श्रावणमास: - पिठोराव्रताङ्गोवृषपूजाविधि:
सर्व जगतात हिंदू धर्माची व्याख्या होते ती, धर्मातील उपासना आणि उत्सवप्रियतेमुळे, आणि यांना जोड असते व्रत-वैकल्याची आणि धार्मिक पूजेची.
॥ अथ पिठोराव्रतकथाप्रारम्भ: ॥
इन्द्राण्युवा० । अपुत्रा लभते पुत्रं परत्र च महत्फलम् । व्रतानां परमं श्रेष्ठं कथय त्वं हि पार्वति ॥ पार्वत्युवा० ॥ प्राचीन: श्रीधरो विप्रो ह्यष्टपुत्रो धनेश्वर: । तस्य भार्या सुमित्रा च गृहधर्मण्यवर्तत ॥ श्रीधरस्य सुतो ज्येष्ठ: शङकरो नाम नामत: । तस्य भार्या विदेहा च मृतापत्याभवत्तदा ॥ श्रीधरस्य पितु: श्राद्धे विदेहा चाप्रसूयत । दुःखयुक्ता सुमित्रा च विदेहां पर्यवर्जयत् ॥ दुःखयुक्ता वनं प्राप्ता मठमेकं ददर्श सा ॥ सरिच्च प्रबला यत्र विदेहा तत्र सा गता ॥ मठमध्ये स्थितां नारीं पश्यन्ती च पुन: पुन: । कुत्रेयमधुना प्राप्ता लक्षणान्वितसुन्दरी ॥ मठाधिपाविचार्यैवं विदेहां प्राह सत्वरम् । भोटिङ्गैर्यक्षवेतालैरनेकै: स्थीयते शुभे ॥ त्वां ग्रसिष्यन्ति सकला गच्छ शीघं यथागतम् ॥ विदेहोवाच । दुःखयुक्ता ह्यहं देवि प्रयामि च वनान्तरम् । मां चेद् ग्रसन्ति भोटिङ्गा क्षेमं मम भवेत्तदा ॥ मठनार्युवाच । अत्र देव्यश्चतु:षष्टिदिव्ययोग्यादय:शुभा: । पूजनार्थं समायान्ति निशामध्ये शुभा:स्थिता: ॥ बिल्वपत्रेषु गुप्ता त्वमधुना भव भामिनि । अतिथिप्राप्तकाले च ब्रूहि त्वमिह संस्थिता ॥ तव कामं प्रकुर्वन्ति जीविष्यन्ति च बालका: । लुप्ता तत्र विदेहा च बिल्वपत्रेषु संस्थिता ॥ क्षणेनैकेन भोटिङ्गा मठमध्ये समागता: । ज्ञात्वा मनुष्यगन्धं च मठनारीमपृच्छत ॥ कुतो मनुष्यगन्धश्च समायाति वदस्व तम् ॥ मठनार्यु० । भवतामेव भ्रान्तिश्च जातेत्येवं तु वञ्चिता: । निशामध्ये चतु:षष्टिदेव्यस्तत्र समागता: ॥ अनेकैश्व महारत्नै: फलैर्नानाविधैरपि । निविष्टा:पीठदेवीनामाह्नानं कुर्वतेस्म हि ॥ श्रावणस्य तु मासस्य कृष्णपक्षे कुहूतिथौ । पूजां कृत्वा चतु:षष्टिरतिथीन्ब्रुवतेस्म हि ॥ वदतेस्म मनुष्या सा लुप्ताथ प्रकटाभवत् । ममाशुचित्वमापन्नं मातर्मे बालकं मृतम् ॥ तवाग्रे मृतमादाय स्थितास्मीति च बालकम् । सप्तगर्भाश्चतु:षष्टि सजीवाश्च भवन्त्वित: ॥ तत्र स्थितं च नैवेद्यं सा नारी प्रतिगृहय च । चतु:षष्टिस्ततस्तुष्टा ददौ तस्यै शुभं वरम् ॥ श्रीधरस्य स्नुषा त्वं हि शङ्करस्य च वल्लभा । पुत्रपौत्रयुता राज्यं भुक्त्वा पूज्या सुरालये ॥ अष्टपुत्रा भवन्त्वाशु विदेहे गम्यतां पुरम् । आगता येन मार्गेण तेनैव पुनरेव हि ॥ पुरान्तरं स्थिता गत्वा प्रविवेशस्व मन्दिरम् । श्रीधरश्च सुमित्रा च शङकरो बान्धवै:सह ॥ विदेहा चाष्टपुत्रैश्च युक्ता सा मङ्गलोत्सवै: । प्रापुर्मुदं महाभागा देवीनां च प्रसाद्त: ॥ द्विजमन्त्रादिनिर्घोषैर्दुन्दुभीनां च नि:स्वनै: । मृगाक्षी मङ्गलाचारैर्मुदङ्गैर्नृत्यघोषकै: ॥ तया सम्पूजिता देव्यश्चतु:षष्टय: प्रकीर्तिता: । तद् व्रतं श्रृणु चेन्द्राणि पिठोराख्यं कुहूतिथौ । तासां स्मरणमात्रेण पुत्रपौत्रधनान्विता ॥ नारी भवति चेन्द्राणि श्रृणु त्वं नामपूजनम् । दिव्ययोगी महायोगी सिद्धयोगी गणेश्वरी ॥ प्रेताक्षी डाकिनी काली कालरात्रिर्निशाचरी । भङ्कारी रौद्रवेताली हिङकरी भूतडाम्बरी ॥ ऊर्ध्वकेशी विरूपाक्षी शुष्काङ्गी नरभोजनी । ईश्वरी वीरभद्रा च धूम्राक्षी कलहप्रिया ॥ राक्षसी घोररक्ताक्षी विश्वरूपा भयङकरी । चण्डिका वीर कौमारी वाराही मुण्डधारिणी ॥ भासुरी रौद्राभङ्कारी भीषणा त्रिपुरान्तका । भैरवी ध्वंसिनी क्रोधी दुर्मुखी प्रेतवाहिनी ॥ खटवाङगी दीर्घलम्बोष्ठी मालिनी मन्त्रयोगिनी । कालाग्निग्रहणी दुर्गा कङकाली भुवनेश्वरी ॥ कण्टकी त्रोटिनी रौद्री यमदूती करालिनी । घोराक्षी कार्मुकी चैव काकद्दष्टिरधोमुखी ॥ मुण्डोग्रधारिणी व्याघ्री किङ्किणी प्रेतभक्षिणी । कालरूपा च कामाख्या चोड्राणी योगपीठिका ॥ महालक्ष्मीश्चैकवीरा कालरात्री च पीठिका । नमोऽस्तु वश्चतु:षष्टिदेवीभ्य: शरणं व्रजे ॥ पुत्रश्रीवृद्धिकामाहं भक्त्या सम्पूजिता:शुभा:। एवमिन्द्राणि कथितं पिठोराख्यं महद व्रतम् ॥ भक्त्या कुर्वन्ति या नार्य: कृतकृत्या भवन्ति ता: । सुखसौभाग्यसंयुक्ताश्चतु:षष्टया: प्रसादत: ॥ इति श्रीभविष्योत्तरपुराणे पिठोराव्रतकथा समासा ॥
॥ अथ पिठोराव्रताङ्गोवृषपूजाविधि: ॥
आचम्य देशकालौ स्मृत्वा मम गोधनवृद्धिद्वारा सकलैश्वर्याद्यभिवृद्धयर्थं पिठोराव्रताङ्गभूतं मृन्मयगोवृषपूजनमहं करिष्ये । गणपतिपूजनादिप्रोक्षणान्तं विधाय, ऋषभंमासमानानामिति वैदिकमन्त्रेण गोसहितवृषभेभ्यो नम इति नाममन्त्रेण वा षोडशोपचारै: सम्पूजयेत् । अनेन पूजनेन गोसहितवृषभा: प्रीयन्ताम् । प्रत्यक्षगोवृषपूजनमपि कुर्यात् । तेषाण श्रृङ्गेषु स्वर्णरौप्यपट्टिकाबन्धनं कौशेयगुच्छबन्धनं च कुर्यात् । विचित्रवर्णैर्णस्त्रैस्तेषां पृष्ठमाच्छादयेत् । गलेषु रम्यशब्दितां घण्टां बध्वा दिनाष्टमभागे बहिर्नीत्वा सायं ग्रामं प्रवेशयेत् । तत: पिण्याकं नानाविधं चान्नं नैवेद्यं दद्यात् । एतत्करणेन गोधनवृद्धिर्भवति ॥
॥ अथ पिठोराव्रताङ्गउमामहेश्वरपूजनविधि: ॥
विस्तीर्णे कुडये ताम्रेण कृष्णेन सितेन वा विलिप्य, तदुपरि पोतेन विभिन्नवर्णेन वा मध्ये शिवासहितं शिवलिङ्गं मूर्तिं वा विलिख्य, सर्वं संसारोपकरणं चतु:शालापाकागारदेवागारादि यावच्छक्यं विलिखेत् । देशकालौ० मम सर्वमनोरथपरिपूर्त्यर्थं उमामहेश्वरादिसर्वलिखितसांसारिकोपकरणवस्तुमात्रपूजनं करिष्ये । तत: उमामहेश्वरादिसर्वदेवताभ्यो नम इति षोडशोपचारै:सम्पूज्य, शिव साम्ब दयासिन्धो गिरीश शशिशेखर । व्रतेनानेन सन्तुष्ट: प्रयच्छास्मन्मनोरथान् ॥ इति सम्प्रार्थ्य, यस्य स्मृत्या० । अनेन पूजनेन श्रीउमामहेश्वरादय: प्रीयन्ताम् ॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP