संस्कृत सूची|पूजा विधीः|कृत्य दिवाकरः|प्रथमांशुः| देवकस्थापनम् प्रथमांशुः ग्रन्थोद्देशः गणपतिपूजनं पुण्याहवाचनं च मातृकापूजनम् नांदीश्राद्धम् अग्निमुखम् ग्रहयज्ञः भुवनेश्वरीशांतिः गर्भाधानम् पुंसवनप्रयोगः सीमंतोन्नयनप्रयोगः वस्त्रदानं जातकर्म षष्ठीपूजनम् नामकरणम् आंदोलारोहणम् कर्णवेधः तांबूलभक्षणम् निष्क्रमणम् भूम्युपवेशनम् अन्नप्राशनम् बालस्य दृष्टिदोषादौ रक्षाविधिः वर्धापनम् चौलम् विद्यारम्भः छूरिकाबंधः मौजीबंधनकारिकाः मौंजीबंधनप्रयोगः मौंजीबंधनांगभूतः सायंहोमः मेधाजननम् देवकोत्थापनम् मौंजीविसर्जनम् स्नातकधर्माः दत्तपुत्रप्रतिग्रहविधिः विवाहविधिः सप्रयोगः मुहूर्तमेथिकास्थापनं देवकस्थापनम् वरस्य वधूगृहगमनम् वरस्य सीमांतपूजनम् घटिकास्थापनम् गौरीहरपूजा मधुपर्कः मुहूर्तपत्रिकापूजनादि अक्षतारोपणम् कन्यादानम् विवाहहोमः ऐरिणीदानम् वधूवस्त्रदानम् वधूगृहप्रवेशः नाम - लक्ष्मी - पूजनम् आशीर्वादमंत्राः देवकोत्थापनम् अथ द्विरागमनम् अर्कविवाहः अथ श्रीशांतिः प्रथमांशुः - देवकस्थापनम् ‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते. Tags : poojaपूजासंस्कृत देवकस्थापनम् Translation - भाषांतर ततो विवाहादिनात्पूर्वेद्युस्तद्दिने वा प्रातः वधूवरयोः पित्रादिः ( कर्ता ) अभ्यंगस्नानं कृत्वा आदौ ग्रहानुकूल्यार्थं ग्रहयज्ञं कुर्यात् । ततः सपत्नीकः शुभासने उपविश्य आचम्य पवित्रपाणिः कृतकुंकुमादितिलकः इष्टदेवतादिभ्यः फलतांबूलानि समर्प्य वृद्धान् ब्राह्मणांश्च नमस्कृत्य सुमुखश्चेत्यादि देशकालौ स्मृत्वा अस्यामुकनाम्नः मम पुत्रस्य ( संस्कार्यस्य वा कन्याकाया वा ) करिष्यमाणविवाहांगभूतंस्वस्तिपुण्याहवाचनं मातृकापूजनं नांदीश्राद्धं मंडपदेवताकुलदेवतास्थापनं च करिष्ये ( पूर्वं ग्रहयज्ञो न कृतश्चेत्तमपि संकल्पे कीर्तयेत् ) तदादौ निर्विघ्नतासिद्ध्यर्थं महागणपतिपूजां करिष्ये इति संकल्प्य गणेशपूजनादिपुण्याहवाचनांतं कृत्वा यथाचारं वैणवशूर्पादौ विनायकादिमातृकाः स्थापयित्वा संपूज्य नांदीश्राद्धं संपाद्य नंदिन्यादिमंडपदेवताः स्थापयेत् । यथा - दूर्वाशमीपल्लवकुलदेवतावृक्षपल्लवान् आम्रादिप्रशस्तवृक्षपत्रावगुंठितान् सूत्रेण षट् वष्टेयेत् । तत्रैकस्मिन्मुसलं एकस्मिन् शस्त्रं मध्ये प्रक्षिप्य वेष्टयेत् । तानि तंडुलपूरितवंशपात्रे वस्त्रं प्रसार्य तत्र निधाय तेषूदक्संस्थक्रमेण - नंदिन्यै नमः नंदिनीमावाहयामि नलिन्यै० नलिनीमा० मैत्रायै० मैत्रामा० उमायै० उमामा० तदुत्तरे मुसलगर्भेपशुवर्धिन्यै० पशुवर्धिनीमा० तदुत्तरे शस्त्रगर्भे - भगवत्यै० भगवतीमा० । तत्पूर्वे गोधूमादि धान्यपूर्णे हरिद्राखंडपूगीफलयुते हरिद्रादिरंजिते न्युब्जशरावेणाच्छादिते सूत्रवेष्टिते कलशे अविघ्नसंज्ञकगणपतये नमः अविघ्नसंज्ञकगणपतिमा० । तदुत्तरे - कुलदेवतायै० कुलदेवतामा० इत्यावाह्य प्रतिष्ठिता भवंतु इति प्रतिष्ठाप्य तानि ताम्रादिपात्रे गृहीत्वा नंदिन्याद्यावाहितदेवताभ्यो नमः ध्यायामीत्यादीन् आसनपाद्यार्घ्याचमनीयांतोपचारान् समर्प्य - सर्वमंगलमांगल्ये शिवे सर्वार्थसाधिके । शरण्ये त्र्यंबके गौरि नारायणि नमोस्तुते इति मंत्रेण तेषां तैलाभ्यंगोद्वर्तनोष्णोदकस्नानानि कारयित्वा शुद्धोदकस्नानं गंधाद्युपचारादि पुष्पांजल्यंतं संपूज्य नीराज्य पूर्ववद्वंशपात्रे क्रमेण देवतास्थापनं कुर्यात् । तदित्थं - नंदिन्यै नमः नंदिनीं स्थापयामि इति स्थापयित्वा प्रोक्ष्य गंधाक्षतदधिदूर्वापुष्पाणि तूष्णीं समर्पयेत् । एवमेव रीत्या नलिन्यादीनां स्थापनं कार्यम् । ततो गौर्यादिमातृकावंशपात्रं नंदिन्यादिवंशपात्रं च स्वयं गृहीत्वा अविघ्नकलशं पत्न्या ग्राहयित्वा ब्राह्मणसहितो - नत्वास्वां कुलदेवतांच कमलां इत्यादि मंगलपद्यं पठन् मंगलवाद्यघोषेण गृहं गत्वा प्रशस्ते रंगवल्ल्यादिशोभिते गृहैशानदेशे धान्यराशित्रयोपरि स्थापयित्वा तस्मिन्नेव पात्रे अविघ्नकलशं स्थापयित्वा प्रतिष्ठाप्य चंदनादिना पूजयेत् अन्यदपि यथाकुलधर्मं सर्वं कुर्यात् ततो मंडपेऽक्षतान् क्षिपेत ततो वस्त्रदानादि यथाचारं कार्यम् वस्त्रदानमंत्रः - बार्हस्वत्यमिदं नवं हि सदशं वासोयुगं शोभनं सर्वप्राज्यमनुत्तमं तनु तथा लोकत्रपारक्षणम् । देहालंकरणं शिवप्रियमथो लावण्यसौभाग्यसद्रूपारोग्यसुखप्रदं बहुगुणं दास्यामि ते गृह्यताम् ॥ ॥ इति देवकस्थापनं ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP