प्राप्तं तदाज्ञया ॥ नन्दी च कान्तया हीनो कान्ता लब्धा प्रसादत: । तया च तद वतं कृत्स्नं कृतं वै पुत्रहेतुत: ॥ पुत्रं प्रसुषुवे साऽत्र त्रिलोकभरणक्षमम् । इदं मानुष्यलोके हि वतं चीर्णं सुविस्तरम् ॥ तदाप्रभृति येनैवं वरलक्ष्मीवतं श्रुतम् । वतं पुण्यं नरो वापि कुर्याच्चैतत्तथाङ्गना ॥ भक्त्या करोति विपुजान् भोगान् प्राप्य श्रियं वजेत । वतानामुत्तमं पुण्यं वरलक्ष्मीवतं शुभम् ॥ तदवती च नरो नारी फलमाप्नोत्यसंशयम् । य इदं श्रृणुयान्नित्यं श्रावयेद्वा समाहित: ॥ धन धान्यमवाप्नोति वरलक्ष्मीप्रसादत: ॥
॥ इति श्रीभविष्योत्तरपुराणे वरलक्ष्मीकथा समाप्ता ॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP