उमासहस्रम् - दशमः स्तबकः
देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. A Stotra is a hymn of praise, that praise aspects of Devi and Devtas.
केशादिपादान्तवर्णनम् (ललितावृत्तम्)
सङ्क्षालनाय हरितां विभूतये
लोकत्रयस्य मदनाय धूर्जटेः ।
कात्यायनीवदनतः शनैः शनैर्
निर्यन्ति शुभ्रहसितानि पान्तु नः ॥१॥
स्वल्पोऽपि दिक्षु किरणान् प्रसारयन्
मन्दोऽपि बोधममलं दधत्सताम् ।
शुभ्रोऽपि रागकृदनङ्गवैरिणो
हासः पुराणसुदृशः पुनातु नः ॥२॥
चेतोहरोऽप्यतिजुगुप्सितो भवेत्
सर्वोऽपि जीवकलया यया विना ।
सा वर्ण्यतां कथमपारचारुता
पीयूषसिन्धुरखिलेन्द्रसुन्दरी ॥३॥
अत्यल्पदेववनितां च पार्थिवैर्
भावैर्वयं तुलयितुं न शक्नुमः
तां किं पुनः सकलदेवसुन्दरी ।
लोकाक्षिपारणतनुप्रभामुमाम् ॥४॥
वर्षापयोदपटलस्य सान्द्रता
सूर्यात्मजोर्मिचयनिम्नतुङ्गता ।
कालाहिभूमिपतिदीर्घता च ते
केशेषु भर्गभवनेश्वरि त्रयम् ॥५॥
ईशानसुन्दरि तवास्यमण्डला
न्नीचैर्नितान्तममृतांशुमण्डलम् ।
को वा न कीर्तयति लोष्टपिण्डकं
लोके निकृष्टमिह मानवीमुखात् ॥६॥
बिभ्रत्यमर्त्यभुवनस्थदीर्घिका
पङ्केरुहाणि वदनाय ते बलिम् ।
नो चेत् कथं भवति सौरभं मह
द्भिन्ने सुमेभ्य उरुकेशि ते मुखे ॥७॥
गीर्वाणलोकतटिनीजलेरुहां
गन्धे शुभे भवतु ते मनोरतिः ।
लोकाधिराज्ञि तव वक्त्रसौरभे
लोकाधिराजमनसस्तु सम्मदः ॥८॥
को भाषतां तव सवित्रि चारुतां
यस्याः स्मितस्य धवलद्युतिर्लवः ।
यस्याः शरीररुचिसिन्धुवीचयः
शम्पालताः पृथुलदीप्तिभूमयः ॥९॥
लोकाम्बिके न विलसन्ति के पुरो
मन्दस्मितस्य तव रोचिषां निधेः ।
ये तु व्यधायिषत तेन पृष्ठतो
हन्तैषु काऽपि तिमिरच्छटा भवेत् ॥१०॥
किं वा रदावलिरुचिर्मुखस्य किं
सम्फुल्लता वरधियः किमूर्मिका ।
सन्तोषपादपसुमं नु शङ्कर
प्रेमस्वरूपमुत देवि ते स्मितम् ॥११॥
दिक्षु प्रकाशपटलं वितन्वता
कोटिप्रभाकरविभक्ततेजसा ।
नेत्रेण ते विषमनेत्रवल्लभे
पङ्केरुहं क उपमाति पण्डितः ॥१२॥
श्रीकर्ण एष तव लोचनाञ्चले
भान्त्या दयादयितया प्रबोधितः ।
एतं सवित्रि मम कञ्चन स्तवं
श्रुत्वा तनोतु भरतावनेः श्रियम् ॥१३॥
स्वा नासिका भवति युञ्जतां सतां
संस्तम्भिनी चलतमस्य चक्षुषः ।
त्वन्नासिका पुरहरस्य चक्षुषः
संस्तम्भिनी भवति चित्रमम्बिके ॥१४॥
बिम्बप्रवालनवपल्लवादितः
पीयूषसारभरणाद् गुणाधिकः ।
गोत्रस्य पुत्रि शिवचित्तरञ्जकः
श्रेष्ठो नितान्तमधराधरोऽपि ते ॥१५॥
दोर्वल्लिके जननि ते तटित्प्रभा
मन्दारमाल्यमृदुतापहारिके ।
निश्शेषबन्धदमनस्य धूर्जटेर्
बन्धाय भद्रचरिते बभूवतुः ॥१६॥
हस्ताब्जयोस्तव मृदुत्वमद्भुतं
गृह्णाति ये सदयमेव धूर्जटिः
अत्यद्भुतं जननि दाढर्यमेतयोः
शुम्भादिदर्पविलयो ययोरभूत् ॥१७॥
राजन्तु ते कुचसुधाप्रपायिनो
लोकस्य मातरनघाः सहस्रशः ।
एतेषु कश्चन गजाननः कृती
गायन्ति यं सकलदायिसत्करम् ॥१८॥
त्वन्नाभिकूपपतितां दृशं प्रभोर्
नेतुं विनिर्मलगुणे पुनस्तटम् ।
सौम्यत्वदीयहृदयप्रसारितः
पाशः सवित्रि तव रोमराजिका ॥१९॥
त्वन्मध्यमो गगनलोक एव चेत्
त्वद्दिव्यवैभवविदो न विस्मयः ।
प्राज्ञैर्हि सुन्दरि पुरत्रयद्विष
स्त्वं देहिनी त्रिभुवनेन गीयसे ॥२०॥
नाभिहृदाद्विगलितः कटीशिला
भङ्गात् पुनः पतति किं द्विधाकृतः ।
कान्तोरुयुग्ममिषतः सवित्रि ते
भावारिपूर इभशुण्डयोः समः ॥२१॥
जङ्घायुगं तव महेशनायिके
लावण्यनिर्झरि जगद्विधायिके ।
अन्तःपरिस्फुरदगुप्तसुप्रभा
बाणाढ्यतूणयुगलं रतीशितुः ॥२२॥
पुष्पास्त्रशासननिशान्तराज्ञि ते
लोकत्रयस्थखलकम्पनं बलम् ।
श्रोणीभरेण गमने किल श्रमं
प्राप्नोषि केन तव तत्त्वमुच्यताम् ॥२३॥
यत्रैव नित्यविहृतेरभूद्रमा
राजीवमन्दिरचरीति नामतः ।
तन्मे सदा भणतु मङ्गलं शिवा
पादाम्बुसम्भवममेयवैभवम् ॥२४॥
केशादिपादकमलान्तगायिनीः
कन्तुप्रशासननिशान्तनायिका ।
अङ्गीकरोतु ललिता इमाः कृतीर्
गौरी कवेश्चरणकञ्जसेविनः ॥२५॥
N/A
References : N/A
Last Updated : January 07, 2014
TOP