संस्कृत सूची|पूजा विधीः|कृत्य दिवाकरः|प्रथमांशुः| निष्क्रमणम् प्रथमांशुः ग्रन्थोद्देशः गणपतिपूजनं पुण्याहवाचनं च मातृकापूजनम् नांदीश्राद्धम् अग्निमुखम् ग्रहयज्ञः भुवनेश्वरीशांतिः गर्भाधानम् पुंसवनप्रयोगः सीमंतोन्नयनप्रयोगः वस्त्रदानं जातकर्म षष्ठीपूजनम् नामकरणम् आंदोलारोहणम् कर्णवेधः तांबूलभक्षणम् निष्क्रमणम् भूम्युपवेशनम् अन्नप्राशनम् बालस्य दृष्टिदोषादौ रक्षाविधिः वर्धापनम् चौलम् विद्यारम्भः छूरिकाबंधः मौजीबंधनकारिकाः मौंजीबंधनप्रयोगः मौंजीबंधनांगभूतः सायंहोमः मेधाजननम् देवकोत्थापनम् मौंजीविसर्जनम् स्नातकधर्माः दत्तपुत्रप्रतिग्रहविधिः विवाहविधिः सप्रयोगः मुहूर्तमेथिकास्थापनं देवकस्थापनम् वरस्य वधूगृहगमनम् वरस्य सीमांतपूजनम् घटिकास्थापनम् गौरीहरपूजा मधुपर्कः मुहूर्तपत्रिकापूजनादि अक्षतारोपणम् कन्यादानम् विवाहहोमः ऐरिणीदानम् वधूवस्त्रदानम् वधूगृहप्रवेशः नाम - लक्ष्मी - पूजनम् आशीर्वादमंत्राः देवकोत्थापनम् अथ द्विरागमनम् अर्कविवाहः अथ श्रीशांतिः प्रथमांशुः - निष्क्रमणम् ‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते. Tags : poojaपूजासंस्कृत निष्क्रमणम् Translation - भाषांतर ज्योतिर्निबन्धे यमः - तृतीये वा चतुर्थे वा मासि निष्क्रमणं भवेत् । मासे चतुर्थे कर्तव्यं शिशोर्निष्क्रमणं गृहात् ॥ बृहस्पतिः - अन्नप्राशनकाले वा कुर्यान्निष्क्रमणक्रियाम् । तत्प्रयोगः - पिता देशकालौ स्मृत्वा अस्य मम शिशोः बीजगर्भसमुद्भवैनोनिबर्हणद्वारा बलायुर्वर्चोभिवृद्ध्यर्थे निष्क्रमणं करिष्ये तदंगतया गणेशपूजनं पुण्याहवाचनं मातृकापूजनं नांदीश्राद्धं च करिष्ये इति संकल्प्य तानि कृत्वा पीठे प्रतिमासु पूगीफलाक्षतादिषु वा इंद्रं अग्निं यमं निऋतिं वरुणं वायुं सोमं ईशानं चंद्रं सूर्यं वासुदेवं गगनं च नाममंत्रैरावाह्य षोडशोपचारैः संपूज्य शंखतूर्यादिमंगलनिस्वनैः सूर्यचंद्रधेनूनां दर्शनं कारयित्वा मंत्रान् पठेत् - चंद्रार्कयोर्दिगीशानां दिशां च गगनस्य च । निक्षेपार्थमिमं दद्मि ते त्वां रक्षंतु सर्वदा ॥ अप्रमत्तं प्रमत्तं वा दिवा रात्रमथापि वा । रक्षंतु सततं सर्वे देवाः शक्रपुरोगमाः ॥ इति पठित्वा नमस्कृत्य । ततो मात्रा सह शिशुं देवतायतने नीत्वा गृहमागत्य सांगतासिद्ध्यर्थं ब्राह्मणान् संपूज्य तेभ्यो दक्षिणां दत्त्वा आमान्नानि दत्वा देवतां विसृज्य यस्य स्मृत्येति कर्मेश्वरार्पणं कुर्यात् । ततो ब्राह्मणाः - करोतु स्वस्तिते ब्रह्मेत्याशिषो दद्युः ॥ ॥ इति कृत्यदिवाकरे निष्क्रमणप्रयोगः ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP