भाद्रपदमास: - मुक्ताभरणपूजाविधिः

सर्व जगतात हिंदू धर्माची व्याख्या होते ती, धर्मातील उपासना आणि उत्सवप्रियतेमुळे, आणि यांना जोड असते व्रत-वैकल्याची आणि धार्मिक पूजेची.


॥ भाद्रपदशूक्लसप्तम्यां मुक्ताभरणपूजाविधिः ॥
सप्तमी च मध्याह्नव्यापिनी ग्राह्या । दिनद्वये तदव्याप्तौ अव्याप्तौ वा परा । नद्यादौ स्नात्वा गृहमागत्य गोमयादिलिप्ते शुद्धदेशे रङ्गवल्ल्यादिभिरलङ्कृते मण्डलं विधाय तदुपरि चन्दनादिना उमासहितं शिवं विलिख्य पूजयेत्‌ ॥ अथ पूजाविदि: ॥ आचम्य देशकालौ सङ्कीर्त्य, मम इह जन्मनि अखिलपापक्षयपूर्वकअखण्डितसन्ततिपुत्रपौत्रधनधान्यसौख्यातिशयद्वारा श्रीउमामहेश्वरप्रीत्यर्थं मुक्ताभरणवताङ्गभूतं यथामिलितोपचारद्रव्यै: षोडशोपचारपूजनमहं करिष्ये । तदङ्गं गणपतिपूजनादि करिष्ये । गणपतिपूजनादिकलशाराधनान्तं कृत्वा, अपवि० पूजासम्भारान्‌ प्रोक्ष्य, तत: ध्यानादिपुष्पाञ्जलिपर्यन्तं श्रावणसोमवारोक्तशिवपूजावत्‌ पूजां कुर्यात्‌ । तत: प्रार्थना महादेव महाराज प्रीत्या पापप्रणाशन । अस्माकं क्रुर्वतां पूजा भवता साधु योजिता ॥ ज्ञानतोऽज्ञानतो वापि भवतो विहिता च या । सम्पूर्णा सा तु विश्वेश विमला त्वत्प्रसादत: ॥ इति सम्प्रार्थ्य, ततो देवस्य पुरत: सौवर्णं राजतं सौत्रं वा दोरकं निधाय, सम्पूज्य, देवदेव जगन्नाथ सर्वसौभाग्यदायक । गृह्लीयां दोरकं रूपं पुत्रपौत्रप्रवर्धनम्‌ ॥ इति मन्त्रेण गृहीत्वा, सप्त  सामोपवीतं त्वां धारयामि जगदगुरो । सूत्रग्रन्थिस्थितं नित्यं धारयामि स्थिरो भव ॥ इति मन्त्रेण वामहस्ते बघ्नीयात‌ ॥ तत:--- दह सर्वाणि पापानि तुर्ष्टि कुरु दयानिधे । प्रसन्न: सन्नुमाकान्त दीर्घायुष्पुत्रदो भव ॥ इति मन्त्रेण जीर्णदोरकं उत्तारयेत्‌ । यस्य स्मृ० । अनेन पूजनेन श्रीउमामहेश्वरौ प्रीयेताम्‌ । अद्य० र्थं, पूजासाङ्गतासिध्यर्थं ब्राह्मणाय एकादशसङ्ख्याकमण्डकवायनदानं करिष्ये । तदङ्गं ब्राह्मणपू० । आसनादिना पूजां कृत्वा, स्वस्त्यस्तु, दी० । शङ्कर: प्रतिगृह्लाति शङ्करो वै ददाति च । शङ्करस्तारकोभाभ्यां शङ्कराय नमो नम: ॥ इमान्‌ एकादशसङख्याकान्‌ मण्डकान्‌ सघृतान्‌ सफलान्‌ दक्षिणायुतान्‌ वेदशास्त्रप्रवीणाय कुटुम्बिने ब्राह्मणाय तुभ्यमहं सम्प्रददे । प्र०,प्र० । अनेन वायनदानेन श्रीउमामहेश्वरौ प्रीयेताम्‌ ॥

॥ अथ मुक्ताभरणव्रतकथाप्रारम्भ: ॥

श्रीकृष्ण उवाच ॥ मुनीन्द्रो लोमशो नाम मथुरायां गत: पुरा । सोऽर्चितो वसुदेवेन देवक्या च युधिष्ठिर ॥ उपविष्ट: कथा: पुण्या: कथयित्वा मनोरमा: । तत: कथयितुं भूय: कथामेनां प्रचक्रमे ॥ कंसेन ते हता: पुत्रा जाता जाता: पुन: पुन: । मृतवत्सा देवकि त्वं पुत्रदुःखेन दुःखिता ॥ यथा चान्द्रमुखी दीना बभूव नहुषप्रिया । पश्चाच्चीर्णव्रता चैव बभूवाक्षतवत्सका ॥ त्वमपि देवकि तथा भविष्यसि न संशय: । देवक्युवाच । कासीच्चन्द्रमुखी बह्मन्‌ बभूव नहुषप्रिया ॥ किं चिर्णं हि व्रतं दिव्यं तया सन्ततिवर्धनम्‌ । सपत्नदर्पदमनं सौभाग्यारोग्यदं विभो ॥ लोमश उवाच ॥ अयोध्यायां पुरा राज्य नहुषो नाम विश्रुत: । तस्य स्त्री रूपसम्पन्ना देवी चन्द्रमुखी प्रिया ॥ तथा तस्वैव नगरे विष्णुगुप्तोऽभवद द्विज: । आसीद गुणवती तस्य पत्नी भद्रमुखी तथा ॥ तयोरासीदतिप्रीति: स्पृहणीया परस्परम्‌ । अथ ते द्वे अपि सख्यौ स्नानार्थं शरयूजले । प्राप्ते प्राप्ताश्च तत्रैव बह्वयो वै नगराङ्गना: । ता: स्नात्वा मण्डलं चक्रुस्तन्मध्येऽव्यक्तरूपिणम्‌ । लेपयित्वा शिव शान्तमुमया सह शङ्करम्‌ ॥ गन्धपुष्पाक्षतैर्भक्त्या पूजयित्वा यथाविधि । प्रणम्य गुन्तुकामास्ता: पप्रच्छतुरुभे स्त्रियौ ॥१०॥
ता ऊचु: ॥ अस्माभि: शङ्करो देव:पार्वत्या सह पूजित: । बध्वा सूत्रमयं तन्तुं शिवस्यात्मा निवेदित: ॥ धारणीयमिदं तावद्यावत्प्राणविधारणम्‌ । तासां तद्वचनं श्रुत्वा सख्यौ ते चापि देवकि ॥ कृत्वा च उभयं तत्र बध्वा दोर्भ्यां सुदोरकम्‌ । ततस्ताश्च गृहं जग्मु: स्वसखीभि: समावृता: ॥ कालेन महता तस्यास्तद व्रतं विस्मृं शुभम । चन्द्रमुख्या: प्रमत्ताया विस्मृत: स तु दोरक: ॥ भद्रमुख्यास्तथा भद्रे विस्मृतं सर्वमेव तत्‌ । मृता कैश्चिदहोरात्रै: सा बभूव प्लवङ्गमी ॥ भद्राख्या कुक्कुटी जाता व्रतभङ्गाच्छुभानने । सम्भूय भूय: समयं प्राक वतं चक्रतु: सदा ॥ कालेन पञ्चतां प्राप्ते सखीभावात्सहैव ते । अदैवमातृके देशे जाता गोकुलसंज्ञके ॥ भद्राख्या ब्राह्मणी जाता यासीच्चन्द्रमुखी परा । नाम्ना भद्रमुखी या सा भूषणा नाम साऽभवत्‌ ॥ अग्निमीळाय सा दत्ता पित्रा तस्य पुरोधसे । अतीव वल्लभा चासीद भूषणाऽऽभूषणप्रिया ॥ भूषिता भूषणवरै रूपेणालङ्कृता स्वयम्‌ । तस्यां बभूवुरष्टौ च पुत्रा: सर्व गुणान्विता: ॥२०॥
मातृवद्रूपसम्पन्ना: पितृवद्धर्मशालिन: । सख्यौ ते तेन तद्वच्च जाते जातिस्मरे किल ॥ पुनर्निरन्तराप्रीतिस्तयोरासीद्यथा पुरा । काले बहुतिथे जाते जाता सन्त्यक्तयौवना ॥ मध्ये वयसि राज्ञी सा पुत्रमेकमजीजनत्‌ । ईश्वरी रोगिणं मूकं प्रज्ञाहीनं च विस्वरम्‌ ॥ ताद्दशो‍ऽपि महाभागे मृतोऽसौ नववार्षिक: । ततस्तां भूषणा द्रष्टुमीश्वरी पुत्रदु:खिताम्‌ ॥ सखीभावादतिस्नेहात्पुत्रै: स्वै: परिवारिता । अमुक्ताभरणा भद्रा स्वरूपेणैव भूषिता ॥ सा हि भद्रा द्विजस्याभूद्भार्या भूषणनामिका । पुरा हि तस्या: कालेन कुक्कुटी बहु पुत्रिणी ॥ तां द्दष्ट्वा ताद्दशी भव्यां प्रजज्वालेश्वरी रुषा । ततो गृहं प्रेषयित्वा ब्राह्मणी ताममत्सराम्‌ ॥ चिन्तयामास सा शीघ्रं तस्या: पुत्रवधं प्रति । निश्चित्य चेतसा क्रूरा घातयामास तत्सुतान्‌ ॥ हता हताश्च ते पुत्रा: पुनर्जीवन्त्यनामया: । तदद्‌भुततरं द्दष्ट्वा सखीमाहूय भूषणाम्‌ ॥ उपविश्यासने श्रेष्ठे बहुमानपुर:सरम्‌ । अपृच्छद्विस्मयाविष्टा राज्ञी तां नृपबल्लभा ॥३०॥
ब्रूहि तथ्यं महाभागे किं त्वया सुकृतं कृतम्‌ । दानं वतं तपो वापि शुश्रूषणमुपोषणम्‌ ॥ येन ते निहता: पुत्रा: पुनर्जीवन्त्यनामया: । तथा हि बहुपुत्रा च जीवद्वत्सा शुभानना ॥ अमुक्ताभरणा नित्यं भर्तुश्चेतस्यवस्थिता । अतीव शोभसे भद्रे विद्युदेव यथाम्बरे ॥ भूषणोवाच ॥ श्रृणु देवि प्रवक्ष्यामि जन्मान्तरविचेष्टितम्‌ । किं तद्धि विस्मृतं सर्वमयोध्यायां कृतं हि यत्‌ ॥ आवाभ्यां व्रतवैकल्यं प्रमत्ताभ्यां वरानने । येन त्वं प्लवगी जाता जाताहं कुक्कुटी तथा ॥ तथापि वतवैकल्यं त्वया चापल्यत: कृतम्‌ । मया तु सर्वभावेन चेतसाध्याय शङ्करम्‌ ॥ तिर्यग्योन्यनुसारेण मनोवृत्या ह्यनुष्ठितम्‌ । एतद्धि कारणं भद्रे नान्यत्किञ्चित्करोम्यहम्‌ ॥ लोमश उवा० ॥ इत्याकर्ण्य वच: स्मृत्वा पूर्वजन्मविचेष्टितम्‌ । ईश्वरी च तया सार्द्धं पुन: सम्यक चकार ह ॥ व्रतस्यास्य प्रभावेण पुत्रपौत्रादिसम्भवम्‌ । भुक्त्वा तु सौख्यमतुलं मृता शिवपुरं गता ॥ तस्मात्त्वमपि कल्याणि वतमेतत्समाचर । आरब्धेऽस्मिन्वते दिव्ये जीवत्पुत्रा भविष्यसि ॥४०॥
देवक्युवाच ॥ ब्रह्मन्नाख्या हि मे सम्यक व्रतमेतत्सुखप्रदम्‌ । सन्तानवृद्धिकरणं शिवलोकस्थितिप्रदम्‍ ॥ लोमश उ० ॥ भद्रे भाद्रपदे मासि सप्तम्यां सलिलाशये । स्नात्वा शिवं मण्डलके लेखयित्वा सहाम्बिकम्‌ ॥ तत्र सम्पूज्य समयं कुर्याद बध्वा करे गुणम्‌ । यावज्जीवं मयात्मा तु शिवस्य निनिवेदित: ॥ इत्येवं समयं कृत्वा तत:प्रभृति दोरकम्‌ । सौवर्णं राजतं वापि सूत्रं वा धारयेत्करे ॥ मण्डकान्वेष्टितान्दद्यान्मासे पक्षेऽथ वाब्दके । स्वयं तांश्चैव भुञ्जीत व्रतभङ्गबयाच्छुभे । प्रतिमासं तु सप्तम्यं शुक्लपक्षे विशेषत: । कुर्यादेवं वतं भद्रे वर्षान्तेऽपि तु देवकि ॥ कारिता मुद्रिका शैवी हैमी रूप्या स्वशक्तित: । ताम्रपात्रोपरि स्थाप्य ब्राह्मणाय निवेदयेत्‌ ॥ आचार्याय विशेषेण सुवर्णस्याङ्गलीयकम्‌ । पुष्पं कुसुमसंयुक्तं ताम्बूलाञ्जनसूत्रकै: ॥ एवं तत्कारयित्वा तु वतं सन्ततिवर्धनम्‌ । सर्वपापविनिर्मुक्तं भुक्त्वा सौख्यमनामयम्‌ ॥ सन्तानं वर्धयित्वा च शिवलोके महीयते । एतत्ते सर्वमाख्यानमाख्यातं वतमुत्तमम्‌ ॥५०॥
कुरु देवकि यत्नेन जीवत्पुत्रा भविष्यसि । कृष्ण उवा० । इत्युक्त्वा तु मुनिश्रेष्ठस्तत्रैवान्तरधीयत ॥ चकार सर्वं यत्नेन यदुक्तं तत्र धीमता । वतस्यास्य प्रभावेण देवकी मामजीजनत्‌ ॥ तस्मात्पार्थ नरै: कार्यं स्त्रीभि: कार्यं विशेषत: । व्रतं पापप्रशमनं सुखसन्ततिवर्धनम्‌ ॥ एवं य: श्रृणुयाद्भक्त्या यश्चैतत्प्रतिपादयेत्‌ । वतमाख्यानसहितं सोऽपि पापै: प्रमुच्यते ॥ आख्यानकं वतमिदं सुखसौख्यकामा या स्त्री करिष्यति शिवं हृदये निधाय । दुःखं विहाय बहुशो गतकल्मषौघा सा स्त्री व्रताद्भवति शोभनजीववत्सा ॥५५॥
इति हेमाद्रौ भविष्ये मुक्ताभरणसप्तमीवतकथा सम्पूर्णा ।

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP