महानारायणोपनिषत् - अनुवाकः ३१ ते ४०

आपल्या प्राचीन वाङ्मयामध्ये उपनिषदांना फार महत्त्वाचे, म्हणजे प्रस्थानत्रयी मधील एक, असे स्थान आहे.
Upanishad are highly philosophical and metaphysical part of Vedas. Being the conclusive part of Vedas, Upanishad can be called the whole substance of Vedic


एकत्रिंशोऽनुवाकः ।
अग्निश्च मा मन्युश्च मन्युपतयश्च मन्युकृतेभ्यः । पापेभ्यो रक्षन्ताम् । यदह्ना पापमकार्षम् । मनसा वाचा हस्ताभ्याम् । पद्भ्यामुदरेण शिश्ना । अहस्तदवलिम्पतु । यत्किञ्च दुरितं मयि । इदमहं माममृतयोनी । सत्ये ज्योतिषि जुहोमि स्वाहा ॥१॥
द्वात्रिंशोऽनुवाकः ।
सूर्यश्च मा मन्युश्च मन्युपतयश्च मन्युकृतेभ्यः । पापेभ्यो रक्षन्ताम् । यद्रात्रिया पापमकार्षम् । मनसा वाचा हस्ताभ्याम् । पद्भ्यामुदरेण शिश्ना । रात्रिस्तदवलुम्पतु । यत्किञ्च दुरितं मयि । इअदमहं माममृतयोनी । सूर्ये ज्योतिषि स्वाहा ॥१॥
त्रयस्त्रिंशोऽनुवाकः ।
ओमित्येकाक्षरं ब्रह्म । अग्निर्देवता ब्रह्म इत्यार्षम् । गायत्रं छन्दं परमात्मं सरूपम् । सायुज्यं विनियोगम् ॥१॥
चतुस्त्रिंशोऽनुवाकः ।
आयातु वरदा देवी अक्षरं ब्रह्म संमितम् । गायत्री छन्दसां मातेदं ब्रह्म जुषस्व नः ॥१॥ यदह्नात्कुरुते पापं तदह्नात्प्रतिमुच्यते । यद्रात्रियात्कुरुते पापं तद्रात्रियात्प्रतिमुच्यते । सर्ववर्णे महादेवि सन्ध्याविद्ये सरस्वति ॥२॥
पञ्चत्रिंशोऽनुवाकः ।
ओजोऽसि सहोऽसि बलमसि भ्राजोऽसि देवानां धामनामासि विश्वमसि विश्वायुअः सर्वमसि सर्वायुरभिभूरों गायत्रीमावाहयामि सावित्रीमावाहयामि सरस्वतीमावाहयामि छन्दर्हीनावाहयामि श्रियमावाहयामि गायत्रिया गायत्री छन्दो विश्वामित्र ऋषिः सविता देवताग्निर्मुखं ब्रह्मा शिरो विष्णुहृदयँ रुद्रः शिखा पृथिवी योनिः प्राणापानव्यानोदानस्माना सप्राणा श्वेतवर्णा सांख्यायनसगोत्रा गायत्री चतुर्विंशत्यक्षरा त्रिपदा ष्ट्कुक्षिः पञ्चशीर्षोपनयने विनियोगः ॥१॥ ॐ भूः । ॐ भुवः । ओँसुवः । ॐ महः । ॐ जनः । ॐ तपः । ओँ सत्यम् । ॐ तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि । धियो यो नः प्रचोदयात् । ओमापो ज्योती रसोऽमृतं ब्रह्म भूर्भुवः सुवरोम् ॥२॥
षट्त्रिंशोऽनुवाकः ।
उत्तमे शिखरे देवि जाते भूम्यां पर्वतमूर्धनि । ब्राह्मणेभ्योऽभ्यनुज्ञाता गच्छ देवि यथासुखम् ॥१॥ स्तुतो मया वरदा वेदमाता प्रचोदयन्ती पवने द्विजाता । आयुः पृथिव्यां द्रविणं ब्रह्मवर्चसं मह्यं दत्वा प्रजातुं ब्रह्मलोकम् ॥२॥
सप्तत्रिंशोऽनुवाकः ।
घृणिः सूर्य आदित्यो न प्रभा वात्यक्षरम् । मधु क्षरन्ति तद्रसम् । सत्यं वै तद्रसमापो ज्योती रसोऽमृतं ब्रह्म भूर्भुवः सुवरोम् ॥१॥ त्रिसुपर्णमन्त्रः १
अष्टत्रिंशोऽनुवाकः ।
ब्रह्ममेतु माम् । मधुमेतु माम् । ब्रह्ममेव मधुमेतु माम् । यास्ते सोम प्रजा वत्सोऽभि सो अहम् । दुःष्वप्नहन् दुरुष्षह । यास्ते सोम प्राणाँस्ताञ्जुहोमि ॥१॥ त्रिसुपर्णमयाचितं ब्राह्मणाय दद्यात् । ब्रह्महत्यां वा एते घ्नन्ति । ये ब्राह्मणास्त्रिसुपर्णं पठन्ति । ते सोमं प्राप्नुवन्ति । आ सहस्रात् पङ्क्तिं पुनन्ति । ॐ ॥२॥ त्रिसुपर्णमन्त्रः २
एकोनचत्वारिंशोऽनुवाकः ।
ब्रह्म मेधया । मधु मेधया । ब्रह्ममेव मधुमेधया ॥१॥ अद्यानो देव सवितः प्रजावत्सावीः सौभगम् । परा दुःष्वप्नियँ सुव ॥२॥ विश्वानि देव सवितर्दुरितानि परासुव । यद्भद्रं तन्मम आसुव ॥३॥ मधुवाता ऋतायते मधुक्षरन्ति सिन्धवः । माध्वीर्नः सन्त्वोषधीः ॥४॥ मधु नक्तमुतोषसि मधुमत्पार्थिवँ रजः । मधुद्यौरस्तु नः पिता ॥५॥ मधुमान्नो वनस्पतिर्मधुमाँ अस्तु सूर्यः । माध्वीर्गावो भवन्तु नः ॥६॥ य इमं त्रिसुपर्णमयाचितं ब्राह्मणाय दद्यात् । भ्रूणहत्यां वा एते घ्नन्ति । ये ब्राह्मणास्त्रिसुपर्णं पठन्ति । ते सोमं प्राप्नुवन्ति । आ सहस्रात्पङ्क्तिं पुनन्ति । ॐ ॥७॥ त्रिसुपर्णमन्त्रः ३
चत्वारिंशोऽनुवाकः ।
ब्रह्म मेधवा । मधु मेधवा । ब्रह्ममेव मधु मेधवा ॥१॥ ब्रह्मा देवानां पदवीः कवीनामृषिर्विप्राणां महिषो मृगाणाम् । श्येनो गृद्धाणाँ स्वधितिर्वनानाँ सोमः पवित्रमत्येति रेभत् ॥२॥ हँसः शुचिषद्वसुरन्तरिक्षसद्धोता वेदिषदतिथिर्दुरोणसत् । नृषद्वरसदृतसद्व्योमसदब्जा गोजा ऋतजा अद्रिजा ऋतं बृहत् ॥३॥ ऋचे त्वा ऋचे त्वा समित्स्रवन्ति सरितो न धेनाः । अन्तर्हृदा मनसा पूयमानाः । घृतस्य धारा अभिचाकशीमि ॥४॥ हिरण्ययो वेतसो मध्य आसाम् । तस्मिन्त्सुपर्णो मधुकृत् कुलायी भजन्नास्ते मधु देवताभ्यः । तस्यासते हरयः सप्त तीरे स्वधां दुहाना अमृतस्य धाराम् ॥५॥ य इदं त्रिसुपर्णमयाचितं ब्राह्मणाय दद्यात् । वीरहत्यां वा एते घ्नन्ति । ये ब्राह्मणास्त्रिसुपर्णं पठन्ति । ते सोमं प्राप्नुवन्ति । आसहस्रात् पङ्क्तिं पुनन्ति । ॐ ॥६॥


References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP