उमासहस्रम् - पञ्चत्रिंशः स्तबकः
देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. A Stotra is a hymn of praise, that praise aspects of Devi and Devtas.
प्रार्थना (इन्दुवदनावृत्तम्)
अन्धतमसं शशिविभामभिदधाना
कान्तिमलमास्यकमलस्य विदधाना ।
अन्धकविरोधिदयितास्मितलवश्रीर्
भातु भुवनस्य सकलस्य कुशलाय ॥१॥
भाहि विविधा कृतिमती द्विजसमूहे
पाहि गतिहीनमखिलेश्वरि कुलं नः ।
देहि बहुकालभजकाय वरमेतं
याहि नगनन्दिनि यशः शशिवलक्षम् ॥२॥
वारयति घोरतरपातकसमूहं
वर्धयति धर्ममपि शर्मकरमन्ते ।
किङ्करजनस्य न किमावहति भव्यं
शङ्करपुरन्ध्रि तव पादपरिचर्या ॥३॥
यस्य मनुजस्य हृदयेऽस्ति सदये ते
नाकचरसेव्यमयि पादसरसीजम् ।
तं भजति पद्ममुखि पद्मवनवासा
लाभभवने भवतु नामरपुरोधाः ॥४॥
यद्यखिलमौनिगणगीतगुणजालं
कालभयहारिकरुणारसमरन्दम् ।
अद्रितनयाङ्घ्रिजलजन्म हृदये स्या
दष्टमगतोऽपि विदधातु रविजः किम् ॥५॥
लेखललनाकचसुमैः कृतबलिं ते
यो भजति पादघृणिमालिनमनन्ते ।
निस्तरति नूनमयमस्तमितमोहः
शोकतिमिरं सकललोकगणमातः ॥६॥
शीतकरदर्पहरवक्त्रजलजाते
शीतगिरिनन्दिनि तवाङ्घ्रिजलजातम् ।
यः स्मरति देवि हृदि विस्मरति सोऽयं
विष्टपमशेषमपि कष्टततिमुक्तः ॥७॥
सक्तिरयि यस्य तव पादसरसीजे
शक्तिधरमातरनलाक्षगृहनाथे ।
पूर्णशशिजैत्रमुखि पुण्यपुरुषोऽसौ
स्वर्णशिखरीव बुधलोकशरणं स्यात् ॥८॥
वैरिगणनिर्दलनखड्गवरपाणे
वाससि पदोर्दशनवाससि च शोणे ।
नेत्रमिषपावकविशेषितललाटे
पापमखिलं जहि मृगाधिपतिघोटे ॥९॥
वेदचयवेदिजनवादविषयस्य
प्रतियुतलोकततिशोकशमनस्य ।
वेतनविवर्जितभटोऽयमहमङ्घ्रेः
शीतकरपोतधरपुण्यवनिते ते ॥१०॥
कार्यमयि मे किमपि कार्यपटुबुद्धेः
पादसरसीजयुगलीपरिजनस्य ।
अम्ब वद जम्भरिपुगीतगुणजाले
शुम्भकुलनाशकरि शम्भुकुलयोषे ॥११॥
त्वं यदि शिलावदयि नो वदसि कृत्यं
नास्ति तव राज्यपटुबुद्धिरिति सत्यम् ।
आदिश यथार्हकरणीयकृतिनित्यं
राज्ञि भुवनस्य चरणाम्बुरुहभृत्यम् ॥१२॥
पञ्चसु विहाय मनसः कमपि सङ्गं
पुत्रधनमित्रजनबान्धववधूषु ।
एष भजते जननि पादजलजं ते
पालय नु मुञ्च नु तवोपरि स भारः ॥१३॥
वज्रधरमुख्यसुरसञ्चयकिरीट
स्थापितमहार्घमणिरञ्जितनखाय ।
जीवितमदायि जगदीश्वरि मदीयं
पादजलजाय तव पालय नु मा वा ॥१४॥
देहि जगदीश्वरि न वा मदभिलाषं
पाहि करुणावति न वा कुलमिदं नः ।
शूलधरकामिनि सुरासुरनिषेव्यं
पादकमलं तव परे न विजहामि ॥१५॥
पासि किल पादयुगकिङ्करसमूहं
हंसि किल पापततिमापदि नुता त्वम् ।
दन्तिवदनप्रसु वदन्ति मतिमन्तो
नानृतमिदं भवतु नाकिजनवर्ण्ये ॥१६॥
शक्रमुखदेवततिवन्दितविसृष्टे
वक्रघनकेशि चरणे तव लुठन्तम् ।
आपदि निमग्नमिममाश्रितमनाथं
नन्दिहयसुन्दरि न पालयसि केन ॥१७॥
घोषमयमम्ब विदधाति पदलग्नो
नावसि पुराणि किमु नारि बधिराऽसि ।
वन्दिसुरबृन्दनुतिभाषितहृतं वा
कर्णयुगलं तव कपालिकुलयोषे ॥१८॥
अम्ब भव बिम्बफलकल्परदचेले
शम्बरसपत्नबलकारिबहुलीले ।
प्रागमृतभानुमुकुटस्य मदयित्री
तं कुरु ततः परमुरीकृतमदर्थम् ॥१९॥
निर्मलसुधाकरकलाकलितमस्ते
धर्मरतपालिनि दयावति नमस्ते ।
एतमव देवि चरणाम्बुरुहबन्धुं
शीतधरणीधरसुते गमय नान्धुम् ॥२०॥
अद्रिकुलपालककुलध्वजपताके
भद्रगजगामिनि दरिद्रमयि मत्या ।
क्षुद्रमिव शोच्यमिममङ्घ्रिजलजाप्तं
रुद्रदयिते जननि पाहि न जहीहि ॥२१॥
अस्तु तव पादकमले स्थितिरजस्रं
नास्ति परदुःखविवशे हृदि तु शान्तिः ।
अस्तु करुणेऽयमस्तु मतिलोपः
कष्टमिदमम्ब मम भूरि परिशिष्टम् ॥२२॥
दुःखसुखभेदरहिता न मतिरासीत्
साधुखलभेदरहिता न मतिरासीत् ।
भाग्यमितिमान्यमथवा मम तदेतन्
मातरिह सङ्घभजने यदवकाशः ॥२३॥
अस्तु मम भेदमतिरस्तु मम पक्षो
यत्नपरताऽस्तु मम मास्तु च विमोक्षः ।
मोक्षमयि वेद्मि कुलकष्टततिमोक्षं
प्रेषय सकृत्तव महेश्वरि कटाक्षम् ॥२४॥
शाक्वरगणेन मुखरेऽत्र गणनाथे
विष्णुयशसीशवधु जिष्णुमुखवन्द्ये ।
अम्ब करुणां कुरु शिवङ्करि निरङ्क
स्वच्छकिरणार्भकविभूषितललाटे ॥२५॥
N/A
References : N/A
Last Updated : January 07, 2014
TOP