उड्डामरेश्वरतन्त्र - पञ्चदशः पटलः
‘उड्डामरेश्वरतन्त्र ’ हे तंत्रशास्त्रातील अत्यंत दुर्मिल आणि गुप्त तंत्र आहे, साधक याचा उपयोग अतिशय निर्वाणीच्या क्षणी करतात.
षट्कोणं यन्त्रं लिखित्वा तत्र षट्कोणे ओं कुरुकुल्ले स्वाहा इति मन्त्रं पूर्वकोणे लिखेत् ।
कुरु इत्यक्षरद्वयं अपरकोणे लिखेत् ।
अक्षरैकं पूर्वावर्तक्रमेण लेखितव्यं ।
ततो भूर्जपत्त्रे इमं मन्त्रं लिखित्वा गृहद्वारे देहल्या एकदेशे धृते सति गृहसर्पं उच्चाटयति विवरद्वारि धृते विवरस्थो नश्यत्येव ॥
रक्तकरवीरपुष्पं आम्रपत्त्रभस्मना लिप्तं तत्क्षणादेव शुभ्रं भवति तथा गन्धकधूपेनापि भावितेन शुक्तिर्भवति ।
लोके हयमार इत्याख्यस्य रक्तकरवीरस्य पुष्पं तूलवर्तिकागन्धकेन सह संयोज्य तत्क्षणादेव ज्वलति ।
तथा टङ्कनहरिद्राभ्यां कृते लेपे कुङ्कुमकान्तिर्भवति ॥
पुराणशुष्कगोमयं यदा जले पातयेत्तदा भीमोष्मणा तस्माद्बुद्बुदं उत्पद्यते ।
एवं गौरं तु भूम्युपरि भूतलं स्पृष्ट्वा रक्तकरवीरवृक्षो जायते इति ।
रूपके ताम्रे भ्रमर इव कुम्भे समर्पयेत्किंचिदनुयोगित्वेन मनोऽनुरागो भवति ताम्बूलरागतः नश्यति हरिद्रारागो रविकिरणात् ॥
ओं हुं सति कुरुरुपक्षिशब्दतः कुरलकुङ्कुमेन इति प्रसिद्धिः क्रोञ्च इत्यपि तस्य नाम जिह्वाक्रींकृतं वामकरतलमध्यलग्नपरिलेपं दर्शयित्वा उदितविश्वधाराभस्मना पुनरपि करतललग्नात्प्रदर्श्य गत्याश्चर्यमते शिशुदुग्धभावितात्शोधयित्वा गवादिदुग्धं चोष्णं कांस्यपात्रे कृत्वा तीक्ष्णतरं धृत्वा तण्डुलनिक्षेपणेन क्षीरं भवति ॥
भूर्जपत्त्रपुटकं तिलतैलेन दीपयित्वा विविधभक्ष्यान्नं साधयेत्यथा लौहभाजने साध्यते ।
वार्ताकरञ्जिकापलं इति तत्सूत्रेण वेष्टयित्वा दीपयित्वा च ज्वालयेत्तेनाविसूत्रेण वेष्टिते च सूत्रं संदह्यते वार्ताकश्च पच्यते ॥
आदिपङ्क्तौ सप्त स्वरान्संलिख्य तदधःपङ्क्तौ कादिसप्तवर्गात्संलिख्य तदधःपङ्क्तौ हरिद्रादिक्रमेणालेखनीया तत्र स्वरवर्णयोजनेन संकोचनादक्षरकोष्ठादिसंस्पर्शनात्संजायते ।
बहुषु मध्येषु दत्तसंज्ञाकृतसंकेतश्चौरः स्वदृष्टिं अपि सप्तसप्तस्वरादौ जानाति ।
व्यापारमध्ये क्षणरसिकश्चौरो ज्ञायते कृतो भद्रद्रव्ये ॥
कुत्रापि धत्तूरकबीजं क्षिप्त्वा तद्वा भक्षति तदा तद्गुणादिफलं लभ्यते असौ चौरः इति ।
स्वल्पचरचौरास्तु वस्तुलाभे प्रदातारः ।
क्षीर्यर्कादिवृक्षदुग्धेन संलिखितं चौरनामाक्षरं करतलेऽपि लिखितं अनन्तरं भूर्जपत्त्रे कृतं अपि मर्दने स्पर्शयित्वा भक्षितुं ततो ददाति अपरिलिखितं चौरनाम पत्त्रयुक्तं च अरिगृहगर्भमृत्तिकाकाण्डकं भवति ।
जले साधुनाम पत्त्रयुक्तमृत्तिका च जले मज्जति ततः स्पृष्ट्वा क्रियते असौ चौरः इति ।
क्षीरितरुदुग्धलिखितक्षुद्रलेखे अङ्गारचूर्णेन मर्दिताः स्पष्टा भवन्ति ।
कूटोऽपि विपरीतलिखितवर्ण आदर्शादौ प्रतिकृतिभावापन्नो वर्णवैपरीत्यात्प्रतिविवर्धितन्यासः अतिदृढा मसी भवति ॥
निम्बतालके समताम्रभाजने याममात्रमर्दितेन विधिरस्तु समभागता यथा आमलकीहरीतकीविभीतकनिम्बखादिराणां नीराख्याराजकरवीररसैः समस्तरसकज्जलमुक्तमर्दनप्रकारेण याममात्रेण प्रत्येकं येन प्रकारेण मसिद्रव्यं जायते ।
शिरीषवृक्षत्वक्चूर्णं खदिरं विना ताम्बूलरागं जनयति ।
तिर्यक भूमौ नारिकेलफलं अस्थिसहितं मुखेन कर्णिकायां एकेन प्रहारेण द्विधा भवति ।
लघुकाष्ठसूक्ष्मरचितपाकां विना पादैकं वा भ्रमति ।
गुञ्जाफलास्थिलिप्तं स्तम्भितं तदुत्तरपादं प्रयोज्य प्रपदात्यन्तं भ्रमति तदा पादतले तालकारलग्ना उत्तिष्ठति ।
एवं लघुकाष्ठनिर्मितासमकः पापपुरहासार्थं दत्तमुखवेष्टं किंचित्यस्तेन सितवस्त्रादौ कट्यां लग्नं उपतिष्ठमानास्तिष्ठति ॥
एवं निविडाम्बरपिहितजम्बादौ अधोमुखकांस्यभाजननिहितं अङ्गारं न दहति वस्त्रं दहति चापि शिशिरजलमिश्रितं अपि आनतफलचूर्णभावितकलशः तीक्ष्णश्च कांस्यभाजननिहितं गुरुड्डनाप्यशक्तं न भवति तदानीं तिक्तं याति यच्छुक्तं मिष्टं एति कज्जलचविकाचूर्णाभ्यां क्रमसंलिखितपुस्तकमध्यकारणेऽपि यथेष्टया पच्यते यथा कटाहे रम्यतरे मधुनाग्निप्रज्वलिते सकुण्डादौ जलपूर्णे अधोमुखे उज्ज्वलं स्वयं एति धूमाभ्यां स्वयं उद्गिरति वर्तिद्वये शशविष्ठापूर्णगर्भे कमठैरधोवर्तिविष्ठायितापि उपरि ज्वलज्ज्वालाज्वलितवर्तिज्वालां अपि ज्वलितधूमं अङ्गारतीक्ष्णशिखया नाडिकादौ ।
वालिवातेऽयं प्रयोगः कार्यः ।
वामकराङ्गुलिपर्यन्तं गोपितं सूत्रचिह्नं अप्यचिह्नं च दृश्यते जनस्य विषमसमाक्षरेण वीक्षिते कालः असमं अपि पुरुषं जानीयात् ।
पञ्चदाडिमे शिखरे मसिगुणिते यद्धि भवति तावत्गुटिके विजानीयात् ।
अकालवक्रे सति कालं अथ फलचूर्णेन मिलित्वा भस्मना सह घृतेन काकञ्जिका सहसा भवति ॥
अगाधस्थिरजले धूमचूर्णेन लिखितचिन्तादि भीतवद्भाषते न निमज्जतीति ।
समदशघृतजधृतसमावेशार्धं धृतमूषलं तिष्ठति ॥
पुष्यनक्षत्रे कुङ्कुमावर्तितेन बाणेन दूरस्थं अपि लक्ष्यं बालोऽपि विध्यते ।
षण्डं गोमयानां वर्तिदीपकान्त्या दग्धं मध्ये हतशशरुधिरं दृश्यते तत्रापि तैलं यत्किंचिदिति ।
श्वेतार्कफले तूलकं सर्षपसमं तैलेनैकीकृतवर्तिकदीपज्वालायां गृहोपरिवंशादिदारु सर्वं सर्प इव दृश्यते ।
भुजगतैले सच्छिद्रभाण्डे भुजंगं क्षिप्त्वा अच्छिद्रभाण्डान्तरे व्यवस्थितं अग्निपातेन जलं ज्वलति ।
तदैव तैलं पूर्वप्रकारेण कृष्णाष्टम्यां मण्डूकतैलाङ्कितेन सर्वं शात्रव सर्वं भवति ।
दीपकान्त्या दीपयित्वा यत्किंचिच्च कुक्कुटपक्षिचञ्च्वादिविदग्धनाललक्षिता सती हृता लेखा यदायाति हरिकपालं धृत्वा भवति तदा तज्जलपूर्णां च कलशं रिक्तकं भवति तथा मरिचशुण्ठी पिप्पलीचूर्णेनोभाभ्यां वामचरणतलं लिप्त्वा तेनाहतो वृक्षः कल्पवृक्षश्च नमेरुफलं प्रसूयते ॥
कृष्णा गौः प्रसवकाले तद्वत्समानवर्णं जरायुरागतत्वेन प्रजारेण्डला फलं दृष्ट्वा मुष्टिगृहीते उच्चैस्तमसि फलं प्रायेण कृत्वा प्रदास्यति तथा कालायितमुद्रिका वरगोस्तनी स्यादापतिता गृहीता निक्षिप्ता तु अष्टौ पूर्वफलानि जनयति ।
समुस्ताहरितालमनःशिलाभ्यां नवनीतादियोगेन कारिताञ्जने मयूरस्य विष्ठया कृत्वा हस्तं लिम्पेत्तत्र स्थितं द्रव्यं ब्रह्मापि न पश्यति ।
समुखं फलचूर्णं मिश्रोद्वर्तनकाजले क्षिप्त्वा क्रिमिसहस्रतुल्यं दृश्यते ।
हयकालीयकस्य शोषितस्य चूर्णं गवशीर्षकेण समुद्वर्तनेन तात्कालिकं सूक्ष्मजले निःक्षिप्य सबीजं कृषिरुच्चलति ॥
अधःपटेनाशस्यावश्यादि दृष्ट्वा पादाग्रस्थितं द्रव्यं दृश्यते ।
जपाकुसुमोद्वर्तिताङ्गं छुरिकादौ कणाचितैककीटकाफलाख्या यन्त्रिते रुधिरवज्जडितं क्षीरिवृक्षत्वगवभाविता तैलाक्ता वस्त्रवर्तिर्जलैर्ज्वलति ।
एवं समुद्रतैलयुक्तापि वर्तिका ज्वलति ।
द्रोणकपुष्पादीनि क्षुद्रपुष्पाणि चूर्णाग्रे विनिष्क्षिप्य धत्तूरबीजानि जलसिक्तानि सजीववत्फलन्ति ।
इक्षुः कुक्कुटीबीजचूर्णेन सुदर्शनपत्त्रं इव तत्क्षणात्जायते ।
मसृणकर्पटं निर्मलकांस्यभाजनेऽर्कसम्मुखं स्थापनेन वर्तुलकयोगादग्निरुत्तरति ॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP