शुक्रनीतिः - पंचम अध्याय
प्रस्तुत नीति शुक्राचार्यांनी न लिहिता मूळ नीति भगवान् श्रीशंकरांनी लिहिली आहे.
खिल नीति निरुपण
नीति - शेषचे कथन
नीतिशेषं खिले वक्ष्ये ह्यखिलं शास्त्रसंमतम् ।
सप्तांगानां तु राज्यस्य हितं सर्वजनेषु वै ॥१॥
शतसंवस्तरान्तेऽपि करिष्याम्यात्मसाद्रिपुम् ।
इति संचिन्त्य मनसा रिपोश्छिव्राणि लक्षयेत् ॥२॥
राष्ट्रभृत्यविशंकी स्याद्धीनमंत्रबलो रिपुः ।
युक्त्या तथा प्रकुर्वीत सुमंत्रबलयुक् स्वयम् ॥३॥
सेवया वा वणिग्वृत्त्या रिपुराष्ट्रं विमृश्य च ।
दत्ताभयं सावधानो व्यसनासक्तचेतसम् ॥४॥
मार्जारलुब्धबकवत सन्तिष्ठन्नाशयेद रिम् ।
सेनां युद्धे नियुञ्जीत प्रत्यनीकविनाशिनीम् ॥५॥
न युञ्जाद्रिपुराष्ट्रस्थां मिथः स्वदेषिणीं न च ।
दानमानैर्वियुक्तोऽपि न भृत्यो भूपतिं त्यजेच ।
समये शत्रुसान्नैव गच्छेज्जीवधनाशया ॥६॥
शत्रूचे राज्य जिंकण्याचा उपाय
दर्शयन् मार्दवं नित्यं महावीर्यबलो पि च ।
रिपुराष्ट्रे प्रविश्यादौ तत्कार्ये साधको भवेत ॥७॥
सञ्जातबद्धमूलस्तु तद्राज्यमखिलं हरेत ।
अथ तदद्विष्टयादान् सेनपानंशदानतः ॥८॥
तद्राज्ज्यस्य वशीकुर्यान्मूलमुन्मूलयन् बलात् ।
तरो संक्षीणमूलस्य शाखाः शुष्यन्ति वै यथा ॥९॥
सद्यः केचिञ्च कालेन सेनपाद्याः पतिं विना ।
राज्यवृक्ष आणि राजासाठी पाळण्यास योग्य नीति
राज्यवृक्षस्य नृपतिर्मूलं स्कन्धाश्च मंत्रिणः ॥१०॥
शाखाः सेनाधियाः सेना पल्लवाः कुसुमानि च ।
प्रजाः फलानि भूभागा बीजं भूमिः प्रकल्पिता ॥११॥
विश्वस्तान्यनृपस्यापि न विश्वासं समाप्नुयात् ।
नैकान्ने न गृहे तस्य गच्छेदल्पसहायवान ॥१२॥
क्षणं नासावधानः स्याद् भृत्यस्त्रीपुत्रशत्रुषु ॥१३॥
जीवन् सत् स्वामिता पुत्रे न देयाप्यखिलं कचित् ।
स्वभावसदगुणे यस्मान्महानर्थमदावहा ॥१४॥
विष्ण्वाद्यैरपि नो दत्ता स्वपुत्रे स्वाधिकारता ।
स्वायुषः स्वल्पशेषे तु सत्पुत्रे स्वान्यमादिशेत् ॥१५॥
नाराजकं क्षणमपि राष्ट्रं धर्तुं क्षमाः किल ।
युवराजादयः स्वाम्यलोभचापलगौरवात् ॥१६॥
प्राप्योत्तमं पदं पुत्रः सुमीत्या पालयन् प्रजाः ।
पूर्वामात्येषु पितृवद् गौरवम् सम्प्रधारयेत् ॥१७॥
तस्यापि शासनं तैस्तु प्रधार्यं पूर्वतोऽधिकम् ।
युक्तं चेदन्यथा कार्यं निषेध्यं काललम्बनैः ॥१८॥
तदनीत्या न वर्तेयुस्तेन साकं धनाशया ।
वर्तन्ति यदनीत्या ते तेन साकं पतन्त्यरात् ॥१९॥
कुलभक्तांश्च यो द्वेष्टि नवीनं भजने जनम् ।
स गच्छेच्छत्रुसाद्राजा धनप्राणैर्विज्युज्यते ॥२०॥
गुणी सुनीतिर्नव्योऽपि परिपाल्यस्तु पूर्ववत् ।
प्राचीनैः सह तं कार्ये ह्यनुभूय नियोजयेत् ॥२१॥
धूर्त आणि सज्जन यातील अंतर
अतिमृदुस्तुतिनातिसेवादानप्रियोक्तिभिः ।
मायिकैः सेव्यते यादत् कार्य नित्यं तु साधुभिः ॥२२॥
प्रत्यक्षं वा परोक्षं वा सत्यवाग्भिर्नृनोऽपि च ।
याथार्थ्यतस्तयोरीद्दगनारं खभुवोर्यथा ॥२३॥
परस्वहरणं लोके जारचोरौं तु निन्दितौ ।
तावप्रत्यक्षं हरतः प्रत्यक्षं धूर्त एव हि ॥२४॥
हितं त्वहितवच्चान्ते अहितं हितवत् सदा ।
धूर्ताः सन्दर्शयित्वाऽज्ञं स्वकार्य साधयन्ति ते ॥२५॥
विस्त्रंभयित्वा चात्यर्थ मापया घाययन्ति ते ।
यस्य चाप्रियमन्विच्छेत्तस्य कुर्यात् सदा प्रियम् ॥२६॥
व्याधो मृगवंध कर्तुं गीतं गायति सुस्वरम् ।
मायां बिना महाद्रव्यं द्राड्न सम्पाद्यते जनैः ॥२७॥
विना परस्वहरणान्त कश्चित् स्यान्महाधनः ।
मापया तु बिना तद्धि न साध्यं स्याद्यभेक्षितम् ॥२८॥
धर्म आणि अधर्म यातील भेद
बहुभिर्यः स्तुतो धर्मो निन्दितोऽधर्म एव सः ।
धर्मतत्वं हि गहनं ज्ञातुं केनापि नोचितम् ॥२९॥
अतिदानतपः सत्ययोगो दारिद्र्यकृत्विह ।
धर्मार्थो यत्र न स्यातां तद्वाक् कामं निरर्थकम् ॥३०॥
अर्थे वा यदि वा धर्मे समर्थो देशकालवित् ।
निःसंशयो नरः पूज्यो नष्टः संशयिता सदा ॥३१॥
अर्थस्य पुरुषो दासो दासंस्त्वर्थो न कस्यचित् ।
अतोऽर्थाय यतेनैव सर्वदा यत्नमास्थितः ॥३२॥
अर्थाद्धमैश्च कामश्च मोक्षश्चापि भवेन्नृणाम् ।
शस्त्रास्त्राभ्यां बिना शौर्य गार्हस्थ्यं तु स्त्रियं बिना ॥३३॥
एकमत्यं बिना युद्धं कौशल्यं ग्राहकं बिना ।
दुःखाय जायते नित्यं सुसहायं बिना विदत् ॥३४॥
न विद्यते तु विषदि सुसहायं सुह्रत् - समम ।
सुखी राजा कोण ?
नृपसम्बन्धिस्त्रीपुत्र - सुह्रद् भृत्यादिदस्यृभिः ॥३५॥
अतो विभागं दत्त्वैषां भुड्क्तेयस्तृ स्वकं धनम् ।
दर्प, मान, कार्पण्य, भय तसेच उद्वेग यांचे लक्षण
दर्पस्तु परहासेच्छा मानोऽहं सर्वतोऽधिकः ।
कार्पण्यं तु व्यथे दैन्यं भयं स्वोच्छेदांकनम् ॥३६॥
मानसस्यानवस्थान मुद्वेगः परिकीर्तितः ।
लघोरप्यपमानस्तु महावैराय जायते ॥३७॥
दानमानसत्यशौर्यमार्दवं सुसुह्रत्करम् ।
आपत्तीमध्ये राजाच्या कर्तव्याचा निर्देश
सर्वानापदि सदसि समाहूय बुधान् गुरुन् ॥३८॥
भ्रातृन् बन्धूँश्च भृत्यांश्च ज्ञातीन् सभ्यान् पृथक् पृथक् ।
यथार्हं पूज्य विनतः स्वाभीष्टंयाचनेन्नृपः ॥३९॥
आपदं प्रतरिष्यामो यूयं युक्त्या वदिष्यथ ।
भवन्नो मम मित्राणि भवत्सु नास्ति भृत्यता ॥४०॥
न भवत्सदृशास्त्वन्ये सहायाः सन्ति में हयतः ।
तृतीयांशं भूतेर्ग्राह्यामर्धं वा भोजनार्थकम् ॥४१॥
दास्याम्यापत्समुत्तीर्ण शेषं प्रत्युपकारवित् ।
भृति बिना स्वामिकार्यं भृत्यः कुर्यात् समाष्टकम् ॥४२॥
षोडशाब्दां धनी यः स्यादितरोऽर्थानुरुपतः ।
सकृत् सुभुक्तं यस्यापि तदर्थं जीवितं त्यजेत् ।
भृत्यं स एव सुश्लोको नापत्तौ स्वामिनं त्यजेत् ॥४३॥
स्वामी स एव विज्ञेयो भृत्यार्थं जीवितं त्यजेत् ।
न रामसद्दशो राजा पृथिव्यां नीतिमानभूत् ॥४४॥
सुभृत्यता तु यन्नीत्या वानरैरपि स्वीकृता ।
सर्वात मोठा कूटनीतिज्ञ कोण ?
न कूटनीतिरभवच्छोकृष्णसदृशो नृपः ॥४५॥
अर्जुनाद् ग्राहिता स्वस्थ सुभद्रा भगिनी छलान् ।
नीतिमतान्तु सा युक्तिर्था हि स्वश्रेयसेऽखिला ॥४६॥
नात्मसगोपने युक्ति चिन्तयेत् स पशोर्जडः ।
जारसंगोपने छदम संश्रयन्ति स्त्रियोऽपि च ॥४७॥
युक्तिश्छलात्मिका प्रायस्तथान्या याजनात्मिका ।
यच्छदमचारी भवति तेन च्छदम समाचरेत् ॥४८॥
अन्यथा शीलनाशाय महतामपि जायते ।
अस्ति बुद्धिमतां श्रेणिर्न त्वेको बुद्धिमानतः ॥४९॥
देशे काले च पुरुषे नीति युक्तिमनेकधाम् ।
कल्पयन्ति च तद्विद्या दृष्ट्वा रुद्धां तु प्राकृतनीम् ॥५०॥
छळाचे वर्णन
मन्त्रौषधिपृथग् वेष - कालवागर्थ संश्रयात् ।
छदम संजनयन्तीह तद्विद्याकुशला जनाः ॥५१॥
उत्तमादि सेवकांचे लक्षण
स्वामिन्येवानुरक्तो यो भृतकस्तूत्तमः स्मृतः ।
सेवते पुष्टभृतिदं प्रकटं स च मध्यमः ॥५२॥
पुष्टोऽपि स्वामिनाऽव्यक्तं भजनेऽन्यं स चाधमः ।
उपकरोत्यपकृतो ह्युत्तमोऽप्यन्यथाऽधमः ॥५३॥
मध्यम; साम्यमन्विच्छेदपरः स्वार्थतत्परः ।
नोपदेशं बिना सम्यक् प्रमाणैज्ञार्यतेऽखिलम् ॥५४॥
बाल्यं वाऽप्यथ तारुण्यं प्रारम्भितसमाप्तिदम् ।
प्रायो बुद्धिमतो ज्ञेयं न वार्धक्यं कदाचन ॥५५॥
आरम्भं तस्य कूर्याद्धि यत्समाप्तिं सुखं व्रजेत् ।
नारम्भो बहुकार्याणामेव दैव सुखावहः ॥५६॥
नारम्भित समाप्तिं तु बिना चान्यं समाचरेत् ।
सम्पाद्यते न पूर्व हि नापरं लभ्यते यतः ॥५७॥
कृती तत् कुरुते निल्यं यत् समाप्तिं व्रजेत् सुखम् ।
यदि सिद्धयति येनार्थः कलहेन वरस्तु सः ॥५८॥
अन्यथाऽऽयुर्धनसुह्रद् - यशोधर्महरः सदा ।
कार्य करण्यात प्रवृत्ति तसेच दोषाच्या कारणांचा निर्देश
ईर्ष्या लोभो मदः प्रीतिः क्रोधो भीतिश्च साहसम् ॥५९॥
प्रवृतिच्छिद्रहेतूनि कार्ये सप्त बुधा जगुः ।
यथाच्छिद्रं भवेत् कार्यं तथैव हि समाचरेत् ॥६०॥
अविसंवादि विद्वद् भिः कालेऽतीतेऽपि चापदि ।
श्रेष्ठो न मानहीनः स्यान्नयूनो मानाधिकोऽपि नः ॥६१॥
राष्ट्रेनित्यं प्रकुर्वीत श्रेयोऽर्थी नृपतिस्तथा ।
ग्रामाद् बहिर्वसेयुस्ते ये ते त्वधिकृता नृपैः ॥६२॥
नृपकार्य बिना कश्चिन्न ग्रामं सैनिको विक्षेत् ।
तथा न पीडयेत् कुत्र कदापि ग्रामवासिनः ॥६३॥
सैनिकैर्न व्यवहरेन्नित्यं ग्राम्यजनोऽपि च ।
श्रावयेत् सैनिकान्नित्यं धर्मं शौर्यविवधनम् ॥६४॥
सुवाद्यनृत्यगीतानि शौर्यवृद्धिकराण्यपि ।
यदा चतुर्गुणा वृद्धिर्गृहीता धनिकेन च ॥६५॥
अधमर्णान्न दातव्यं धनिने तु धनं तदा ।
शुक्रनीति समाप्त
N/A
References : N/A
Last Updated : November 11, 2016
TOP