अनन्वय अलंकारः - लक्षण २
रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.
एवम्-
‘ लड्कापुरादतितरां कुपित: फणीव निर्गत्य जातु पृतनापतिभि: परीत: । क्तुद्धं रणे सपदि दाशरथिं दशास्य: संरब्धदाशरथिदर्शमहो ददर्श ॥’
एवं कर्तृणमुलादावप्यूह्मम् ।
‘ अम्बरत्यम्बरं यद्वत्समुद्रोऽपि समुद्रति । विक्तमार्कमहीपाल तथा त्वं विक्तमार्कसि ॥’
अत्र वाक्यार्थावयवेष्वनन्वयेषु धर्मवाचकयोर्लोप: । मुखवाक्यार्थस्त्व-नन्वयफलेन निरुपमत्वेन समानधर्मेण प्रयोजितो मालोपमैव । एषा च ज्ञानसौकर्यायात्रैव निरूपिता ।
‘ एतावति प्रपञ्चेऽस्मिन्सदेवासुरमानुषे । केनोपमीयतां तज्ज्ञै रामो रामपराक्तम: ॥ ’
अत्र वाचकधर्मोपमानानां लोप: । अत्र चोपमानलुप्तादयोऽन्ये भेदा असंभवादह्लद्यत्वाच्च नोदाह्लता: ।
यत्तु-“ तेन तदेकदेशेनावसितभेदेन बोपमानतया कल्पितेन सादृश्य-मनन्वय: । उपमेयेनैवोपमानतया कल्पितेनोपमेयस्यामुखावभासमानसा-धर्मापादनमेकोऽनन्वय: । उपमेयैकदेशस्य तथैवोपमानताकल्पनमपर: । उपमेयस्यैव प्रतिबिम्बत्वादिना भेदेनावसितस्य तत्त्वकल्पनं तृतीय: ।
आद्यो यथा- ‘ युद्धेऽर्जुनोऽर्जुन इव प्रथितप्रताप: ’ इत्यादि ।
N/A
References : N/A
Last Updated : January 17, 2018
TOP