महानारायणोपनिषत् - अनुवाकः ११ ते २०
आपल्या प्राचीन वाङ्मयामध्ये उपनिषदांना फार महत्त्वाचे, म्हणजे प्रस्थानत्रयी मधील एक, असे स्थान आहे.
Upanishad are highly philosophical and metaphysical part of Vedas. Being the conclusive part of Vedas, Upanishad can be called the whole substance of Vedic
एकादशोऽनुवाकः ।
यथा वृक्षस्य संपुष्पितस्य दूराद्गन्धो वात्येवं पुण्यस्य कर्मणो दूराद्गन्धो वाति यथासिधारां कर्तेऽवहितमवक्रामे यद्युवे युवे हवा विह्वयिष्यामि कर्तं पतिष्यामीत्येवममृतादात्मानं जुगुप्सेत् ॥१॥
द्वादशोऽनुवाकः ।
अणोरणीयान् महतो महीयानात्मा गुहायां निहितोऽस्य जन्तोः । तमक्रतुं पश्यति वीतशोको धातुः प्रसादान्महिमानमीशम् ॥१॥ सप्त प्राणा प्रभवन्ति तस्मात् सप्तार्चिषः समिधः सप्त जिह्वाः । सप्त इमे लोका येषु चरन्ति प्राणा गुहाशयान्निहिताः सप्त सप्त ॥२॥ अतः समुद्रा गिरयश्च सर्वेऽस्मात्स्यन्दन्ते सिन्धवः सर्वरूपाः । अतश्च विश्वा ओषधयो रसाश्च येनैष भूतस्तिष्ठत्यन्तरात्मा ॥३॥ ब्रह्मा देवानां पदवीः कवीनामृषिर्विप्राणां महिषो मृगाणाम् । श्येनो गृध्राणाँस्वधितिर्वनानाँसोमः पवित्रमत्येति रेभन् ॥४॥ अजामेकां लोहितशुक्लकृष्णां बह्वीं प्रजां जनयन्तीँ सरूपाम् । अजो ह्येको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्यः ॥५॥ हंसः शुचिषद्वसुरन्तरिक्षसद्धोता वेदिषदतिथिर्दुरोणसत् । नृषद्वरसदृतसद्व्योमसदब्जा गोजा ऋतजा अद्रिजा ऋतं बृहत् ॥६॥ यस्माज्जाता न परा नैव किंचनास य आविवेश भुवनानि विश्वा । प्रजापतिः प्रजया संविदानस्त्रीणि ज्योतीँषि सचते स षोडशी ॥६ क॥ विधर्तारँ हवामहे वसोः कुविद्वनाति नः । सवितारं नृचक्षसम् ॥६ ख॥ घृतं मिमिक्षिरे घृतमस्य योनिर्घृते श्रितो घृतमुवस्य धाम । अनुष्वधमावह मादयस्व स्वाहाकृतं वृषभ वक्षि हव्यम् ॥७॥ समुद्रादूर्मिर्मधुमाँ उदारदुपाँशुना सममृतत्वमानट् । घृतस्य नाम गुह्यं यदस्ति जिह्वा देवानाममृतस्य नाभिः ॥८॥ वयं नाम प्रब्रवामा घृतेनास्मिन् यज्ञे धारयामा नमोभिः । उप ब्रह्मा शृणवच्छस्यमान चतुःशृङ्गोऽवमीद्गौर एतत् ॥९॥ चत्वारि शृङ्गा त्रयो अस्य पादा द्वेशीर्षे सप्त हस्तासो अस्य । त्रिधा बद्धो वृषभो रोरवीति महो देवो मर्त्याँ आविवेश ॥१०॥ त्रिधा हितं पणिभिर्गुह्यमानं गवि देवासो घृतमन्वविन्दन् । इन्द्र एकँ सूर्य एकं जजान वेनादेकँ स्वधया निष्टतक्षुः ॥११॥ यो देवानां प्रथमं पुरस्ताद्विश्वाधिको रुद्रो महर्षिः । हिरण्यगर्भं पश्यत जायमानँ स नो देवः शुभयास्मृत्या संयुनक्तु ॥१२॥ यस्मात्परं नापरमस्ति किञ्चित् यस्मान्नाणीयो न ज्यायोऽस्ति कश्चित् । वृक्ष इव स्तब्धो दिवि तिष्ठत्येकस्तेनेदं पूर्णं पुरुषेण सर्वम् ॥१३॥ न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशुः । परेण नाकं निहितं गुहायां बिभ्राजते यद्यतयो विशन्ति ॥१४॥ वेदान्तविज्ञानविनिश्चितार्थाः संन्यासयोगाद्यतयः शुद्धसत्त्वाः । ते ब्रह्मलोके तु परान्तकाले परामृताः परिमुच्यन्ति सर्वे ॥१५॥ दह्रं विपापं वरवेश्मभूत यत् पुण्डरीकं पुरमध्यसँस्थम् । तत्रापि दह्रे गगनं विशोकं तस्मिन् यदन्तस्तदुपासितव्यम् ॥१६॥ यो वेदादौ स्वरः प्रोक्तो वेदान्ते च प्रतिष्ठितः । तस्य प्रकृतिलीनस्य यः परः स महेश्वरः ॥१७॥
त्रयोदशोऽनुवाकः ।
सहस्रशीर्षं देवं विश्वाक्षं विश्वशम्भुवम् । विश्वं नारायणं देवमक्षरं परमं प्रभुम् ॥१॥ विश्वतः परमं नित्यं विश्वं नारायणँ हरिम् । विश्वमेवेदं पुरुषस्तद्विश्वमुपजीवति ॥२॥ पतिं विश्वस्यात्मेश्वरँ शाश्वतँ शिवमच्युतम् । नारायणं महाज्ञेयं विश्वात्मानं परायणम् ॥३॥ नारायणः परं ब्रह्म तत्त्वं नारायणः परः । नारायणः परो ज्योतिरात्मा नारयणः परः ॥४॥ नारायणः परो ध्याता ध्यानं नारायणः परः । यच्च किञ्चिज्जगत्यस्मिन् दृश्यते श्रूयतेऽपि वा । अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः ॥५॥ अनन्तमव्ययं कविँ समुद्रेऽन्तं विश्वशम्भुवम् । पद्मकोशप्रतीकाशँ हृदयं चाप्यधोमुखम् ॥६॥ अधो निष्ट्या वितस्त्यान्ते नाभ्यामुपरि तिष्ठति । हृदयं तद्विजानीयाद्विश्वस्यायतनं महत् ॥७॥ सन्ततँ सिराभिस्तु लम्बत्याकोशसन्निभम् । तस्यान्ते सुषिरँ सूक्ष्मं तस्मिन्त्सर्वं प्रतिष्ठितम् ॥८॥ तस्य मध्ये महानग्निर्विश्वार्चिर्विश्वतोमुखः । सोऽग्रभुग्विभजन्तिष्ठन्नाहारमजरः कविः ॥९॥ तिर्यगूर्ध्वमधःशायी रश्मयस्तस्य सन्तताः । सन्तापयति स्वं देहमापादतलमस्तकम् । तस्य मध्ये वह्निशिखा अणीयोर्ध्वा व्यवस्थिता ॥१०॥ नीलतोयदमध्यस्था विद्युल्लेखेव भास्वरा । नीवारशूक्वत्तन्वी पीता भास्वत्यणूपम ॥११॥ तस्याः शिखाया मध्ये परमात्मा व्यवस्थितः । स ब्रह्मा स शिवः स हरिः सेन्द्रः सोऽक्षरः परमः स्वराट् ॥१२॥
चतुर्दशोऽनुवाकः । चतुर्दशोऽनुवाकः । आदित्यो वा एष एतन्मण्डलं तपति तत्र ता ऋचस्तदृचा मण्डलँ स ऋचां लोकोऽथ य एष एतस्मिन्मण्डलेऽर्चिर्दीप्यते तानि सामानि स साम्नां लोकोऽथ य एष एतस्मिन्मण्डलेऽर्चिषि पुरुषस्तानि यजूँषि स यजुषा मण्डलँ स यजुषां लोकः सैषा त्रय्येव विद्या तपति य एषोऽन्तरादित्ये हिरण्मयः पुरुषः ॥१॥
पञ्चदशोऽनुवाकः ।
आदित्यो वै तेज ओजो बलं यशश्चक्षुः श्रोत्रमात्मा मनो मन्युर्मनुर्मृत्युः सत्यो मित्रो वायुराकाशः प्राणो लोकपालः कः किं कं तत्सत्यमन्नममृतो जीवो विश्वः कतमः स्वयम्भु ब्रह्मैतदमृत एष पुरुष एष भूतानामधिपतिर्ब्रह्मणः सायुज्यँ सलोकतामाप्नोत्येतासामेव देवतानाँ सायुज्यँ सार्ष्टिताँ समानलोकतामाप्नोति य एवं वेदेत्युपनिषत् ॥१॥ घृणिः सूर्य आदित्योमर्चयन्ति तपः सत्यं मधु क्षरन्ति तद्ब्रह्म तदाप आपो ज्योती रसोऽमृतं ब्रह्म भूर्भुवः सुवरोम् ॥२॥
षोडशोऽनुवाकः ।
निधनपतये नमः । निधनपतान्तिकाय नमः । ऊर्ध्वाय नमः । ऊर्ध्वलिङ्गाय नमः । हिरण्याय नमः । हिरण्यलिङ्गाय नमः । सुवर्णाय नमः । सुवर्णलिङ्गाय नमः । दिव्याय नमः । दिव्यलिङ्गाय नमः । भवाय नमः। भवलिङ्गाय नमः । शर्वाय नमः । शर्वलिङ्गाय नमः । शिवाय नमः । शिवलिङ्गाय नमः । ज्वलाय नमः । ज्वललिङ्गाय नमः । आत्माय नमः । आत्मलिङ्गाय नमः । परमाय नमः । परमलिङ्गाय नमः । एतत्सोमस्य सूर्यस्य सर्वलिङ्गँ स्थापयति पाणिमन्त्रं पवित्रम् ॥१॥
सप्तदशोऽनुवाकः ।
सद्योजातं प्रपद्यामि सद्योजाताय वै नमो नमः । भवे भवे नातिभवे भवस्व माम् । भवोद्भवाय नमः ॥१॥
अष्टदशोऽनुवाकः ।
वामदेवाय नमो ज्येष्ठाय नमः श्रेष्ठाय नमो रुद्राय नमः कालाय नमः कलविकरणाय नमो बलविकरणाय नमो बलाय नमो बलप्रमथाय नमः सर्वभूतदमनाय नमो मनोन्मनाय नमः ॥१॥
एकोनविंशोऽनुवाकः ।
अघोरेभ्योऽथ घोरेभ्यो घोरघोरतरेभ्यः । सर्वतः शर्व सर्वेभ्यो नमस्ते अस्तु रुद्ररूपेभ्यः ॥१॥
विंशोऽनुवाकः ।
तत्पुरुषाय विद्महे महादेवाय धीमहि । तन्नो रुद्रः प्रचोदयात् ॥१॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP